श्रवणम्

10.18.7 समानपद
इ॒मा नारी᳚रविध॒वाः सु॒पत्नी॒राञ्ज᳚नेन स॒र्पिषा॒ सं वि᳚शन्तु ।
अ॒न॒श्रवो᳚॑नमी॒वाः सु॒रत्ना॒ आ रो᳚हन्तु॒ जन᳚यो॒ योनि॒मग्रे᳚ ॥
▶ पदपाठः (Word-by-word)
इ॒माः । नारीः᳚ । अ॒वि॒ध॒वाः । सु॒॑पत्नीः᳚ । आ॒॑अञ्ज᳚नेन । स॒र्पिषा᳚ । सम् । वि॒श॒न्तु॒ ।
अ॒न॒श्रवः᳚ । अ॒न॒मी॒वाः । सु॒॑रत्नाः᳚ । आ । रो॒ह॒न्तु॒ । जन᳚यः । योनि᳚म् । अग्रे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अविधवाः धवः पतिः अविगतपतिकाः जीवद्भर्तृकाइत्यर्थः सुपत्नीः शोभनपतिकाः इमानारीः नार्यः आंजनेन सर्वतोंजनसाधनेन सर्पिषा घृतेन अक्तनेत्राः सत्यः संविशन्तु स्वगृहान् प्रविशन्तु । तथा अनश्रवः अश्रुवर्जिताः अरुदत्यः अनमीवाः अमीवारोगस्तद्व- र्जिताः मानसदुःखवर्जिताइत्यर्थः सुरत्नाः शोभनधनसहिताः जनयः जनयन्त्यपत्यमितिज- नयोभार्याः ताअग्रे सर्वेषां प्रथमतएव योनिं गृहं आरोहन्तु आगच्छन्तु ॥ ७ ॥ देवरादिकः प्रेतपत्नीमुदीर्ष्वनारीत्यनयाभर्तृसकाशादुत्थापयेत् । सूत्रितंच—तामुत्थापये- द्देवरःपतिस्थानीयोन्तेवासीजरद्दासोवोदीर्ष्वनार्यभिजीवलोकमिति ।