श्रवणम्

10.18.8
उदी᳚र्ष्व नार्य॒भि जी᳚वलो॒कं ग॒तासु᳚मे॒तमुप᳚ शेष॒ एहि᳚ ।
ह॒स्त॒ग्रा॒भस्य᳚ दिधि॒षोस्तवे॒दं पत्यु᳚र्जनि॒त्वम॒भि सं ब᳚भूथ ॥
▶ पदपाठः (Word-by-word)
उत् । ई॒र्ष्व॒ । ना॒रि॒ । अ॒भि । जी॒व॒॑लो॒कम् । ग॒त॑अ᳚सुम् । ए॒तम् । उप᳚ । शे॒षे॒ । आ । इ॒हि॒ ।
ह॒स्त॒॑ग्रा॒भस्य᳚ । दि॒धि॒षोः । तव᳚ । इ॒दम् । पत्युः᳚ । ज॒नि॒॑त्वम् । अ॒भि । सम् । ब॒भू॒थ॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नारि मृतस्य पत्नि जीवलोकं जीवानां पुत्रपौत्रादीनां लोकं स्थानं गृहमभिलक्ष्य उदीर्ष्व अस्मात् स्थानादुत्तिष्ठ । ईर गतौ आदादिकः । गतासुं अपक्रान्तप्राणं एतं पतिं उपशॆषे तस्य समीपे स्वपिषि तस्मात् त्वं एहि आगच्छ । गस्मात् त्वं हस्तग्राभस्य पा- णिग्राहं कुर्वतः दिधिषोः गर्भस्यनिधातुः तवास्य पत्युः संबन्धादागतं इदं जनित्वं जाया- त्वं अभिलक्ष्य संबभूथ संभूतासि असुसरणनिश्चयं अकार्षीः तस्मादागच्छ ॥ ८ ॥ क्षत्रियस्य धनुर्हस्तादित्यनया धनुःप्रहरेत् । सूत्रितंच—धनुर्हस्तादाददानोमृतस्येतिधनु- रिति ।