सदा᳚सि र॒ण्वो यव᳚सेव॒ पुष्य᳚ते॒ होत्रा᳚भिरग्ने॒ मनु᳚षः स्वध्व॒रः ।
विप्र᳚स्य वा॒ यच्छ᳚शमा॒न उ॒क्थ्यं१॒᳚ वाजं᳚ सस॒वा{4} उ᳚प॒यासि॒ भूरि᳚भिः ॥
विप्र᳚स्य वा॒ यच्छ᳚शमा॒न उ॒क्थ्यं१॒᳚ वाजं᳚ सस॒वा{4} उ᳚प॒यासि॒ भूरि᳚भिः ॥
पदपाठः (Word-by-word)
सदा᳚ । अ॒सि॒ । र॒ण्वः । यव᳚सा॑इव । पुष्य᳚ते । होत्रा᳚भिः । अ॒ग्ने॒ । मनु᳚षः । सु॒॑अ॒ध्व॒रः ।
विप्र᳚स्य । वा॒ । यत् । श॒श॒मा॒नः । उ॒क्थ्य᳚म् । वाज᳚म् । स॒स॒॑वान् । उ॒प॒॑यासि᳚ । भूरि᳚॑भिः ॥
विप्र᳚स्य । वा॒ । यत् । श॒श॒मा॒नः । उ॒क्थ्य᳚म् । वाज᳚म् । स॒स॒॑वान् । उ॒प॒॑यासि᳚ । भूरि᳚॑भिः ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने त्वं सदा सततं रण्वोसि रमणीयोभवसि । तत्र दृष्टान्तः—युवसे वपुष्यते यथा यवसानि तृणानि स्वपुष्टिं कुर्वते हस्त्यश्वगोमहिषादिचतुष्पदाय सर्वदा रमणीयानि भवन्ति तद्वत् । अपिच हे अग्ने मनुषोमनुष्यस्य स्वभूतैः होत्राभिः होत्रेति यज्ञनामैतत् यज्ञैः स्वध्वरः शोभनयज्ञोभवेति शेषः विप्रस्य वा स्तोतुर्वा यत् यस्य यजमानस्य वा स्वभूत उक्थ्यं स्तोत्रं शशमानः प्रशंसन् वाजं हविर्लक्षणमन्नं ससवान् संभजमानश्च भूरि- भिर्बहुभिःदेवैः सह् उपयासि उपगच्छसि ॥ ५ ॥