श्रवणम्

10.83.3 समानपद
अ॒भी᳚हि मन्यो त॒वस॒स्तवी᳚या॒न्तप᳚सा यु॒जा वि ज᳚हि॒ शत्रू᳚न् ।
अ॒मि॒त्र॒हा वृ᳚त्र॒हा द᳚स्यु॒हा च॒ विश्वा॒ वसू॒न्या भ᳚रा॒ त्वं नः᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒भि । इ॒हि॒ । म॒न्यो॒ इति᳚ । त॒वसः᳚ । तवी᳚यान् । तप᳚सा । यु॒जा । वि । ज॒हि॒ । शत्रू᳚न् ।
अ॒मि॒त्र॒॑हा । वृ॒त्र॒॑हा । द॒स्यु॒॑हा । च॒ । विश्वा᳚ । वसू᳚नि । आ । भ॒र॒ । त्वम् । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयं मन्युरिन्द्रो मन्युरेव देवः सर्वोऽपि मन्युरेवास। अभवत्। मन्युरेव होता होमनिष्पादकोऽग्निः। तथा मन्युर्वरुणोऽपि जातवेदा जातप्रज्ञो वरुणश्च। सर्वेष्वपि तेजस्विषु मन्युसद्भावात्। या मानुषीर्मनुषोऽपत्यभूता विशः प्रजाः सन्ति ता मन्युमेव देवमीळते। स्तुवन्ति। हे मन्यो तपसैतन्नामकेनास्मत्पित्रा सजोषाः समानप्रीतिस्त्वं पाहि। रक्ष॥३॥