दशमं मण्डलम् - सूक्तम् 119

13 ऋचः

ऋषिः: लब ऐंद्रः देवता: आत्मस्तुतिः छन्दः: गायत्री

सूक्तम् 10.119 - सम्पूर्णम्

1 / 13
ऋक्: 10.119.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (13)
10.119.1
इति॒ वा इति᳚ मे॒ मनो॒ गामश्वं᳚ सनुया॒मिति᳚ ।
कु॒वित्सोम॒स्यापा॒मिति᳚ ॥
▶ पदपाठः (Word-by-word)
इति᳚ । वै । इति᳚ । मे॒ । मनः᳚ । गाम् । अश्व᳚म् । स॒नु॒या॒म् । इति᳚ ।
कु॒वित् । सोम᳚स्य । अपा᳚म् । इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इदि वा इति त्रयोदशर्चम् सप्तमं सूक्तं गायत्रम्। इन्द्रो लबरूपमास्थाय सोमपानं कुर्वन् तदानीमृशिभिः दृष्टह् सन् स्वात्मनमनेन सूक्तेनास्तावीत्। अतो लबरूपापन्न इन्द्र ऋषिः। स एव देवता। तथा चानुक्रम्यते। इति वै सप्तोनैन्द्रो लब आत्मानं तुष्टावेति। गतो विनियोगः॥

इदि वा इति खिल्वित्येवं प्रकारेन मे मदीयं मनो वर्तते। तं प्रकारं दर्शयति। गामश्वं च सनुयां स्तोतृभ्यः प्रयच्छामिति। षणु दाने तानादिकः। इति शब्दो हेतौ। यस्मात् कुविद्बहुवारं सोमस्य सोममपां पीतवानस्मि। क्रियाग्रहणं कर्तव्यमिति सोमस्य सम्प्रदानसम्ज्ञा। चतुर्थ्यर्थे बहुलमिति षष्ठी। पा पाने। लुङि गातिस्थेति सिचो लुक्। कुविद्योगादनिघातः॥१॥

10.119.2
प्र वाता᳚ इव॒ दोध᳚त॒ उन्मा᳚ पी॒ता अ᳚यंसत ।
कु॒वित्सोम॒स्यापा॒मिति᳚ ॥
▶ पदपाठः (Word-by-word)
प्र । वाताः᳚॑इव । दोध᳚तः । उत् । मा॒ । पी॒ताः । अ॒यं॒स॒त॒ ।
कु॒वित् । सोम᳚स्य । अपा᳚म् । इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

दोधतो भृशं कम्पयमाना वाता इव वायवो यथा वृक्षादीनुद्यच्छन्ते तद्वत्पीताः सोमा मा मां प्रकर्षेणोदयंसत। उद्यच्छन्ते। यमेर्लुङि समुदाङ्भ्यो यमोऽग्रन्थे। पा. १-३-७५। इत्यात्मने पदम्। यस्माद्बहुवारम् सोममपाम्॥२॥

10.119.3
उन्मा᳚ पी॒ता अ᳚यंसत॒ रथ॒मश्वा᳚ इवा॒शवः᳚ ।
कु॒वित्सोम॒स्यापा॒मिति᳚ ॥
▶ पदपाठः (Word-by-word)
उत् । मा॒ । पी॒ताः । अ॒यं॒स॒त॒ । रथ᳚म् । अश्वाः᳚॑इव । आ॒शवः᳚ ।
कु॒वित् । सोम᳚स्य । अपा᳚म् । इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पीताः सोमा मामुदयंसत। उद्यच्छन्ते। तत्र दृष्टान्तः। रथमश्वा इव यथाशवः क्शिप्रगामिनो गमनेन व्यप्ता वाश्वा रथमुद्गमयन्ति तद्वत्॥३॥

10.119.4
उप᳚ मा म॒तिर᳚स्थित वा॒श्रा पु॒त्रमि᳚व प्रि॒यम् ।
कु॒वित्सोम॒स्यापा॒मिति᳚ ॥
▶ पदपाठः (Word-by-word)
उप᳚ । मा॒ । म॒तिः । अ॒स्थि॒त॒ । वा॒श्रा । पु॒त्रम्॑इ᳚व । प्रि॒यम् ।
कु॒वित् । सोम᳚स्य । अपा᳚म् । इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मतिः स्तोतृभिः क्रियमाणा स्तुतिकर्मा मामुपास्थित। संयोजयति। उपाद्देवपुजासङ्गतिकरनेत्यात्मनेपदम्। कथमिव। वाश्रा पुत्रमिव यथ वाश्रा शब्दायमाना धेनुः प्रियं पुत्रं वत्सम् सङ्गच्छति तद्वत्॥४॥

10.119.5
अ॒हं तष्टे᳚व व॒न्धुरं॒ पर्य᳚चामि हृ॒दा म॒तिम् ।
कु॒वित्सोम॒स्यापा॒मिति᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒हम् । तष्टा᳚॑इव । व॒न्धुर᳚म् । परि᳚ । अ॒चा॒मि॒ । हृ॒दा । म॒तिम् ।
कु॒वित् । सोम᳚स्य । अपा᳚म् । इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तष्टेव तक्षा यथा वन्धुरं सारथिनिवासस्थानम्। तद्वान्वोपलक्ष्यते तत्स्थानं रथम् वा साधुकरोति तद्वदहं मतिं स्तुतिं हृदात्मीयेन मनसा मर्यचरामि। साधुकरणाय परिगच्छामि॥५॥

10.119.6
न॒हि मे᳚ अक्षि॒पच्च॒नाच्छा᳚न्त्सु॒ः पञ्च᳚ कृ॒ष्टयः᳚ ।
कु॒वित्सोम॒स्यापा॒मिति᳚ ॥
▶ पदपाठः (Word-by-word)
न॒हि । मे॒ । अ॒क्षि॒॑पत् । च॒न । अच्छा᳚न्त्सुः । पञ्च᳚ । कृ॒ष्टयः᳚ ।
कु॒वित् । सोम᳚स्य । अपा᳚म् । इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

चनेति निपातसमुदायोऽप्यर्थे। पञ्च क्रुष्तयोऽपि निशादपञ्चमाश्चत्वारो वर्नाः पञ्च जनाः। यद्वा। देवमनुष्यादयः। मे मदीयमपक्षिपच्चक्शुः पतनम् दृष्टिसञ्चारं नह्यच्छान्त्सुः। न ह्यपवृण्वन्ति। न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यत इति हि श्रुतेः। शत. १४-७-१-२३। छदि अपवारने। चुरादीनामिति वा ण्यन्तत्वादत्रण्यभावे लुङि हलन्तलक्षना व्रुद्धिः। पा. ७-२-३। यस्माद्बहुवारं सोममपाम्॥६॥

10.119.7
न॒हि मे॒ रोद᳚सी उ॒भे अ॒न्यं प॒क्षं च॒न प्रति᳚ ।
कु॒वित्सोम॒स्यापा॒मिति᳚ ॥
▶ पदपाठः (Word-by-word)
न॒हि । मे॒ । रोद᳚सी॒ इति᳚ । उ॒भे इति᳚ । अ॒न्यम् । प॒क्षम् । च॒न । प्रति᳚ ।
कु॒वित् । सोम᳚स्य । अपा᳚म् । इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उभे रोदसी द्यावापृथिव्यौ मे मदीयमन्यं पक्शं चन पक्षमपि प्रति समाने न भवतः॥७॥

10.119.8
अ॒भि द्यां म᳚हि॒ना भु᳚वम॒भी॒३॒᳚मां पृ᳚थि॒वीं म॒हीम् ।
कु॒वित्सोम॒स्यापा॒मिति᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒भि । द्याम् । म॒हि॒ना । भु॒व॒म् । अ॒भि । इ॒माम् । पृ॒थि॒वीम् । म॒हीम् ।
कु॒वित् । सोम᳚स्य । अपा᳚म् । इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उक्तमर्थं प्रतिपादयति। महिना महिम्नात्मीयेन द्याम् द्युलोकमभिभुवम्। अभिभवामि। तथा महीं महतीमिमां पृथिवीं स्वमहिम्नाभि भवामि। भवतेर्लङि च्छान्दसो विकरनस्य लुक्। भूसुवोस्तिङीति गुणे प्रतिषिद्ध उवञादेशः॥८॥

10.119.9
हन्ता॒हं पृ᳚थि॒वीमि॒मां नि द᳚धानी॒ह वे॒ह वा᳚ ।
कु॒वित्सोम॒स्यापा॒मिति᳚ ॥
▶ पदपाठः (Word-by-word)
हन्त᳚ । अ॒हम् । पृ॒थि॒वीम् । इ॒माम् । नि । द॒धा॒नि॒ । इ॒ह । वा॒ । इ॒ह । वा॒ ।
कु॒वित् । सोम᳚स्य । अपा᳚म् । इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हन्तेति सम्भावनायामनुज्ञायां वा। सम्भावयाम्येतदनुजानामि वा। किं तत्। अहमिमां पृथिविमिह वान्तरिक्षे नि दधानि। इह वा द्युलोक इति हस्तेन निर्दिशति। दधातेर्लोटि मेर्निः॥९॥

10.119.10
ओ॒षमित्पृ᳚थि॒वीम॒हं ज॒ङ्घना᳚नी॒ह वे॒ह वा᳚ ।
कु॒वित्सोम॒स्यापा॒मिति᳚ ॥
▶ पदपाठः (Word-by-word)
ओ॒षम् । इत् । पृ॒थि॒वीम् । अ॒हम् । ज॒ङ्घना᳚नि । इ॒ह । वा॒ । इ॒ह । वा॒ ।
कु॒वित् । सोम᳚स्य । अपा᳚म् । इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अहं पृथिवीमभिलक्ष्योषं स्वतेजसा तापकमादित्यमिह वान्तरिक्ष इह वा द्युलोके जङ्घनानि। भृशं यापयानि। इदिति पूरणः। हन्तेर्गत्यर्थस्य यङ् लुगन्तस्य लोटि शपो लुगभावश्छान्दसः॥१०॥

10.119.11
दि॒वि मे᳚ अ॒न्यः प॒क्षो॒३॒᳚॑धो अ॒न्यम᳚चीकृषम् ।
कु॒वित्सोम॒स्यापा॒मिति᳚ ॥
▶ पदपाठः (Word-by-word)
दि॒वि । मे॒ । अ॒न्यः । प॒क्षः । अ॒धः । अ॒न्यम् । अ॒ची॒कृ॒ष॒म् ।
कु॒वित् । सोम᳚स्य । अपा᳚म् । इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मे मदीयोऽन्यः पक्षो दिवि द्युलोके स्थापितः। अधः। पूर्वाधरावराणामसीत्यादिनासिप्रत्ययः। प्रकृतेरधादेशश्च। अधस्तात्पृथिव्यामन्यं पक्शमचीक्रुषम्। अकार्षम्। कृश विलेखने। ण्यन्तस्य लुङि चङि नित्यं छन्दसि। पा. ७-४-८। इत्यृकारादेशः। विलेखनं नामोत्पादनम्। उद्पादयम्। आस्थापयमित्यर्थः॥११॥

10.119.12
अ॒हम᳚स्मि महाम॒हो᳚॑भिन॒भ्यमुदी᳚षितः ।
कु॒वित्सोम॒स्यापा॒मिति᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒हम् । अ॒स्मि॒ । म॒हा॒॑म॒हः । अ॒भि॒॑न॒भ्यम् । उत्॑ई᳚षितः ।
कु॒वित् । सोम᳚स्य । अपा᳚म् । इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अभिनभ्यं नाभौ मध्यस्थाने भवं नभ्यमन्तरिक्षम्। उगवादिभ्यो यत्। पा. ५-१-२। इति यत्प्रत्ययः। तत्रैव पाठान्नभादेशश्च। लक्षनेनाभिप्रती आभिमुख्ये। पा. २-१-१४। इत्यव्ययीभावसमासस्वरः। अन्तरिक्षमभ्युदीषित उद्गतः सुर्यात्माहं महामहोऽस्मि। महतामपि महानस्मि। यद्वा। महत्प्रभूतं महस्तेजो यस्य। प्रभूततेजस्कोऽस्मि। आन्महत इत्यात्वम्॥१२॥

10.119.13
गृ॒हो या॒म्यरं᳚कृतो दे॒वेभ्यो᳚ हव्य॒वाह᳚नः ।
कु॒वित्सोम॒स्यापा॒मिति᳚ ॥
▶ पदपाठः (Word-by-word)
गृ॒हः । या॒मि॒ । अर᳚म्॑कृतः । दे॒वेभ्यः᳚ । ह॒व्य॒॑वाह᳚नः ।
कु॒वित् । सोम᳚स्य । अपा᳚म् । इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

गृहो हविषाम् ग्रहीतारं कृतो यजमानैरलङ्कृतोऽहम् देवेभ्य इन्द्रादिभ्यो हव्यवाहनो हविषाम् वोढा प्रापयिताग्न्यात्मा सन्यामि। हवींषि प्रापयामि। या प्रापने। लिट्। हव्येऽनन्तःपादमिति वहेर्ञ्युट्। ञित्त्वादाद्युदात्तः। समासे कृदुत्तरपदप्रकृतिस्वरः। इति यस्मात्कुविद्बहुवारम् सोमस्य सोममपां पीतवानस्मि। तस्मादेतान्यकार्षमितीन्द्रः स्वात्मानमेवास्तावीत्॥१३॥

वेदार्थस्य प्रकाशेन तमे हार्दं निवारयन्। पुमार्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तक श्री वीरबुक्कभुपाल साम्राज्य धुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थ प्रकाशे ऋक्संहिताभाष्ये

अष्टमाष्टके षष्ठोऽध्यायः समाप्तः॥