श्रवणम्

10.18.13
उत्ते᳚ स्तभ्नामि पृथि॒वीं त्वत्परी॒मं लो॒गं नि॒दध॒न्मो अ॒हं रि᳚षम् ।
ए॒तां स्थूणां᳚ पि॒तरो᳚ धारयन्तु॒ ते॑त्रा᳚ य॒मः साद᳚ना ते मिनोतु ॥
▶ पदपाठः (Word-by-word)
उत् । ते॒ । स्त॒भ्ना॒मि॒ । पृ॒थि॒वीम् । त्वत् । परि᳚ । इ॒मम् । लो॒गम् । नि॒॑दध᳚त् । मो इति᳚ । अ॒हम् । रि॒ष॒म् ।
ए॒ताम् । स्थूणा᳚म् । पि॒तरः᳚ । धा॒र॒य॒न्तु॒ । ते॒ । अत्र᳚ । य॒मः । सद᳚ना । ते॒ । मि॒नो॒तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अस्थिकुंभ त्वत्परि परिशब्दयोगे पंचमी तवोपरि ते त्वदीयेन कपालेन पृथिवी मुत् स्तभ्रामि प्रतिबध्नामि यथा प्रुथिवी तवोपरिमागच्छति तथापिदधामीत्यर्थः । इमं लोगं कपाललक्षणं लोष्टं निदधत् उपरिस्थापयन्नहं मोरिषं माहिंसिषम् । किंच एतां मया निहितां स्थूणां ते त्वदीयां पृथिव्याधारयित्रीं कपाललक्षणां पितरोधारयन्तु निश्चलां कुर्व- न्तु । ततः ते त्वदीये अत्र अस्मिन् स्थाने यमः पितृपतिः सदना सदनानि स्थानानि मिनोतु परिच्छिनत्तु करोत्वित्यर्थः ॥ १३ ॥