दशमं मण्डलम् - सूक्तम् 144

6 ऋचः

ऋषिः: सुपर्णस्तार्क्ष्यपुत्र ऊर्ध्वकृशनो वा यामायनः देवता: इंद्रः छन्दः: गायत्री

सूक्तम् 10.144 - सम्पूर्णम्

1 / 6
ऋक्: 10.144.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
10.144.1
अ॒यं हि ते॒ अम᳚र्त्य॒ इन्दु॒रत्यो॒ न पत्य᳚ते ।
दक्षो᳚ वि॒श्वायु᳚र्वे॒धसे᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । हि । ते॒ । अम᳚र्त्यः । इन्दुः᳚ । अत्यः᳚ । न । पत्य᳚ते ।
दक्षः᳚ । वि॒श्व॑आ᳚युः । वे॒धसे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयं हीति षडृचं षोडशं सूक्तं तार्क्ष्य पुत्रस्य सुपर्णस्यार्षम् यमगोत्रस्योर्ध्वकृशनस्य व आद्या गायत्री द्वितीया बृहती तृतीयाचतुर्थौ गायत्र्यौ पञ्चमी सतोबृहती षष्ठी विष्टारपङ्क्तिरष्टकद्विर्द्वादशाष्टकवती। अनादेशपरिभाषयेन्द्रो देवता। तथा चानुक्रान्तम्। अयं हि तार्क्ष्य पुत्रः सुपर्णो यामायनो वोर्ध्वकृशनो गायत्री बृहती गायत्र्यौ सतोब्रुहती विष्टारपङ्क्तिरिति। गतो विनियोगः॥

हे इन्द्र वेधसे विधात्रे ते तुभ्यं त्वदर्थममर्त्यो मरणरहितोऽमृतत्वप्रापकोऽयं ह्ययं खल्विन्दुः सोमोऽत्यो न सततगाम्यश्व इव पत्यते। गच्छति। यद्वा। पत्यतिरैश्वर्यकर्मा। तव स्वभुतोऽयं सोमो वेधसे विधानाय मदस्य कारनायेष्टे। कीदृश इन्दुः। दक्षः प्रवृद्धो बलहेतुर्वा विश्वायुर्विश्वैः सर्वेरेतव्यः प्राप्तव्यः। यद्वा। विश्वेषामायुर्जीवनहेतुः। अथव आयुरित्यन्ननाम। सर्वैश्चरुपुरोडाशादिभिरन्नैर्हविर्भिरुपेतः॥१॥

10.144.2
अ॒यम॒स्मासु॒ काव्य᳚ ऋ॒भुर्वज्रो॒ दास्व᳚ते ।
अ॒यं बि᳚भर्त्यू॒र्ध्वकृ᳚शनं॒ मद᳚मृ॒भुर्न कृत्व्यं॒ मद᳚म् ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । अ॒स्मासु᳚ । काव्यः᳚ । ऋ॒भुः । वज्रः᳚ । दास्व᳚ते ।
अ॒यम् । बि॒भ॒र्ति॒ । ऊ॒र्ध्व॑कृ᳚शनम् । मद᳚म् । ऋ॒भुः । न । कृत्व्य᳚म् । मद᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

आस्मासु स्तोतृषु काव्यः स्तुत्योऽयमिन्द्रः ऋभिर्दीप्तः सन्दास्व्वते दानयुक्ताय यजमानाय वज्रः शत्रूणां वर्जको भवति। यद्वा। दास्वत इति षष्ठ्यर्थे चतुर्थी। अस्मासु दास्वते दानवत इन्द्रस्य वज्रः कुलिश रुभुरुरु भासमानो भवति। अपि चायमूर्ध्वक्रुसनमुद्गततैक्ष्ण्यमेतत्संज्ञम् वा यामायनमृषिं मदं स्तोतारं बिभर्ति। पोषयति। तथर्भुर्न सौधन्वनः। पुत्राणामाद्य ऋभुः। स इव कृत्व्यं कर्मणां कर्तारं अत एव मदं मोदयितारं यजमानं बिभर्ति॥२॥

10.144.3
घृषु᳚ः श्ये॒नाय॒ कृत्व᳚न आ॒सु स्वासु॒ वंस᳚गः ।
अव᳚ दीधेदही॒शुवः᳚ ॥
▶ पदपाठः (Word-by-word)
घृषुः᳚ । श्ये॒नाय᳚ । कृत्व᳚ने । आ॒सु । स्वासु᳚ । वंस᳚गः ।
अव᳚ । दी॒धे॒त् । अ॒ही॒शुवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

घृषुर्घर्षयिता दीप्तो वा स्वासु स्वकीयास्वासु यजमानलक्षणासु प्रजासु वंसगो वननीयगतिः एवंभुत इन्द्रः कृत्वने कर्मणां कर्त्रे। करोतेरन्येभ्योऽपि दृश्यन्त इति क्वनिप्। श्येनाय सुपर्नाय तार्क्ष्यपुत्राय मह्यमृशयेऽहीशुवोऽहीनव्यापनानहीनवृद्धीन्वास्मदीयान्पुत्रादीनव दीधेत्। दीपयतु। दीधीङ् दीप्तिदेवनयोः। अस्माच्छान्दसे लिङि व्यत्ययेन परस्मैपदम्। यद्वा। हे इन्द्र त्वदीयह् सोमो घृष्ट्यादिगुणयुक्तह् सन् दीप्यत इति योज्यम्॥३॥

10.144.4
यं सु᳚प॒र्णः प᳚रा॒वतः᳚ श्ये॒नस्य᳚ पु॒त्र आभ᳚रत् ।
श॒तच᳚क्रं॒ यो॒३॒᳚॑ह्यो᳚ वर्त॒निः ॥
▶ पदपाठः (Word-by-word)
यम् । सु॒॑प॒र्णः । प॒रा॒॑वतः᳚ । श्ये॒नस्य᳚ । पु॒त्रः । आ । अभ᳚रत् ।
श॒त॑च᳚क्रम् । यः । अ॒ह्यः᳚ । व॒र्त॒निः ॥
▶ सायणभाष्यम् (Sayana Commentary)

श्येनस्य तार्क्ष्यस्य पुत्रस्तनयः सुपर्णो यं सोमं परावतह् परागताद्दूराद्द्युलोकादाधरत् आहरत्। कीदृशम् । शतचक्रम्। शतमिति बहुनाम। बहुधनस्य कर्तारम्। मूलविभुजादित्वात्कप्रत्पयः। पा. ३-२-५-२। यद्वा। शतकरणसाधनम्। बहुयागनिष्पादनमित्यर्थः। घञर्थे कविधानम्। पा. ३-३-५८-४। इति कप्रत्ययः। कृञादीनां के। का. ६-१-१२-१। अह गतौ। अह्यो गन्तव्यो वर्तनिर्मार्गभुतः। एना वय इति वक्ष्यमाणेनैकवाक्यता॥४॥

10.144.5
यं ते᳚ श्ये॒नश्चारु᳚मवृ॒कं प॒दाभ᳚रदरु॒णं मा॒नमन्ध᳚सः ।
ए॒ना वयो॒ वि ता॒र्यायु᳚र्जी॒वस᳚ ए॒ना जा᳚गार ब॒न्धुता᳚ ॥
▶ पदपाठः (Word-by-word)
यम् । ते॒ । श्ये॒नः । चारु᳚म् । अ॒वृ॒कम् । प॒दा । आ । अभ᳚रत् । अ॒रु॒णम् । मा॒नम् । अन्ध᳚सः ।
ए॒ना । वयः᳚ । वि । ता॒रि॒ । आयुः᳚ । जी॒वसे᳚ । ए॒ना । जा॒गा॒र॒ । ब॒न्धुता᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते तुभ्यम् त्वदर्थं श्येनः सुपर्नः पक्षिराड्यम् सोमं पदा। वचन व्यत्ययः। पद्भ्यामाभरत्। दिवं सुपर्णो गत्वाय सोमं वज्रिण आरभत्। ऋ. ८-१००-८। इति निगमान्तरम्। कीदृशम् । चरुं शोभनं अवृकं बाधकरहितं अरुणमरोचमानमरुणवर्णं वा अन्धसोऽन्नस्य मानं यागद्वार निर्मातरम्। एनैतेनानेन सोमेन तुभ्यं दीयमानेन वयोऽन्नम् जीव्से जीवनायायुर्जीवितं च वि तारि। प्रादायि। तथैनैतेनैव सोमेन बन्धुता बन्धुसमूहो जागर। जाग्रत्प्रबुद्धः सन्वर्तते। जागतेर्लिटि छन्दसि वेति वक्तव्यम्। पा. ६-१-८-१। इति द्विर्वचनाभावः॥५॥

10.144.6
ए॒वा तदिन्द्र॒ इन्दु᳚ना दे॒वेषु᳚ चिद्धारयाते॒ महि॒ त्यजः᳚ ।
क्रत्वा॒ वयो॒ वि ता॒र्यायु᳚ः सुक्रतो॒ क्रत्वा॒यम॒स्मदा सु॒तः ॥
▶ पदपाठः (Word-by-word)
ए॒व । तत् । इन्द्रः᳚ । इन्दु᳚ना । दे॒वेषु᳚ । चि॒त् । धा॒र॒या॒ते॒ । महि᳚ । त्यजः᳚ ।
क्रत्वा᳚ । वयः᳚ । वि । ता॒रि॒ । आयुः᳚ । सु॒क्र॒तो॒ इति᳚ सु॑क्रतो । क्रत्वा᳚ । अ॒यम् । अ॒स्मत् । आ । सु॒तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

एवैवमुक्तेन प्रकारेण तत्तेनेन्दुना सोमेन तृप्यन्निन्द्रो देवेषु चिद्देवेष्वस्मासु च महि महत्यजस्तेजो दुःखस्य वर्जयितृ रक्षनं वा धारयाते। धारयति। शिष्टः प्रत्यक्षकृतः। हे सुक्रतो शोभनकर्मन्निन्द्र क्रत्वा क्रतुनास्माभिरनुष्ठितेन कर्मणा प्रीतेन त्वया वयोऽन्नमायुर्जीवनं च वि तारि। अस्मभ्यम् प्रादायि। योऽयमिन्दुः क्रत्वा कर्मणा प्रज्ञानेन वास्मदस्माभिरा सुतोऽभिषुतः। यद्वा। अस्मदस्मत्तस्त्वदाभिमुख्येन सुतः प्रेरितः तेनेन्दुनेत्यन्वयः॥६॥