श्रवणम्

10.180.1
प्र स᳚साहिषे पुरुहूत॒ शत्रू॒ञ्ज्येष्ठ᳚स्ते॒ शुष्म᳚ इ॒ह रा॒तिर᳚स्तु ।
इन्द्रा भ᳚र॒ दक्षि᳚णेना॒ वसू᳚नि॒ पति॒ः सिन्धू᳚नामसि रे॒वती᳚नाम् ॥
▶ पदपाठः (Word-by-word)
प्र । स॒स॒हि॒षे॒ । पु॒रु॒॑हू॒त॒ । शत्रू᳚न् । ज्येष्ठः᳚ । ते॒ । शुष्मः᳚ । इ॒ह । रा॒तिः । अ॒स्तु॒ ।
इन्द्र᳚ । आ । भ॒र॒ । दक्षि᳚णेन । वसू᳚नि । पतिः᳚ । सिन्धू᳚नाम् । अ॒सि॒ । रे॒वती᳚नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्र ससाहिष इति तृचमेकोनत्रिंशं सूक्तमिन्द्रपुत्रस्य जयस्यार्षं त्रैष्टुभमैन्द्रम्। तथा चानुक्रान्तम्। प्र ससाहिषे जय ऐन्द्र इति। गतह् सूक्तविनियोगः। दर्श इन्द्रस्य हविषः प्र ससाहिष इत्येशा याह्या। सूत्रितं च। प्र ससाहिसे पुरुहूत शत्रूण् महा इन्द्रो य ओजसा। आ. १-६। इति। एकादशिन ऐन्द्रपशौ पुरोडाशस्येयमेव याज्या। सूत्रितं च। प्र ससाहिषे पुरुहूत शत्रून्स्वस्तये वाजिभिश्च प्रणेतः। आ. ३-७। इति। देवासुवां हविषीन्द्रस्येयमेवानुवाक्या। सूत्रितं च। प्र ससाहिषे पुरुहूत शत्रून्भवस्त्वमिन्द्र ब्रह्मणामहान्। आ. ४-११। इति॥

हे पुरुहूत बहुभिराहूतेन्द्र शत्रून्वैरिणः प्र ससाहिषे। प्रकर्षेणाभिभवसि। ते तव शुष्मः शोषकं बलं ज्येष्ठः प्रशस्यतमं व्रुद्धतमं वा भवति। इहास्मिन्कर्मणि रातिस्तव दानमस्तु। अस्यभ्यं भवतु। तदर्थं हे इन्द्र दक्शिणेन हस्तेन वसूनि धनान्या भर। आहर। आनय। त्वं रेवतीनां रयिमतीनां बहुधनानां सिन्धूनां स्यन्दनशीलानां नदीनां पतिरसि। स्वामी भवसि। रयिशब्दान्मतुपिरयेर्मतौ बहुलमिति सम्प्रसारणम्। छन्दसीर इति मतुपो वत्वम्। रैशब्दाच्चेति तस्योदात्तत्वम्॥१॥