उच्छ्व᳚ञ्चस्व पृथिवि॒ मा नि बा᳚धथाः सूपाय॒नास्मै᳚ भव सूपवञ्च॒ना ।
मा॒ता पु॒त्रं यथा᳚ सि॒चाभ्ये᳚नं भूम ऊर्णुहि ॥
मा॒ता पु॒त्रं यथा᳚ सि॒चाभ्ये᳚नं भूम ऊर्णुहि ॥
पदपाठः (Word-by-word)
उत् । श्व॒ञ्च॒स्व॒ । पृ॒थि॒वि॒ । मा । नि । बा॒ध॒थाः॒ । सु॒॑उ॒पा॒य॒ना । अ॒स्मै॒ । भ॒व॒ । सु॒॑उ॒प॒व॒ञ्च॒ना ।
मा॒ता । पु॒त्रम् । यथा᳚ । सि॒चा । अ॒भि । ए॒न॒म् । भू॒मे॒ । ऊ॒र्णु॒हि॒ ॥
मा॒ता । पु॒त्रम् । यथा᳚ । सि॒चा । अ॒भि । ए॒न॒म् । भू॒मे॒ । ऊ॒र्णु॒हि॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे पृथिवि उच्छ्वंचस्व ऊर्ध्वं गतोच्छ्वासमेनं कुरु अधस्तान्माकृथाइत्यर्थः । किंच मा- निबाधथाः मा संपीडय । तथा अस्मै यजमानार्थं सूपायना शोभनोपगमना सूपचारिका- भवेत्यर्थः । सूपवंचना उपवंचनं प्रलंभनं शोभनप्रलंभा सुप्रतिष्ठा भव । अपिच माता पुत्रमात्मीयं बालकं सिचा वस्त्रांतेन यथा आच्छादयति तद्वत् हे भूमे एनं अस्थिरूपं यजमानं अभ्यूर्णुहि आभिमुख्येनाच्छादय ॥ ११ ॥