दशमं मण्डलम् - सूक्तम् 16

14 ऋचः

ऋषिः: दमनो यामायनः देवता: अग्निः छन्दः: त्रिष्टुप्

सूक्तम् 10.16 - सम्पूर्णम्

1 / 14
ऋक्: 10.16.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (14)
10.16.1
मैन᳚मग्ने॒ वि द᳚हो॒ माभि शो᳚चो॒ मास्य॒ त्वचं᳚ चिक्षिपो॒ मा शरी᳚रम् ।
य॒दा शृ॒तं कृ॒णवो᳚ जातवे॒दो॑थे᳚मेनं॒ प्र हि᳚णुतात्पि॒तृभ्य᳚ः ॥
▶ पदपाठः (Word-by-word)
मा । ए॒न॒म् । अ॒ग्ने॒ । वि । द॒हः॒ । मा । अ॒भि । शो॒चः॒ । मा । अ॒स्य॒ । त्वच᳚म् । चि॒क्षि॒पः॒ । मा । शरी᳚रम् ।
य॒दा । शृ॒तम् । कृ॒णवः᳚ । जा॒त॒॑वे॒दः॒ । अथ᳚ । ई॒म् । ए॒न॒म् । प्र । हि॒णु॒ता॒त् । पि॒तृ॑भ्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने एनं प्रेतं माविदहः विशेषेण दग्धं भस्मीभूतं माकुरु माभिशोचः अभितः शोकेन संतापेन युक्तं माकुरु । अस्य त्वचं माचिक्षिपः इतस्ततोविक्षिप्तां माकुरु शरीर- मपि विक्षिप्तं माकुरु । हे जातवेदः अग्ने यदा त्वं श्रृतं पक्वं सुदग्धं कृणवः करिष्यसि अथ तदानीं ईमेनं प्रेतं पितृभ्यः प्राहिणुतात् पितृसमीपे प्रेरय ॥ १ ॥

10.16.2
शृ॒तं य॒दा कर᳚सि जातवे॒दो॑थे᳚मेनं॒ परि᳚ दत्तात्पि॒तृभ्य᳚ः ।
य॒दा गच्छा॒त्यसु᳚नीतिमे॒तामथा᳚ दे॒वानां᳚ वश॒नीर्भ᳚वाति ॥
▶ पदपाठः (Word-by-word)
शृ॒तम् । य॒दा । कर᳚सि । जा॒त॒॑वे॒दः॒ । अथ᳚ । ई॒म् । ए॒न॒म् । परि᳚ । द॒त्ता॒त् । पि॒तृ॑भ्यः᳚ ।
य॒दा । गच्छा᳚ति । असु᳚॑नीतिम् । ए॒ताम् । अथ᳚ । दे॒वाना᳚म् । व॒श॒॑नीः । भ॒वा॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे जातवेदः यदा प्रेतशरीरं श्रृतं पक्वं करसि करिष्यसि अथ ईं तदानीमेव एनं प्रेतं पित्रुभ्यः परिदत्तात् प्रयच्छ यदा अयं प्रेतः एतामग्निना कृतामसुनीतिं प्राणस्य नयनं प्राणप्रेरणं गच्छाति गच्छति प्राप्नोति अथ तदानीमेव देवानां वाशनी देवानां वशं प्रापि तोभवाति भवति ॥ २ ॥

10.16.3 समानपद
सूर्यं॒ चक्षु᳚र्गच्छतु॒ वात᳚मा॒त्मा द्यां च᳚ गच्छ पृथि॒वीं च॒ धर्म᳚णा ।
अ॒पो वा᳚ गच्छ॒ यदि॒ तत्र᳚ ते हि॒तमोष᳚धीषु॒ प्रति᳚ तिष्ठा॒ शरी᳚रैः ॥
▶ पदपाठः (Word-by-word)
सूर्य᳚म् । चक्षुः᳚ । ग॒च्छ॒तु॒ । वात᳚म् । आ॒त्मा । द्याम् । च॒ । ग॒च्छ॒ । पृ॒थि॒वीम् । च॒ । धर्म᳚णा ।
अ॒पः । वा॒ । ग॒च्छ॒ । यदि᳚ । तत्र᳚ । ते॒ । हि॒तम् । ओष᳚धीषु । प्रति᳚ । ति॒ष्ठ॒ । शरी᳚रैः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे प्रेत ते त्वदीयं चक्षुरिन्द्रियं सूर्यं गच्छतु प्राप्नोतु आत्मा प्राणः वातं बाह्यं वायुं गच्छतु अपिच त्वमपि धर्मणा सुकृतेन तत्फलं भोक्तुं द्यां च अत्र च शब्दोविकल्पार्थे द्युलोकं वा प्रुथिवीं च पृथिवीं वा गच्छ प्राप्नुहि अपोवान्तरिक्षलोकं गच्छ प्राप्नुहि यदि तत्रान्तरिक्षे हितं स्थापितं ते तव कर्मफलं ओषधीषु शरीरैः शरीरावयवैः प्रतितिष्ठ प्रतितिष्ठति ॥ ३ ॥

10.16.4
अ॒जो भा॒गस्तप᳚सा॒ तं त᳚पस्व॒ तं ते᳚ शो॒चिस्त᳚पतु॒ तं ते᳚ अ॒र्चिः ।
यास्ते᳚ शि॒वास्त॒न्वो᳚ जातवेद॒स्ताभि᳚र्वहैनं सु॒कृता᳚मु लो॒कम् ॥
▶ पदपाठः (Word-by-word)
अ॒जः । भा॒गः । तप᳚सा । तम् । त॒प॒स्व॒ । तम् । ते॒ । शो॒चिः । त॒प॒तु॒ । तम् । ते॒ । अ॒र्चिः ।
याः । ते॒ । शि॒वाः । त॒न्वः᳚ । जा॒त॒॑वे॒दः॒ । ताभिः᳚ । व॒ह॒ । ए॒न॒म् । सु॒॑कृता᳚म् । ऊं॒ इति᳚ । लो॒कम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अजः जननरहितः शरीरेन्द्रियादिभागव्यतिरिक्तः अन्तरपुरुषलक्षणोयोभागोस्ति हे अग्ने ते त्वदीयेन तपसातापनेन तं तादृशं भागं तपस्व तप्तं कुरु तथा ते तव शोचिः शोकहे तुज्वालाविशेषः तं भागं तपतु संस्करोतु । अपिच ते तवार्चिर्भासकः ज्वालाविशेषः तं भागं तपतु संस्करोतु । अपिच ते तवार्चिर्भासकः ज्वालाविशेषः तं भागं तपतु । तपः— शोचिरर्चिःशब्दानां सन्तापतारतम्येनभेदः । जातवेदः ते तव यास्तन्वोमूर्तयः शिवाः सुख हेतवः नतु तापप्रदाः ताभिरेनं तनूभिः प्रेतं सुकृतां शोभनकर्मकारिणां लोकं स्थानं वह प्रापय । उशब्दः पूरणः ॥ ४ ॥

10.16.5
अव᳚ सृज॒ पुन᳚रग्ने पि॒तृभ्यो॒ यस्त॒ आहु᳚त॒श्चर᳚ति स्व॒धाभि᳚ः ।
आयु॒र्वसा᳚न॒ उप᳚ वेतु॒ शेष॒ः सं ग᳚च्छतां त॒न्वा᳚ जातवेदः ॥
▶ पदपाठः (Word-by-word)
अव᳚ । सृ॒ज॒ । पुनः᳚ । अ॒ग्ने॒ । पि॒तृ॑भ्यः᳚ । यः । ते॒ । आ॑हु᳚तः । चर᳚ति । स्व॒धाभिः᳚ ।
आयुः᳚ । वसा᳚नः । उप᳚ । वे॒तु॒ । शेषः᳚ । सम् । ग॒च्छ॒ता॒म् । त॒न्वा᳚ । जा॒त॒॑वे॒दः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने यः प्रेतः पुमान् ते तुभ्यं आहुतः चितौ मंत्रेण समर्पितः सन् स्वधाभिः स्व- धाकारसमपितैरुदकादिभिः सह चरति तं प्रेतं पितृभ्यः पितृप्राप्त्यर्थं पुनरवसृज भूयः प्रेरय । अयं प्रेतआयुर्जीवनं वसानआच्छादयन् आयुषा युक्तइत्यर्थः । शॆषः शिष्यमाणमस्थिलक्षणं यजनीयं शरीरं उपवेतु उपगच्छतु । हे जातवेदः तव प्रसादात् तन्वा शरीरेण संगच्छतां संगतोभवतु ॥ ५ ॥

10.16.6 समानपद
यत्ते᳚ कृ॒ष्णः श᳚कु॒न आ᳚तु॒तोद᳚ पिपी॒लः स॒र्प उ॒त वा॒ श्वाप᳚दः ।
अ॒ग्निष्टद्वि॒श्वाद᳚ग॒दं कृ᳚णोतु॒ सोम᳚श्च॒ यो ब्रा᳚ह्म॒णा{4} आ᳚वि॒वेश᳚ ॥
▶ पदपाठः (Word-by-word)
यत् । ते॒ । कृ॒ष्णः । श॒कु॒नः । आ॒॑तु॒तोद᳚ । पि॒पी॒लः । स॒र्पः । उ॒त । वा॒ । श्वाप᳚दः ।
अ॒ग्निः । तत् । वि॒श्व॒॑अत् । अ॒ग॒दम् । कृ॒णो॒तु॒ । सोमः᳚ । च॒ । यः । ब्रा॒ह्म॒णान् । आ॒॑वि॒वेश᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मृतशरीर ते तव संबन्धि यदंगं कृष्णः शकुनः काकाख्यः आतुतोद आङीषदर्थे ईषत्तुन्नवान् तथा पिपीलः पिपीलिका वा सर्पोवा उतवा अपिवा श्वापदः श्वश्रृगालादिः एतेषामन्यतमोयदि तुन्नवानित्यर्थः विश्वात् सर्वस्यात्ता अग्निः तत्तादृशमंगं अगदं कृणोतु दोषरहितं करोतु संस्करोत्वित्यर्थः । तथा सोमश्च देवतारूपः ओषधिरूपोवा संस्करोतु यः सौमः ब्राह्मणान् ऋत्विगादीन् आविवेश प्रविष्टवान् ॥ ६ ॥ अनुस्तरण्यावपया प्रेतस्य मुखमग्नेर्वर्मेत्यनया प्रोर्णुयात् । सूत्रितंच—अनुस्तरण्यावपामु- त्खिद्य शिरोमुखं प्रच्छादयेदग्नेर्वर्मपरिगोभिर्व्ययस्वेतीति ।

10.16.7
अ॒ग्नेर्वर्म॒ परि॒ गोभि᳚र्व्ययस्व॒ सं प्रोर्णु᳚ष्व॒ पीव᳚सा॒ मेद᳚सा च ।
नेत्त्वा᳚ धृ॒ष्णुर्हर᳚सा॒ जर्हृ᳚षाणो द॒धृग्वि᳚ध॒क्ष्यन्प᳚र्य॒ङ्खया᳚ते ॥
▶ पदपाठः (Word-by-word)
अ॒ग्नेः । वर्म᳚ । परि᳚ । गोभिः᳚ । व्य॒य॒स्व॒ । सम् । प्र । ऊ॒र्णु॒ष्व॒ । पीव᳚सा । मेद᳚सा । च॒ ।
न । इत् । त्वा॒ । धृ॒ष्णुः । हर᳚सा । जर्हृ᳚षाणः । द॒धृक् । वि॒॑ध॒क्ष्यन् । प॒रि॒॑अ॒ङ्खया᳚ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे प्रेत अग्नेः स्वभूतं वर्म ज्वालालक्षणं कवचं गोभिः अनुस्तरणीगोचर्मणा परिव्यय- स्व परितः संवृणु । किंच पीवसा स्थूलेन मेदसा मांसेन च संसम्यक् प्रोर्णुष्व आच्छादय । एवंकृते सति हरसा तेजसा धृष्णुर्धर्षणशीलः जर्हृषाणः अत्यर्थः हृष्यन् दधृक् धृष्टः प्रग- ल्भः । ऋत्विगित्यादिनादधृक् शब्दोनिपातितः । विधक्ष्यन् विविधं भस्मीकरिष्यन् एवंभूतो ग्निः त्वा त्वां ज्ञेत्पर्यंखयाते नैव सर्वतोविस्तारयति । अखेर्गत्यर्थाल्लेट्यडागमः ॥ ७ ॥ इममग्नेचमसमित्यनया प्रणीताप्रणयनमनुमंत्रयते । सूत्रितंच—इममग्नेचमसंमाविजिह्व- रइति प्रणीताप्रणयनमनुमंत्रयतइति ।

10.16.8
इ॒मम᳚ग्ने चम॒सं मा वि जि᳚ह्वरः प्रि॒यो दे॒वाना᳚मु॒त सो॒म्याना᳚म् ।
ए॒ष यश्च᳚म॒सो दे᳚व॒पान॒स्तस्मि᳚न्दे॒वा अ॒मृता᳚ मादयन्ते ॥
▶ पदपाठः (Word-by-word)
इ॒मम् । अ॒ग्ने॒ । च॒म॒सम् । मा । वि । जि॒ह्व॒रः॒ । प्रि॒यः । दे॒वाना᳚म् । उ॒त । सो॒म्याना᳚म् ।
ए॒षः । यः । च॒म॒सः । दे॒व॒॑पानः᳚ । तस्मि᳚न् । दे॒वाः । अ॒मृताः᳚ । मा॒द॒य॒न्ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने इमं चमसं प्रणीताप्रणयनं माविजिह्वरः माविचालीः । यश्चमसः देवानामिन्द्रा दीनां प्रियः उतापिच सोम्यानां सोमार्हाणां पितॄणां प्रियः । किंच यएषचमसः देवपानः देवाः पिबंत्यस्मिन्निति देवपानस्थानीयोभवति तस्मिंश्चमसे अमृताः मरणवर्जितादेवाः पितरश्च मादयन्ते हव्यैः कव्यैश्च हृष्टाभवन्ति ॥ ८ ॥

10.16.9
क्र॒व्याद᳚म॒ग्निं प्र हि᳚णोमि दू॒रं य॒मरा᳚ज्ञो गच्छतु रिप्रवा॒हः ।
इ॒हैवायमित᳚रो जा॒तवे᳚दा दे॒वेभ्यो᳚ ह॒व्यं व᳚हतु प्रजा॒नन् ॥
▶ पदपाठः (Word-by-word)
क्र॒व्य॒॑अद᳚म् । अ॒ग्निम् । प्र । हि॒णो॒मि॒ । दू॒रम् । य॒म॑रा᳚ज्ञः । ग॒च्छ॒तु॒ । रि॒प्र॒॑वा॒हः ।
इ॒ह । ए॒व । अ॒यम् । इत᳚रः । जा॒त॑वे᳚दाः । दे॒वेभ्यः᳚ । ह॒व्यम् । व॒ह॒तु॒ । प्र॒॑जा॒नन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

आहिताग्निमरणेएतदादिद्वेऋचावौपासनोद्वासनेविनियुक्ते । तत्र प्रथमायाः पूर्वोर्धेन दक्षि- णस्यां दिशि चतुष्पस्द्थादावौपासनाग्निं निरस्यति उत्तरेण शांतिकर्मार्थमादत्ते । क्रव्यादं क्रव्यमामिषं तस्यात्तारं तीव्रमग्निं दूरं विप्रकृष्टदेशे प्रहिणोमि प्रगमयामि । हि गतौ स्वा- दिः । रिप्रवाहः रिप्रं पापं तस्यवोढा सोग्निः यमराज्ञः यमोराजा येषां तान् यमराजकान् अन्यप्रदेशान् गच्छतु प्राप्नोतु । अथ शांति कर्मार्थमुपासनः इतरः क्रव्यादादन्योजातवेदाः जातानां वेदिता जातधनोवा प्रजानन् सर्वैर्विज्ञायमानोयमग्निः इहैव देशे देवेभ्योदेवार्थं हव्यं हवनयोग्यं हविः वहतु प्रापयतु ॥ ९ ॥

10.16.10
यो अ॒ग्निः क्र॒व्यात्प्र᳚वि॒वेश᳚ वो गृ॒हमि॒मं पश्य॒न्नित᳚रं जा॒तवे᳚दसम् ।
तं ह᳚रामि पितृय॒ज्ञाय᳚ दे॒वं स घ॒र्ममि᳚न्वात्पर॒मे स॒धस्थे᳚ ॥
▶ पदपाठः (Word-by-word)
यः । अ॒ग्निः । क्र॒व्य॒॑अत् । प्र॒॑वि॒वेश᳚ । वः॒ । गृ॒हम् । इ॒मम् । पश्य᳚न् । इत᳚रम् । जा॒त॑वे᳚दसम् ।
तम् । ह॒रा॒मि॒ । पि॒तृ॒॑य॒ज्ञाय᳚ । दे॒वम् । सः । घ॒र्मम् । इ॒न्वा॒त् । प॒र॒मे । स॒ध॑स्थे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यः क्रव्यादोग्निः वोयुष्माकं गृहिणां गृहं प्रविवेश प्रविष्टवान् तं क्रव्यादं देवं हरामि गृहाद्बहिर्निष्क्रमयामीत्यर्थः । किमर्थं पितृयज्ञाय तदर्थम् । किंकुर्वन् इममितरं तस्मादन्यं हव्यवाहं जातवेदसं पश्यन् पर्यालोचयन् तथासति क्रव्यात् क्रव्यादात्परोग्निः परमे उत्कृष्टे सधस्थे सहस्थाने घर्मं यज्ञमिन्वात् प्राप्नोतु पितृभिर्घर्मपैः सहेतिशेषः ॥ १० ॥ महापितृयज्ञे वषट्कारक्रियायां योअग्निः क्रव्यवाहनइत्येषा स्विष्टकृतोयाज्या । सूत्रितंच—योअग्निः क्रव्यवाहनस्त्वमग्नर्हळितइति संयाज्ये इति ।

10.16.11
यो अ॒ग्निः क्र᳚व्य॒वाह᳚नः पि॒तॄन्यक्ष᳚दृता॒वृधः᳚ ।
प्रेदु᳚ ह॒व्यानि᳚ वोचति दे॒वेभ्य᳚श्च पि॒तृभ्य॒ आ ॥
▶ पदपाठः (Word-by-word)
यः । अ॒ग्निः । क्र॒व्य॒॑वाह᳚नः । पि॒तॄन् । यक्ष᳚त् । ऋ॒त॒॑वृधः᳚ ।
प्र । इत् । ऊं॒ इति᳚ । ह॒व्यानि᳚ । वो॒च॒ति॒ । दे॒वेभ्यः᳚ । च॒ । पि॒तृ॑भ्यः᳚ । आ ॥
▶ सायणभाष्यम् (Sayana Commentary)

क्रव्यवाहनः क्रव्यस्य हविषोवोढायोग्निः पितॄन् ऋतावृधः ऋतस्य यज्ञस्योदकस्य वा वर्धयितॄन् सत्येन वृद्धान्वा देवान् एतत्पितृविशेषणं वा स्तुतान् यक्षत् यजति यजेर्लेटि सिप् अडागमः । सोग्निः हव्यानि हवींषि प्रवोचतु पितृयज्ञे प्रब्रवीतु युष्मदर्थं मयानीतानी- ति । इदूपूरणौ केभ्यः देवेभ्यश्च पितृभ्यश्च । आकारः समुच्चये ॥ ११ ॥ महापितृयज्ञे उशन्तस्वेत्येषा सामिधेनी । सूत्र्यतेहि—उशन्तस्त्वानिधीमहीत्येतां त्रिरन- वानंताः सामिधेन्यइति ।

10.16.12 समानपद
उ॒शन्त᳚स्त्वा॒ नि धी᳚मह्यु॒शन्त॒ः समि᳚धीमहि ।
उ॒शन्नु᳚श॒त आ व᳚ह पि॒तॄन्ह॒विषे॒ अत्त᳚वे ॥
▶ पदपाठः (Word-by-word)
उ॒शन्तः᳚ । त्वा॒ । नि । धी॒म॒हि॒ । उ॒शन्तः᳚ । सम् । इ॒धी॒म॒हि॒ ।
उ॒शन् । उ॒श॒तः । आ । व॒ह॒ । पि॒तॄन् । ह॒विषे᳚ । अत्त᳚वे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने उशन्तः कामयमानाः वयं त्वा त्वां निधीमहि कर्मार्थं स्थापितवन्तः । उशंतो वयं समिधीमहि संदीपयामः । त्वमपि उशन् कामयमानोहविरादिकं उशतः आगन्तुकामान् पितॄन् अस्मिन्यज्ञे आवह हविषे अस्माभिः प्रत्तं हविः अत्तवे अत्तुम् । अदेस्तुमर्थे तवेन् प्रत्ययः क्रियाग्रहणंकर्तव्यमितिकर्मणः संप्रदानसंज्ञा ॥ १२ ॥

10.16.13
यं त्वम᳚ग्ने स॒मद᳚ह॒स्तमु॒ निर्वा᳚पया॒ पुनः᳚ ।
कि॒याम्ब्वत्र᳚ रोहतु पाकदू॒र्वा व्य᳚ल्कशा ॥
▶ पदपाठः (Word-by-word)
यम् । त्वम् । अ॒ग्ने॒ । स॒म्॑अद᳚हः । तम् । ऊं॒ इति᳚ । निः । वा॒प॒य॒ । पुन॒रिति᳚ ।
कि॒याम्बु᳚ । अत्र᳚ । रो॒ह॒तु॒ । पा॒क॒॑दू॒र्वा । वि॑अ᳚ल्कशा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वं पितृदहनकाले यं देशं समदहः पुरा सम्यक् दग्धवानसि । तिङिचोदात्तव- तीति समोनिघातः । तमु तमेव पुनर्निर्वापय अत्रास्मिन्देशे क्रियांबु कियत्प्रमाणमुदकं यस्मिन् तत्पुष्करिण्यादि रोहतु उत्पद्यताम् । किंच व्यल्कशा विविधशाखा पाकदूर्वा परि- पक्वदूर्वा च उत्पद्यतां ॥ १३ ॥ अस्थिसंचयने क्षीरोदकेन शमीशाखया त्रिः प्रसव्यं श्मशानायतनं प्रोक्षति शीतिके- शीतिकावतीत्यनया । सूत्रितंच—क्षीरोदकेनशमीशाखयात्रिःप्रसव्यंपरिव्रजन् प्रोक्षतिशीति- केशीतिकावतीतीति ।

10.16.14
शीति᳚के॒ शीति᳚कावति॒ ह्लादि᳚के॒ ह्लादि᳚कावति ।
म॒ण्डू॒क्या॒३॒᳚ सु सं ग᳚म इ॒मं स्व१॒᳚ग्निं ह᳚र्षय ॥
▶ पदपाठः (Word-by-word)
शीति᳚के । शीति᳚का॑वति । ह्लादि᳚के । ह्लादि᳚का॑वति ।
म॒ण्डू॒क्या᳚ । सु । सम् । ग॒मः॒ । इ॒मम् । सु । अ॒ग्निम् । ह॒र्ष॒य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शीतिके शैत्ययुक्ते हे शीतिकावति शीतिकाः शैत्ययुक्ताओषधयस्ताभिस्तद्वति हे ह्लादिके आह्लादयित्रि हे आह्लादिकावति आह्लादकफलयुक्तैर्वृक्षैस्तद्वति हे पृथिवि मंडूक्या मंडूकस्त्रिया वृष्टिप्रियया सु सुष्ठु संगमः संगच्छस्व । गमेर्लुङि व्यत्ययेन परस्मै- पदं ततइममग्निं सु सुष्ठु हर्षय ॥ १४ ॥

द्वितीयेनुवाके त्रयोदशसूक्तानि तत्र त्वष्टादुहित्रइत्येतच्चतुर्दशर्चं प्रथमं सूक्तं यमपुत्रोदे- वश्रवानाम ऋषिः आदितोद्वादशः त्रिष्टुभः त्रयोदशीचतुर्दश्यावनुष्टुभौ यद्वा त्रयोदशी पुर- स्ताद्वृहती आदितोद्वयोः सरण्यूर्देवता पूषात्वेतइत्याद्याश्चतस्रः पूषदेवत्याः सरस्वतीं देवयन्तइत्याद्यास्तिस्रः सरस्वतीदेवताकाः आपोअस्मानित्याद्याः पंचर्चोब्देवताकाः तत्र द्रप्सश्चस्कंदेत्याद्यास्तिस्रः सोमदेवत्यावा । तथाचानुक्रान्त—त्वष्टादेवश्रवा द्वे सरण्यू देवते पौष्ण्यश्चतस्रः सारस्वत्यस्तिस्रः पंचाप्योद्रप्सस्तिस्रः सौम्योवांत्ये अनुष्टुभावुपान्त्यापुरस्ता- द्बृहतीवेति । गतः सूक्तविनियोगः । अत्रेतिहासमाचक्षते—त्वष्टृनामकस्य देवस्य सरण्यूस्त्रि शिराश्चेति स्त्रीपुंसात्मकमपत्यद्वयमभूत् ततस्त्वष्टा सरण्यूनामिकां पुत्रीं विवस्वते प्रायच्छ- त् ततस्तस्यां विवस्वतः सकाशात् यमयम्यौ विजज्ञाते ततः कदाचिदात्मसदृश्यादेवजनि- तायाः स्त्रियः समीपे तदपत्यद्वयं निधाय स्वयमाश्वं रूपं कृत्वा उत्तरान् कुरून् प्रति जगाम । अथ विवस्वानेतां स्त्रियं सरण्यूमिति मन्वानामरंसीत् तस्यां मनुर्नाम राज र्षिरजायत । ततोविवस्वानेषा सरण्यूर्न भवतीति विज्ञाय स्वयमप्यश्वोभूत्वा तामश्वरू- पिणीं प्रायासीत् ततः संक्रीडमानयोस्तयोः स्वभूतं रेतः पृथिव्यां पपात । अथ साग- र्भकामनया तत्पतितं रेतः आजघ्रौ ततः तस्याः सकाशात् नासत्योदस्रश्चेत्युभाश्विनाव- जायेतामिति ।