श्रवणम्

10.18.3
इ॒मे जी॒वा वि मृ॒तैराव᳚वृत्र॒न्नभू᳚द्भ॒द्रा दे॒वहू᳚तिर्नो अ॒द्य ।
प्राञ्चो᳚ अगाम नृ॒तये॒ हसा᳚य॒ द्राघी᳚य॒ आयु᳚ः प्रत॒रं दधा᳚नाः ॥
▶ पदपाठः (Word-by-word)
इ॒मे । जी॒वाः । वि । मृ॒तैः । आ । अ॒व॒वृ॒त्र॒न् । अभू᳚त् । भ॒द्रा । दे॒व॑हू᳚तिः । नः॒ । अ॒द्य ।
प्राञ्चः᳚ । अ॒गा॒म॒ । नृ॒तये᳚ । हसा᳚य । द्राघी᳚यः । आयुः᳚ । प्र॒॑त॒रम् । दधा᳚नाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

इमे जीवाः जीवन्तः पुरुषाः मृतैः पित्रादिभिस्तेभ्यइत्यर्थः व्याववृत्रन् व्यावृत्ताभवन्तु एते नम्रियन्तामितिभावः । किंच अद्यास्मिन् दिने नोस्माकं अशौचे विसृष्टे देवहूतिः देवा- नामाह्वानं यत्र सदेवहूतिः पितृमेधाख्योयज्ञः भद्रा कल्याणोभूद्भवतु । ततउत्तरं वयं प्रांचः प्राङ्मुखांचनाः अयाम गच्छेम प्रत्यंचइतिभावः नृतये नर्तनाय कर्मणि गात्रविक्षेपाय स्वकर्मानुअनायेतिभावः हसाय हसनाय पुत्रादिभिः सहक्रीडनाय । कीदृशावयं द्राघीयआ- युः प्रतरं दधानाः ॥ ३ ॥