श्रवणम्

10.11.2
रप᳚द्गन्ध॒र्वीरप्या᳚ च॒ योष᳚णा न॒दस्य᳚ ना॒दे परि᳚ पातु मे॒ मनः᳚ ।
इ॒ष्टस्य॒ मध्ये॒ अदि᳚ति॒र्नि धा᳚तु नो॒ भ्राता᳚ नो ज्ये॒ष्ठः प्र᳚थ॒मो वि वो᳚चति ॥
▶ पदपाठः (Word-by-word)
रप᳚त् । ग॒न्ध॒र्वीः । अप्या᳚ । च॒ । योष᳚णा । न॒दस्य᳚ । ना॒दे । परि᳚ । पा॒तु॒ । मे॒ । मनः᳚ ।
इ॒ष्टस्य᳚ । मध्ये᳚ । अदि᳚तिः । नि । धा॒तु॒ । नः॒ । भ्राता᳚ । नः॒ । ज्ये॒ष्ठः । प्र॒थ॒मः । वि । वो॒च॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

रपत् रपितवती अग्निगुणानुक्तवती गंधर्वी गंधर्वस्य स्त्री अप्या अद्भिः संस्कृतयोषणा आहुतिलक्षणा स्त्री च अग्निं तर्पितवतीति शेषः । नदस्य स्तोतृनामैतत् स्तोतुर्मे मम स्व- भूतं मनः नादे स्तुतिलक्षणे शब्दं परिपातु अग्निः सम्यग्रक्षतु अहं समाहितमनाभूत्वा स- म्यक् स्तुतिं करोमीत्यर्थः । किंच अदितिरखंडनीयोग्निः नोस्मान् इष्टस्य यागस्य मध्ये निधातु निदधातु नितरां स्थापयतु । प्रथमः सर्वेषां यजमानानां मुख्यः नोस्माकं ज्येष्ठो- भ्राता विवोचति विशेषेण ब्रवीति स्तौतीत्यर्थः । नाहमेव केवलोयजनशीलः किन्तु सर्व- एवास्मत्कुलीनोदेवयागप्रियइत्यर्थः ॥ २ ॥