दशमं मण्डलम् - सूक्तम् 180

3 ऋचः

ऋषिः: जय ऐंद्रः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 10.180 - सम्पूर्णम्

1 / 3
ऋक्: 10.180.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (3)
10.180.1
प्र स᳚साहिषे पुरुहूत॒ शत्रू॒ञ्ज्येष्ठ᳚स्ते॒ शुष्म᳚ इ॒ह रा॒तिर᳚स्तु ।
इन्द्रा भ᳚र॒ दक्षि᳚णेना॒ वसू᳚नि॒ पति॒ः सिन्धू᳚नामसि रे॒वती᳚नाम् ॥
▶ पदपाठः (Word-by-word)
प्र । स॒स॒हि॒षे॒ । पु॒रु॒॑हू॒त॒ । शत्रू᳚न् । ज्येष्ठः᳚ । ते॒ । शुष्मः᳚ । इ॒ह । रा॒तिः । अ॒स्तु॒ ।
इन्द्र᳚ । आ । भ॒र॒ । दक्षि᳚णेन । वसू᳚नि । पतिः᳚ । सिन्धू᳚नाम् । अ॒सि॒ । रे॒वती᳚नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्र ससाहिष इति तृचमेकोनत्रिंशं सूक्तमिन्द्रपुत्रस्य जयस्यार्षं त्रैष्टुभमैन्द्रम्। तथा चानुक्रान्तम्। प्र ससाहिषे जय ऐन्द्र इति। गतह् सूक्तविनियोगः। दर्श इन्द्रस्य हविषः प्र ससाहिष इत्येशा याह्या। सूत्रितं च। प्र ससाहिसे पुरुहूत शत्रूण् महा इन्द्रो य ओजसा। आ. १-६। इति। एकादशिन ऐन्द्रपशौ पुरोडाशस्येयमेव याज्या। सूत्रितं च। प्र ससाहिषे पुरुहूत शत्रून्स्वस्तये वाजिभिश्च प्रणेतः। आ. ३-७। इति। देवासुवां हविषीन्द्रस्येयमेवानुवाक्या। सूत्रितं च। प्र ससाहिषे पुरुहूत शत्रून्भवस्त्वमिन्द्र ब्रह्मणामहान्। आ. ४-११। इति॥

हे पुरुहूत बहुभिराहूतेन्द्र शत्रून्वैरिणः प्र ससाहिषे। प्रकर्षेणाभिभवसि। ते तव शुष्मः शोषकं बलं ज्येष्ठः प्रशस्यतमं व्रुद्धतमं वा भवति। इहास्मिन्कर्मणि रातिस्तव दानमस्तु। अस्यभ्यं भवतु। तदर्थं हे इन्द्र दक्शिणेन हस्तेन वसूनि धनान्या भर। आहर। आनय। त्वं रेवतीनां रयिमतीनां बहुधनानां सिन्धूनां स्यन्दनशीलानां नदीनां पतिरसि। स्वामी भवसि। रयिशब्दान्मतुपिरयेर्मतौ बहुलमिति सम्प्रसारणम्। छन्दसीर इति मतुपो वत्वम्। रैशब्दाच्चेति तस्योदात्तत्वम्॥१॥

10.180.2
मृ॒गो न भी॒मः कु᳚च॒रो गि᳚रि॒ष्ठाः प᳚रा॒वत॒ आ ज᳚गन्था॒ पर᳚स्याः ।
सृ॒कं सं॒शाय᳚ प॒विमि᳚न्द्र ति॒ग्मं वि शत्रू᳚न्ताळ्हि॒ वि मृधो᳚ नुदस्व ॥
▶ पदपाठः (Word-by-word)
मृ॒गः । न । भी॒मः । कु॒च॒रः । गि॒रि॒॑स्थाः । प॒रा॒॑वतः᳚ । आ । ज॒ग॒न्थ॒ । पर᳚स्याः ।
सृ॒कम् । स॒म्॑शाय᳚ । प॒विम् । इ॒न्द्र॒ । ति॒ग्मम् । वि । शत्रू᳚न् । ता॒ळ्हि॒ । वि । मृधः᳚ । नु॒द॒स्व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वैमृधस्य हविषो मृगो नेत्येषा याज्या। सूत्रितम् च। वि न इन्द्र मृभो जहि मृगो न भीमः कुचरो गिरिष्ठाः। आ. २-१०। इति॥

कुचरः कुत्सितचरणो गिरिष्थाः पर्वतनिवासी मृगो न सिंह इव हे इन्द्र त्वं भीमो भयङ्करोऽसि। सत्वं परस्याः परावतोऽतिशयेन दूराद्द्युलोकादा जगन्थ। आगच्छ। गमेश्छान्दसे लिटि क्रादिनियमप्राप्तस्येट उपदेशेऽत्वतः। पा. ७-२-६२। इति प्रतिषेधः। आगत्य च सृकं सरणशीलं तिग्मं तीक्ष्णं पविं वज्रं संशाय सम्यक् तीक्ष्णीकृत्य शत्रूनस्मदीयान्वैरिणो हे इन्द्र तेन वज्रेण वि ताळ्हि। विशेशेण ताडय। विनाशयेत्यर्थः। तड आघाते। अस्माल्लोटि ण्यन्ताद्रूपमेतत्। तथा मृधः सङ्ग्रामोद्युक्तान्युयुत्सूनन्यानपि वि नुदस्व। विशेषेन तिरस्कुरु॥२॥

10.180.3
इन्द्र᳚ क्ष॒त्रम॒भि वा॒ममोजो॑जा᳚यथा वृषभ चर्षणी॒नाम् ।
अपा᳚नुदो॒ जन᳚ममित्र॒यन्त᳚मु॒रुं दे॒वेभ्यो᳚ अकृणोरु लो॒कम् ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚ । क्ष॒त्रम् । अ॒भि । वा॒मम् । ओजः᳚ । अजा᳚यथाः । वृ॒ष॒भ॒ । च॒र्ष॒णी॒नाम् ।
अप᳚ । अ॒नु॒दः॒ । जन᳚म् । अ॒मि॒त्र॒॑यन्त᳚म् । उ॒रुम् । दे॒वेभ्यः᳚ । अ॒कृ॒णोः॒ । ऊं॒ इति᳚ । लो॒कम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र क्षत्रं क्षत्रात्त्रायकं वामं वननीयमोजो बलमभिलक्ष्याजायथाः। उत्पन्नोऽसि। हे व्रुशभ कामानां वर्षितः चर्षणीनां मनुष्याणामस्माकम्। नामन्यतरस्यामिति नाम उदात्तत्वम्। अमित्रयन्तम्। अमित्रः शत्रुः। स इवाचरन्तं जनमपानुदः। अपागमयः। देवेभ्यश्चोरुम् विस्तीर्णं लोकं स्वर्गाख्यमकृणोः। अकार्षीः। उशब्दः समुच्चये॥३॥