दशमं मण्डलम् - सूक्तम् 11

9 ऋचः

ऋषिः: हविर्धान आंगिः देवता: अग्निः छन्दः: जगती

सूक्तम् 10.11 - सम्पूर्णम्

1 / 9
ऋक्: 10.11.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
10.11.1
वृषा॒ वृष्णे᳚ दुदुहे॒ दोह᳚सा दि॒वः पयां᳚सि य॒ह्वो अदि᳚ते॒रदा᳚भ्यः ।
विश्वं॒ स वे᳚द॒ वरु᳚णो॒ यथा᳚ धि॒या स य॒ज्ञियो᳚ यजतु य॒ज्ञिया{4}᳚ ऋ॒तून् ॥
▶ पदपाठः (Word-by-word)
वृषा᳚ । वृष्णे᳚ । दु॒दु॒हे॒ । दोह᳚सा । दि॒वः । पयां᳚सि । य॒ह्वः । अदि᳚तेः । अदा᳚भ्यः ।
विश्व᳚म् । सः । वे॒द॒ । वरु᳚णः । यथा᳚ । धि॒या । सः । य॒ज्ञियः᳚ । य॒ज॒तु॒ । य॒ज्ञिया᳚न् । ऋ॒तून् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृषा आहुतिद्वारेण वृष्टेः वर्षिता यह्वो महान् अदाभ्यः केनाप्यहिंस्योग्निः अदितेरक्षी- णयागक्रियस्य वृष्णेः यज्ञद्वारेण स्तुतीनां हविषां वा वर्षितुर्यजमानस्यार्थाय दोहसा दोह- नेन महता प्रक्षारणेन दिवः सकाशात् पयांसि वृष्टिलक्षणान्युदकानि दुदुहे दोग्धि प्रक्षा- रवति । किंच यथा वरुणआदित्यः धिया आत्मानुरूपया प्रज्ञया विश्वं सर्वं वेद जानाति तथासोयभग्निर्जानातीत्यर्थः । यज्ञियोयज्ञार्हः सोग्निः यज्ञियान् यज्ञार्हान् ऋतून् यजतु पूजयतु ॥ १ ॥

10.11.2
रप᳚द्गन्ध॒र्वीरप्या᳚ च॒ योष᳚णा न॒दस्य᳚ ना॒दे परि᳚ पातु मे॒ मनः᳚ ।
इ॒ष्टस्य॒ मध्ये॒ अदि᳚ति॒र्नि धा᳚तु नो॒ भ्राता᳚ नो ज्ये॒ष्ठः प्र᳚थ॒मो वि वो᳚चति ॥
▶ पदपाठः (Word-by-word)
रप᳚त् । ग॒न्ध॒र्वीः । अप्या᳚ । च॒ । योष᳚णा । न॒दस्य᳚ । ना॒दे । परि᳚ । पा॒तु॒ । मे॒ । मनः᳚ ।
इ॒ष्टस्य᳚ । मध्ये᳚ । अदि᳚तिः । नि । धा॒तु॒ । नः॒ । भ्राता᳚ । नः॒ । ज्ये॒ष्ठः । प्र॒थ॒मः । वि । वो॒च॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

रपत् रपितवती अग्निगुणानुक्तवती गंधर्वी गंधर्वस्य स्त्री अप्या अद्भिः संस्कृतयोषणा आहुतिलक्षणा स्त्री च अग्निं तर्पितवतीति शेषः । नदस्य स्तोतृनामैतत् स्तोतुर्मे मम स्व- भूतं मनः नादे स्तुतिलक्षणे शब्दं परिपातु अग्निः सम्यग्रक्षतु अहं समाहितमनाभूत्वा स- म्यक् स्तुतिं करोमीत्यर्थः । किंच अदितिरखंडनीयोग्निः नोस्मान् इष्टस्य यागस्य मध्ये निधातु निदधातु नितरां स्थापयतु । प्रथमः सर्वेषां यजमानानां मुख्यः नोस्माकं ज्येष्ठो- भ्राता विवोचति विशेषेण ब्रवीति स्तौतीत्यर्थः । नाहमेव केवलोयजनशीलः किन्तु सर्व- एवास्मत्कुलीनोदेवयागप्रियइत्यर्थः ॥ २ ॥

10.11.3 समानपद
सो चि॒न्नु भ॒द्रा क्षु॒मती॒ यश᳚स्वत्यु॒षा उ᳚वास॒ मन᳚वे॒ स्व᳚र्वती ।
यदी᳚मु॒शन्त᳚मुश॒तामनु॒ क्रतु᳚म॒ग्निं होता᳚रं वि॒दथा᳚य॒ जीज᳚नन् ॥
▶ पदपाठः (Word-by-word)
सो इति᳚ । चि॒त् । नु । भ॒द्रा । क्षु॒॑मती᳚ । यश᳚स्वती । उ॒षाः । उ॒वा॒स॒ । मन᳚वे । स्वः᳚॑वती ।
यत् । ई॒म् । उ॒शन्त᳚म् । उ॒श॒ताम् । अनु᳚ । क्रतु᳚म् । अ॒ग्निम् । होता᳚रम् । वि॒दथा᳚य । जीज᳚नन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

भद्रा भजनीया क्षुमती शब्दवती यशस्वती अन्नवती कीर्तिमती वा सोचित् सैव प्रसिद्धा उषाः मनवे मनुष्याय यजमानाय स्वर्वती आदित्यवती सती नु क्षिप्रं उवास उषितवती उदितवतीत्यर्थः । कदोदितवती उच्यते—यद्यदा उशन्तं स्तुतिं हविश्च काम- यमानं उशतां यष्टुं कामयमानानां संबन्धिनं होतारं देवानामाह्वातारं होमनिष्पादकं वा ईमेनमग्निं अनुक्रतुं स्तुतिकर्मणः पश्चात् विदथाय यजनीयाय यज्ञार्थं जीजनन् ऋत्विग्यजमानाः जनयन्तीत्यर्थः । तदोदितवतीतिसंबन्धः ॥ ३ ॥

10.11.4
अध॒ त्यं द्र॒प्सं वि॒भ्वं᳚ विचक्ष॒णं विराभ᳚रदिषि॒तः श्ये॒नो अ᳚ध्व॒रे ।
यदी॒ विशो᳚ वृ॒णते᳚ द॒स्ममार्या᳚ अ॒ग्निं होता᳚र॒मध॒ धीर᳚जायत ॥
▶ पदपाठः (Word-by-word)
अध᳚ । त्यम् । द्र॒प्सम् । वि॒॑भ्व᳚म् । वि॒॑च॒क्ष॒णम् । विः । आ । अ॒भ॒र॒त् । इ॒षि॒तः । श्ये॒नः । अ॒ध्व॒रे ।
यदि᳚ । विशः᳚ । वृ॒णते᳚ । द॒स्मम् । आर्याः᳚ । अ॒ग्निम् । होता᳚रम् । अध᳚ । धीः । अ॒जा॒य॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अध अथानंतरं श्येनः श्येनाख्यः विः पक्षी अध्वरेयागे इषितः अग्निप्रेषितः विभ्वे यहान्तं विचक्षणं सर्वस्य विशेषेण द्रष्टारं त्यं तं प्रसिद्धं द्रप्सं नात्यल्पं नातिबहुलं सोमं आभरत् आहृतवान् । अपिच्च यदि यदा आर्या अभिगमनीयं तं व्रजन्तोविशोयजमाना- मनुष्यादस्मं दर्शनीयं शत्रूणामुपक्षपयितारं वा होतारं अग्निं वृणते प्रार्थयन्ते । अध अथ तदाधीः यागादिक्रिया अजायत यज्वभिः प्रतायतइत्यर्थः ॥ ४ ॥

10.11.5 समानपद
सदा᳚सि र॒ण्वो यव᳚सेव॒ पुष्य᳚ते॒ होत्रा᳚भिरग्ने॒ मनु᳚षः स्वध्व॒रः ।
विप्र᳚स्य वा॒ यच्छ᳚शमा॒न उ॒क्थ्यं१॒᳚ वाजं᳚ सस॒वा{4} उ᳚प॒यासि॒ भूरि᳚भिः ॥
▶ पदपाठः (Word-by-word)
सदा᳚ । अ॒सि॒ । र॒ण्वः । यव᳚सा॑इव । पुष्य᳚ते । होत्रा᳚भिः । अ॒ग्ने॒ । मनु᳚षः । सु॒॑अ॒ध्व॒रः ।
विप्र᳚स्य । वा॒ । यत् । श॒श॒मा॒नः । उ॒क्थ्य᳚म् । वाज᳚म् । स॒स॒॑वान् । उ॒प॒॑यासि᳚ । भूरि᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वं सदा सततं रण्वोसि रमणीयोभवसि । तत्र दृष्टान्तः—युवसे वपुष्यते यथा यवसानि तृणानि स्वपुष्टिं कुर्वते हस्त्यश्वगोमहिषादिचतुष्पदाय सर्वदा रमणीयानि भवन्ति तद्वत् । अपिच हे अग्ने मनुषोमनुष्यस्य स्वभूतैः होत्राभिः होत्रेति यज्ञनामैतत् यज्ञैः स्वध्वरः शोभनयज्ञोभवेति शेषः विप्रस्य वा स्तोतुर्वा यत् यस्य यजमानस्य वा स्वभूत उक्थ्यं स्तोत्रं शशमानः प्रशंसन् वाजं हविर्लक्षणमन्नं ससवान् संभजमानश्च भूरि- भिर्बहुभिःदेवैः सह् उपयासि उपगच्छसि ॥ ५ ॥

10.11.6
उदी᳚रय पि॒तरा᳚ जा॒र आ भग॒मिय᳚क्षति हर्य॒तो हृ॒त्त इ᳚ष्यति ।
विव᳚क्ति॒ वह्नि᳚ः स्वप॒स्यते᳚ म॒खस्त᳚वि॒ष्यते॒ असु᳚रो॒ वेप᳚ते म॒ती ॥
▶ पदपाठः (Word-by-word)
उत् । ई॒र॒य॒ । पि॒तरा᳚ । जा॒रः । आ । भग᳚म् । इय᳚क्षति । ह॒र्य॒तः । हृ॒त्तः । इ॒ष्य॒ति॒ ।
विव᳚क्ति । वह्निः᳚ । सु॒॑अ॒प॒स्यते᳚ । म॒खः । त॒वि॒ष्यते᳚ । असु᳚रः । वेप᳚ते । म॒ती ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वदीयं ज्योतिः पितरा पितरौ स्र्वप्राणिनां मातापितृभूते द्यावापृथिव्यौ प्रति उदीरय उद्गमय । तत्र दृष्टान्तः—आकारउपमार्थे रात्रेर्नक्षत्रादिदीप्तीनां च जरयित्रुत्वाज्जारआदित्यः सयथा द्यावापृथिव्यौ प्रति भगं भजनीयं स्वयं ज्योतिः उद्गमय ति तद्वत् हर्यतः यागं कामयमानान् प्रति इयक्षति यजमानोयष्टुमिच्छति हृतः हृदयेनेव इष्यति इषिरयं गत्यर्थः शुद्धोप्युपसर्गपूर्वोद्रष्टव्यः अधीष्यति देवान् यष्टुमधिगच्छति विव क्ति विवक्षति शस्त्रलक्षणाः स्तुतीर्वक्तुमिच्छति च वह्निर्वोढ स्तुतीनां देवान् प्रति प्राप- यिता होता च स्वपस्यते शोभनमात्मीयं कर्म कर्तुमिच्छति । मखः यज्ञनामैतत् अत्र तत् प्रयोक्ताध्वर्युरुच्यते सच तद्विष्यते तविषिर्वृध्यर्थः सचात्रान्तर्णीतसनर्थश्चद्रष्टव्यः तुतुविषति स्तोत्रृलक्षणाः स्तुतीः वर्धयितुमिच्छतीत्यर्थः । असुरः प्राणवान् प्रज्ञावान्वा ब्रह्मेति शेषः मती मत्या बुध्या वेपते कर्मवैगुण्यात् बिभ्यत् कंपते । हे अग्ने यतोयजमानः सर्वर्त्विजश्च स्वकर्मकर्तुं त्वामागच्छन्ति अतस्त्वं शीघ्रमुद्गमयेत्यर्थः ॥ ६ ॥

10.11.7
यस्ते᳚ अग्ने सुम॒तिं मर्तो॒ अक्ष॒त्सह᳚सः सूनो॒ अति॒ स प्र शृ᳚ण्वे ।
इषं॒ दधा᳚नो॒ वह᳚मानो॒ अश्वै॒रा स द्यु॒मा{4} अम᳚वान्भूषति॒ द्यून् ॥
▶ पदपाठः (Word-by-word)
यः । ते॒ । अ॒ग्ने॒ । सु॒॑म॒तिम् । मर्तः᳚ । अक्ष᳚त् । सह᳚सः । सू॒नो॒ इति᳚ । अति᳚ । सः । प्र । शृ॒ण्वे॒ ।
इष᳚म् । दधा᳚नः । वह᳚मानः । अश्वैः᳚ । आ । सः । द्यु॒॑मान् । अम᳚॑वान् । भू॒ष॒ति॒ । द्यून् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सहसः सूनो बलस्य पुत्राग्ने ते त्वदीयां सुमतिं शोभनामनुग्राहिकां बुद्धिं मर्तोमनु ष्योयजमानः अक्षत् आश्नुते अनुग्रहशीलं त्वां स्तुतिभिर्हविर्भिश्च परिचरतीत्यर्थः । सयज- मानः अतिसप्रश्रृण्वे सर्वान् लोकानतीत्यप्रकर्षेण श्रूयते प्रख्यातोभवतीत्यर्थः । कीदृशः इष- मन्नं दधानः अर्धिभ्यः प्रयच्छन् अश्वैर्वहमानः । किंच सएव द्युमान् दीप्तिमान् शरीरपत- नानन्तरं द्युस्थानवान्वा अमवान् बलवान् आद्यून् द्युरित्यहर्नाम कालाध्वनोरत्यन्तसंयोग- इत्येषा द्वितीया आदित्यकर्तृकाण्यहानि आचन्द्रार्कमित्यर्थः भूषति भवति ॥ ७ ॥ महाव्रते संस्थिते मरुत्वतीये यदग्नएषेत्यनया चतुर्गृहीतमाज्यं जुहुयात् । तथैवपञ्चमा- रण्यके सूत्रितं—यदग्नएषासमितिर्भवातीति ।

10.11.8
यद᳚ग्न ए॒षा समि᳚ति॒र्भवा᳚ति दे॒वी दे॒वेषु᳚ यज॒ता य᳚जत्र ।
रत्ना᳚ च॒ यद्वि॒भजा᳚सि स्वधावो भा॒गं नो॒ अत्र॒ वसु᳚मन्तं वीतात् ॥
▶ पदपाठः (Word-by-word)
यत् । अ॒ग्ने॒ । ए॒षा । सम्॑इ᳚तिः । भवा᳚ति । दे॒वी । दे॒वेषु᳚ । य॒ज॒ता । य॒ज॒त्र॒ ।
रत्ना᳚ । च॒ । यत् । वि॒॑भजा᳚सि । स्व॒धा॒॑वः॒ । भा॒गम् । नः॒ । अत्र᳚ । वसु᳚॑मन्तम् । वी॒ता॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे यजत्र यष्टव्याग्ने यद्यदा एषा समितिः अस्मत्कर्तृका स्तुतिः संहतिश्च यजता यज- तेषु यष्टव्येषु देवेषु मध्ये देवी द्योतमाना भवाति यष्टव्यादेवाः अस्माभिः स्तूयन्ते इज्य- न्ते चेत्यर्थः । हे स्वधावः हविर्लक्षणान्नवन्नग्ने त्वं यद्यदा रत्ना च रत्नानि रमणीयानि धनानि स्तोतृभ्योयष्टृभ्यश्च विभजासि विभजसि अत्र तदानीं तथा नोस्मान् प्रति वसु मन्तं धनवन्तं नानाधनावयवभूतं भागमंशं वीतात् वी गत्यादिषु तुह्योस्ताङाशिष्यन्यतर- स्यामिति हेः स्थाने तातङ्अन्तर्णीतण्यर्थश्चात्र द्रष्टव्यः वयय आगमय अस्मभ्यं प्रयच्छे- त्यर्थः ॥ ८ ॥

10.11.9
श्रु॒धी नो᳚ अग्ने॒ सद᳚ने स॒धस्थे᳚ यु॒क्ष्वा रथ᳚म॒मृत᳚स्य द्रवि॒त्नुम् ।
आ नो᳚ वह॒ रोद᳚सी दे॒वपु᳚त्रे॒ माकि᳚र्दे॒वाना॒मप᳚ भूरि॒ह स्या᳚ः ॥
▶ पदपाठः (Word-by-word)
श्रु॒धि । नः॒ । अ॒ग्ने॒ । सद᳚ने । स॒ध॑स्थे᳚ । यु॒क्ष्व । रथ᳚म् । अ॒मृत᳚स्य । द्र॒वि॒त्नुम् ।
आ । नः॒ । व॒ह॒ । रोद᳚सी॒ इति᳚ । दे॒वपु᳚त्रे॒ इति᳚ दे॒व॑पु᳚त्रे । माकिः᳚ । दे॒वाना᳚म् । अप᳚ । भूः॒ । इ॒ह । स्याः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने सधस्थे सहस्थाने सर्वदेवतासाधारणे सदने यज्ञगृहे स्थितः सन् नोस्मदीयं वचनंश्रुधि श्रृणु । किंतद्वचनं उच्यते अमृतस्यदेवपानस्य मधुनः द्रवित्नुं द्रावकं रथमात्मी- यं युक्ष्व आह्वानार्थं देवान्प्रति गमनाय अश्वैः संयुश्च । संयुक्तेन रथेन गत्वा नोस्माकं यज्ञं प्रति देवपुत्रे देवस्य प्रजापतेर्दुहितरौ यद्वा देवाः पुत्राययोस्ते रोदसी द्यावापृथिव्यौ आवह प्रापय देवानां मध्ये कश्चिद्देवः अपभूः अपभविता अस्मद्यज्ञमपगन्ता माकिः स्यात् त्वं च इहास्मिन्यज्ञे स्याः सन्निहितोभव ॥ ९ ॥

द्यावेति नवर्चं द्वादशं सूक्तं आंगेर्हविर्धानस्यार्षं त्रैष्टुभमाग्नेयम् । द्यावेत्यनुक्रान्तम् । गतो- विनियोगः ।