इ॒मं जी॒वेभ्य᳚ः परि॒धिं द᳚धामि॒ मैषां॒ नु गा॒दप᳚रो॒ अर्थ᳚मे॒तम् ।
श॒तं जी᳚वन्तु श॒रदः᳚ पुरू॒चीर॒न्तर्मृ॒त्युं द᳚धतां॒ पर्व᳚तेन ॥
श॒तं जी᳚वन्तु श॒रदः᳚ पुरू॒चीर॒न्तर्मृ॒त्युं द᳚धतां॒ पर्व᳚तेन ॥
पदपाठः (Word-by-word)
इ॒मम् । जी॒वेभ्यः᳚ । प॒रि॒॑धिम् । द॒धा॒मि॒ । मा । ए॒षा॒म् । नु । गा॒त् । अप᳚रः । अर्थ᳚म् । ए॒तम् ।
श॒तम् । जी॒व॒न्तु॒ । श॒रदः᳚ । पु॒रू॒चीः । अ॒न्तः । मृ॒त्युम् । द॒ध॒ता॒म् । पर्व᳚तेन ॥
श॒तम् । जी॒व॒न्तु॒ । श॒रदः᳚ । पु॒रू॒चीः । अ॒न्तः । मृ॒त्युम् । द॒ध॒ता॒म् । पर्व᳚तेन ॥
सायणभाष्यम् (Sayana Commentary)
अनया जीवरक्षार्थं पाषाणं परिधिरूपेण स्थापयन्ति । जीवेभ्यः जीवद्भ्यः पुत्रपौत्रादि भ्यः तेषां रक्षणार्थं इमं परिधिं मृत्योः परिधानभूतं पाषाणं दधासि निदधामि ततएषां जीवतां मध्ये अपरोन्यः एनमिमं अर्थं अर्तेरिदं रूपं गन्तव्यं मरणाख्यंमार्गं नु क्षिप्रं मा- गात् मागच्छतु एतदर्थं परिधिं स्थापयामीतिसंबन्धः । किंच पुरूचीः बहुवंचनाः बहुगम- नाः शतं शरदः एतत्संख्याकान् वर्षान् जीवन्तु स्वस्वप्राणान् धारयन्तु । तथा पर्वतेन शिलोच्चयेन मृत्युं सर्वेषां मारकमेतन्नामाकं अन्तर्दधतां अन्तर्हितं कुर्वन्तु यथा नागच्छति तथा कुर्वतामित्यर्थः ॥ ४ ॥