श्रवणम्

10.180.3
इन्द्र᳚ क्ष॒त्रम॒भि वा॒ममोजो॑जा᳚यथा वृषभ चर्षणी॒नाम् ।
अपा᳚नुदो॒ जन᳚ममित्र॒यन्त᳚मु॒रुं दे॒वेभ्यो᳚ अकृणोरु लो॒कम् ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚ । क्ष॒त्रम् । अ॒भि । वा॒मम् । ओजः᳚ । अजा᳚यथाः । वृ॒ष॒भ॒ । च॒र्ष॒णी॒नाम् ।
अप᳚ । अ॒नु॒दः॒ । जन᳚म् । अ॒मि॒त्र॒॑यन्त᳚म् । उ॒रुम् । दे॒वेभ्यः᳚ । अ॒कृ॒णोः॒ । ऊं॒ इति᳚ । लो॒कम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र क्षत्रं क्षत्रात्त्रायकं वामं वननीयमोजो बलमभिलक्ष्याजायथाः। उत्पन्नोऽसि। हे व्रुशभ कामानां वर्षितः चर्षणीनां मनुष्याणामस्माकम्। नामन्यतरस्यामिति नाम उदात्तत्वम्। अमित्रयन्तम्। अमित्रः शत्रुः। स इवाचरन्तं जनमपानुदः। अपागमयः। देवेभ्यश्चोरुम् विस्तीर्णं लोकं स्वर्गाख्यमकृणोः। अकार्षीः। उशब्दः समुच्चये॥३॥