श्रवणम्

10.83.4 समानपद
त्वं हि म᳚न्यो अ॒भिभू᳚त्योजाः स्वय॒म्भूर्भामो᳚ अभिमातिषा॒हः ।
वि॒श्वच᳚र्षणि॒ः सहु᳚रि॒ः सहा᳚वान॒स्मास्वोज॒ः पृत᳚नासु धेहि ॥
▶ पदपाठः (Word-by-word)
त्वम् । हि । म॒न्यो॒ इति᳚ । अ॒भिभू᳚ति॑ओजाः । स्व॒य॒म्॑भूः । भामः᳚ । अ॒भि॒मा॒ति॒॑स॒हः ।
वि॒श्व॑च᳚र्षणिः । सहु᳚रिः । सहा᳚वान् । अ॒स्मासु᳚ । ओजः᳚ । पृत᳚नासु । धे॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मन्यो त्वमभीहि। अभिगच्छास्मद्यज्ञम्। कीदृशस्त्वम्। तवसो बलवतोऽपि तवीयानत्यन्तं बलवान्। स त्वं तपसास्मत्पित्रा युजा सहायेन शत्रून्वि जहि। किञ्चामित्रहामित्राणां हन्ता। अमित्रोऽस्निग्धः। तथा वृत्रहावरकाणां शत्रूणां हन्ता तथा दस्युहा च। दस्युरुपक्षयकारी शत्रुः। तादृश मन्युदेव त्वं विश्वा सर्वाणि वसूनि धनानि नोऽस्मभ्यमा भर। आहर॥४॥