श्रवणम्

10.11.1
वृषा॒ वृष्णे᳚ दुदुहे॒ दोह᳚सा दि॒वः पयां᳚सि य॒ह्वो अदि᳚ते॒रदा᳚भ्यः ।
विश्वं॒ स वे᳚द॒ वरु᳚णो॒ यथा᳚ धि॒या स य॒ज्ञियो᳚ यजतु य॒ज्ञिया{4}᳚ ऋ॒तून् ॥
▶ पदपाठः (Word-by-word)
वृषा᳚ । वृष्णे᳚ । दु॒दु॒हे॒ । दोह᳚सा । दि॒वः । पयां᳚सि । य॒ह्वः । अदि᳚तेः । अदा᳚भ्यः ।
विश्व᳚म् । सः । वे॒द॒ । वरु᳚णः । यथा᳚ । धि॒या । सः । य॒ज्ञियः᳚ । य॒ज॒तु॒ । य॒ज्ञिया᳚न् । ऋ॒तून् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृषा आहुतिद्वारेण वृष्टेः वर्षिता यह्वो महान् अदाभ्यः केनाप्यहिंस्योग्निः अदितेरक्षी- णयागक्रियस्य वृष्णेः यज्ञद्वारेण स्तुतीनां हविषां वा वर्षितुर्यजमानस्यार्थाय दोहसा दोह- नेन महता प्रक्षारणेन दिवः सकाशात् पयांसि वृष्टिलक्षणान्युदकानि दुदुहे दोग्धि प्रक्षा- रवति । किंच यथा वरुणआदित्यः धिया आत्मानुरूपया प्रज्ञया विश्वं सर्वं वेद जानाति तथासोयभग्निर्जानातीत्यर्थः । यज्ञियोयज्ञार्हः सोग्निः यज्ञियान् यज्ञार्हान् ऋतून् यजतु पूजयतु ॥ १ ॥