मृ॒त्योः प॒दं यो॒पय᳚न्तो॒ यदैत॒ द्राघी᳚य॒ आयु᳚ः प्रत॒रं दधा᳚नाः ।
आ॒प्याय᳚मानाः प्र॒जया॒ धने᳚न शु॒द्धाः पू॒ता भ᳚वत यज्ञियासः ॥
आ॒प्याय᳚मानाः प्र॒जया॒ धने᳚न शु॒द्धाः पू॒ता भ᳚वत यज्ञियासः ॥
पदपाठः (Word-by-word)
मृ॒त्योः । प॒दम् । यो॒पय᳚न्तः । यत् । ऐत᳚ । द्राघी᳚यः । आयुः᳚ । प्र॒॑त॒रम् । दधा᳚नाः ।
आ॒प्याय᳚मानाः । प्र॒॑जया᳚ । धने᳚न । शु॒द्धाः । पू॒ताः । भ॒व॒त॒ । य॒ज्ञि॒या॒सः॒ ॥
आ॒प्याय᳚मानाः । प्र॒॑जया᳚ । धने᳚न । शु॒द्धाः । पू॒ताः । भ॒व॒त॒ । य॒ज्ञि॒या॒सः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे मृतस्य ज्ञातयः मृत्योः परागच्छतस्तस्य पदं पद्यतेस्मिन् इति पदं पितृयागः तं योपयन्तः विमोहयन्तः परिवर्जयन्तः यद्यस्मात् एतदेव यानीयपथागतवन्तुस्तस्मात् द्राघी यः दीर्घतरं आयुर्जीवनं प्रतरं प्रकृष्टतरमत्यर्थं दधानाः धारयन्तोभवथ । किंच हे यज्ञियासः यज्ञार्हा यज्ञसंपादिनोयजमानाः प्रजया पुत्रपौत्रादिकया धनेन गवाश्वादिकेन च आप्याय मानाः वर्तमानाः सन्तः शुद्धाः जन्मान्तरसंचितदुरितक्षयात् शुद्धाभवत पूताः वर्तमान जन्मोपचितदुरितक्षयाच्च पूताभवत ॥ २ ॥ पैतृमेधिकेकर्मणि अमात्याः इमेजीवाविमृतैरितिसव्यावृतोव्रजन्ति । सूत्रितंच—इमेजी- वाविमृतैरितिसव्यावृतोव्रजन्तीति ।