श्रवणम्

10.18.14
प्र॒ती॒चीने॒ मामह॒नीष्वा᳚ः प॒र्णमि॒वा द᳚धुः ।
प्र॒तीचीं᳚ जग्रभा॒ वाच॒मश्वं᳚ रश॒नया᳚ यथा ॥
▶ पदपाठः (Word-by-word)
प्र॒ती॒चीने᳚ । माम् । अह᳚नि । इष्वाः᳚ । प॒र्णम्॑इ᳚व । आ । द॒धुः॒ ।
प्र॒तीची᳚म् । ज॒ग्र॒भ॒ । वाच᳚म् । अश्व᳚म् । र॒श॒नया᳚ । य॒था॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अनया प्रजपतिः प्रार्थ्यते हे प्रजापते प्रतीचीने प्रतिपूज्ये अहनि तदुपलक्षिते संवत्स- संकुसुकमृषिं आदधुः निहितवन्तः सर्वे देवाः । किमिव इष्वाः बाणस्य पर्णमिव पक्षमिव पक्षं यथा बाणस्य मूले स्थापयन्ति तद्वत् जगत्मूले त्वयि मां स्थापितवन्तः अतोमदीयां प्रतीचीं पूज्यां वाचं स्तुतिरूपां जगृभ गृहाण । कतमित्युच्यते अश्वं आशुगामिनं हयं रशनया रज्ज्वा यथा गृह्णन्ति तद्वत् कर्णाभ्यां मत्कृतां स्तुतिं गृहाणेत्यर्थः ॥ १४ ॥

वेदार्थस्य प्रकाशेन तमोहार्दं निवारयन् । पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरण सा- यणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभष्ये सप्तमाष्टके षष्ठोध्यायः ॥ ६ ॥