चक्षु᳚ष्मते शृण्व॒ते ते᳚ ब्रवीमि॒ मा नः᳚ प्र॒जां री᳚रिषो॒ मोत वी॒रान् ॥
पदपाठः (Word-by-word)
चक्षु᳚ष्मते । शृ॒ण्व॒ते । ते॒ । ब्र॒वी॒मि॒ । मा । नः॒ । प्र॒॑जाम् । रि॒रि॒षः॒ । मा । उ॒त । वी॒रान् ॥
सायणभाष्यम् (Sayana Commentary)
हे मृत्यो सर्वेषां मारक एतन्नामक देव परमन्यं पंथां पंथानं अनु आनुपूर्व्येण परेहि पराङ्मुखोगच्छायजमानादितिशॆषः । कोसौ पंथाः ते तव स्वः स्वभूतः देवयानात् देवा अनेन मार्गेण गच्छन्तीति देवयानोदेवमार्गः तस्मादितरोयः पंथाः तं प्रगच्छ । न केवलं मत्तः परागच्छ अपितु चक्षुष्मते दर्शनवते श्रृण्वते सर्वं अप्रतिहतसर्वेंद्रियविज्ञानायेत्यर्थः । ते तुभ्यं ब्रवीमि कथयामि नोस्माकं प्रजां दुहितृदौहित्रात्मिकां मारिरिषः माहिंसीः । उतापिच वीरान् पुत्रपौत्रादीन् माहिंसीः मत्परागमनेन रक्षेत्यर्थः ॥ १ ॥