अ॒भि प्रेहि᳚ दक्षिण॒तो भ᳚वा॒ मे॑धा᳚ वृ॒त्राणि᳚ जङ्घनाव॒ भूरि᳚ ।
जु॒होमि᳚ ते ध॒रुणं॒ मध्वो॒ अग्र᳚मु॒भा उ᳚पां॒शु प्र᳚थ॒मा पि᳚बाव ॥
जु॒होमि᳚ ते ध॒रुणं॒ मध्वो॒ अग्र᳚मु॒भा उ᳚पां॒शु प्र᳚थ॒मा पि᳚बाव ॥
पदपाठः (Word-by-word)
अ॒भि । प्र । इ॒हि॒ । द॒क्षि॒ण॒तः । भ॒व॒ । मे॒ । अध᳚ । वृ॒त्राणि᳚ । ज॒ङ्घ॒ना॒व॒ । भूरि᳚ ।
जु॒होमि᳚ । ते॒ । ध॒रुण᳚म् । मध्वः᳚ । अग्र᳚म् । उ॒भौ । उ॒प॒॑अं॒शु । प्र॒थ॒मा । पि॒बा॒व॒ ॥
जु॒होमि᳚ । ते॒ । ध॒रुण᳚म् । मध्वः᳚ । अग्र᳚म् । उ॒भौ । उ॒प॒॑अं॒शु । प्र॒थ॒मा । पि॒बा॒व॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे सहुरे शत्रूणां सहनशील विश्वधायो विश्वस्य धर्तर्मन्यो अयं जनोऽहं ते तवास्मि कर्मकृत्। यत एवमतः प्रतीचीनः प्रतिगन्तार्वाङस्मदभिमुखं मा मामुपेहि। उपागच्छ। हे मन्यो वज्रिन् मामभ्या ववृत्स्व। अभ्यावर्तस्व। किमर्थमभ्यागमनमिति चेत् उच्यते। हनावावां दस्युञ्शत्रून्। उतापि चापेर्बन्धुं बोधि। बुध्यस्व॥७॥