दशमं मण्डलम् - सूक्तम् 100

12 ऋचः

ऋषिः: दुवस्युर्वांदनः देवता: विश्वेदेवाः छन्दः: जगती

सूक्तम् 10.100 - सम्पूर्णम्

1 / 12
ऋक्: 10.100.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (12)
10.100.1
इन्द्र॒ दृह्य᳚ मघव॒न्त्वाव॒दिद्भु॒ज इ॒ह स्तु॒तः सु᳚त॒पा बो᳚धि नो वृ॒धे ।
दे॒वेभि᳚र्नः सवि॒ता प्राव᳚तु श्रु॒तमा स॒र्वता᳚ति॒मदि᳚तिं वृणीमहे ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚ । दृह्य᳚ । म॒घ॒॑व॒न् । त्वा॑व᳚त् । इत् । भु॒जे । इ॒ह । स्तु॒तः । सु॒त॒॑पाः । बो॒धि॒ । नः॒ । वृ॒धे ।
दे॒वेभिः᳚ । नः॒ । स॒वि॒ता । प्र । अ॒व॒तु॒ । श्रु॒तम् । आ । स॒र्व॑ता᳚तिम् । अदि᳚तिम् । वृ॒णी॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नवमेऽनुवाके त्रयोदश सूक्तानि। तत्रेन्द्र दृह्येति द्वादशर्चं प्रथमं सूक्तं वन्दनपुत्रस्य दुवस्योरार्षं वैश्वदेवम्। द्वादशी त्रिष्टुप्। शिष्टा जगत्यः तथा चानुक्रान्तम्। इन्द्र दवस्युर्वान्दनो वैश्वदेवं त्वंत्या त्रिष्टुबिति। गतो विनियोगः॥

हे इन्द्र मघवन्धनवन् त्वं त्वावदित् त्वत्सदृशमेव शत्रुबलं दृह्य मारय। किमर्थम् । भुजेऽस्माकं भोगाय। तदर्थमिहास्मिन्यज्ञे स्तुतः सन् सुतपाः सुतस्याभिषुतस्य सोमस्य पाता बोधि। बुध्यस्व। भवेत्यर्थः। किमर्थम् । नोऽस्माकं व्रुधे वर्धनाय। किञ्च देवेभिर्देवैः सह नोऽस्माकं श्रुतं विश्रुतं यज्ञं सविता सर्वस्य स्वस्वकर्मसु प्रेरको देवः प्रावतु। प्ररक्शतु। किञ्च सर्वतातिम् । स्वार्थिकस्तातिल्। सर्वां सर्वात्मिकाम्। यद्वा। सर्वे तायन्तेऽस्यामिति र्सतातिः। छान्दसो दीर्घः। तादृशीमदितिमुखण्डनीयां देवमातरमा व्रुणीमहे॥१॥

10.100.2
भरा᳚य॒ सु भ᳚रत भा॒गमृ॒त्वियं॒ प्र वा॒यवे᳚ शुचि॒पे क्र॒न्ददि᳚ष्टये ।
गौ॒रस्य॒ यः पय᳚सः पी॒तिमा᳚न॒श आ स॒र्वता᳚ति॒मदि᳚तिं वृणीमहे ॥
▶ पदपाठः (Word-by-word)
भरा᳚य । सु । भ॒र॒त॒ । भा॒गम् । ऋ॒त्विय᳚म् । प्र । वा॒यवे᳚ । शु॒चि॒॑पे । क्र॒न्दत्॑इ᳚ष्टये ।
गौ॒रस्य᳚ । यः । पय᳚सः । पी॒तिम् । आ॒न॒शे । आ । स॒र्व॑ता᳚तिम् । अदि᳚तिम् । वृ॒णी॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

भराय सङ्ग्रामकारिणे सर्वेशां पोशकाय वेन्द्रायर्त्वियं काले जातं प्राप्तकालं भागं सु भर सुष्ठु सम्पादयत हे ऋत्विजः। तथा शुचिपे शुद्धस्य सोमस्य पात्रे क्रन्ददिष्टये शब्दितगमनाय । वायोः शीघ्रगमने हि शब्दः प्रत्यक्षः। तादृशाय वायवे देवाय प्र भरत भागमिति शेशः। यो देवो गौरस्य गौरवर्णस्य पशो पयसः पीतिं पानमानशे प्राप्नोति तस्मै वायवे। शिष्टमुक्तम्॥२॥

10.100.3
आ नो᳚ दे॒वः स᳚वि॒ता सा᳚विष॒द्वय᳚ ऋजूय॒ते यज᳚मानाय सुन्व॒ते ।
यथा᳚ दे॒वान्प्र᳚ति॒भूषे᳚म पाक॒वदा स॒र्वता᳚ति॒मदि᳚तिं वृणीमहे ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । दे॒वः । स॒वि॒ता । सा॒वि॒ष॒त् । वयः᳚ । ऋ॒जु॒॑य॒ते । यज᳚मानाय । सु॒न्व॒ते ।
यथा᳚ । दे॒वान् । प्र॒ति॒॑भूषे᳚म । पा॒क॒॑वत् । आ । स॒र्व॑ता᳚तिम् । अदि᳚तिम् । वृ॒णी॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सविता सर्वस्य प्रेरकः सूर्यो नोऽस्माकं सम्बन्धिन ऋजूयत ऋजुकामाय सुन्वतेऽभिषवं कुर्वते यजमानाय वयोऽन्नं पाकवत् पाकोपेतम्। व्यवहितमप्येतदत्र सम्बध्यते। आ साविषत्। आभिमुख्येन प्रसौति। सौतेर्ण्यन्ताल्लेटि रूपम्। यथा येन प्रकारेण देवान्प्रतिभूषेम प्रतिभवेम। भवतेर्लिङि सिप्यपौ। द्विविकरणता। यद्वा। भूष अलङ्कारे। भौवादिकः। भूषयमेत्यर्थः॥३॥

10.100.4
इन्द्रो᳚ अ॒स्मे सु॒मना᳚ अस्तु वि॒श्वहा॒ राजा॒ सोमः᳚ सुवि॒तस्याध्ये᳚तु नः ।
यथा᳚यथा मि॒त्रधि᳚तानि संद॒धुरा स॒र्वता᳚ति॒मदि᳚तिं वृणीमहे ॥
▶ पदपाठः (Word-by-word)
इन्द्रः᳚ । अ॒स्मे इति᳚ । सु॒॑मनाः᳚ । अ॒स्तु॒ । वि॒श्वहा᳚ । राजा᳚ । सोमः᳚ । सु॒वि॒तस्य᳚ । अधि᳚ । ए॒तु॒ । नः॒ ।
यथा᳚॑यथा । मि॒त्र॑धि᳚तानि । स॒म्॑द॒धुः । आ । स॒र्व॑ता᳚तिम् । अदि᳚तिम् । वृ॒णी॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रो देवोऽस्मे अस्माकं सुमनाः सुमनस्कोऽनुग्रहचेता अस्तु। भवतु। विश्वहा सर्वेश्वप्यहःसु। राजा सोमश्च नोऽस्माकं सुवितस्य सुवितं स्तोत्रमभ्येतु अधिगच्छतु। यथा यथा येन येन प्रकारेणास्माकं मित्रधितानि मित्रनिहितानि धनानि सन्दधुः तथाधिगच्छतु सोमः। तथेन्द्रोऽपि सुमना अस्त्विति समन्वयः॥४॥

10.100.5
इन्द्र᳚ उ॒क्थेन॒ शव᳚सा॒ परु᳚र्दधे॒ बृह᳚स्पते प्रतरी॒तास्यायु᳚षः ।
य॒ज्ञो मनु॒ः प्रम᳚तिर्नः पि॒ता हि क॒मा स॒र्वता᳚ति॒मदि᳚तिं वृणीमहे ॥
▶ पदपाठः (Word-by-word)
इन्द्रः᳚ । उ॒क्थेन᳚ । शव᳚सा । परुः᳚ । द॒धे॒ । बृह᳚स्पते । प्र॒॑त॒री॒ता । अ॒सि॒ । आयु᳚षः ।
य॒ज्ञः । मनुः᳚ । प्र॑म᳚तिः । नः॒ । पि॒ता । हि । क॒म् । आ । स॒र्व॑ता᳚तिम् । अदि᳚तिम् । वृ॒णी॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमिन्द्र उक्थेन शवसा स्तुत्येन बलेन परुः पर्व यज्ञियमस्मदीयं वा दधे। धारयति। हे ब्रुहस्पते आयुषो ममायुश्यस्य प्रतरीता प्रवर्धयितासि। भव। तथा यज्ञो मनुर्मन्ता प्रमतिः प्रकृष्टा मतिर्यस्य सनः पिता पालकः सन् कं सुखं प्रयच्छतु। यद्वा। यज्ञो मन्त्रो बुद्धिश्च प्रत्येकं सुखं प्रयच्छतु॥५॥

10.100.6
इन्द्र᳚स्य॒ नु सुकृ᳚तं॒ दैव्यं॒ सहो॒॑ग्निर्गृ॒हे ज᳚रि॒ता मेधि᳚रः क॒विः ।
य॒ज्ञश्च᳚ भूद्वि॒दथे॒ चारु॒रन्त᳚म॒ आ स॒र्वता᳚ति॒मदि᳚तिं वृणीमहे ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚स्य । नु । सु॑कृ᳚तम् । दैव्य᳚म् । सहः᳚ । अ॒ग्निः । गृ॒हे । ज॒रि॒ता । मेधि᳚रः । क॒विः ।
य॒ज्ञः । च॒ । भू॒त् । वि॒दथे᳚ । चारुः᳚ । अन्त᳚मः । आ । स॒र्व॑ता᳚तिम् । अदि᳚तिम् । वृ॒णी॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

दैव्यं देवानां हितं सहो बलं यदस्ति तदिन्द्रस्य सुकृतम्। इन्द्रेण खलु सुष्थु सम्पादितम्। यद्वा। यत्सुकृतं दैव्यं सहो बलं मरुत्संज्ञकमस्ति तदिन्द्रस्य नु। इन्द्रस्य सम्बन्धि खलु। अथवा। इन्द्रस्य नु सम्बन्धि सुकृतं दैव्यं सहो देवार्हं बलमग्निर्गृहेऽस्मदीये यागगृहे वर्तत इति शेशः। इन्द्रस्य सम्बन्धी सुष्ठु सम्पादितो देवानां बलभूतोऽग्निर्गार्हपत्यः सेन् वर्तत इत्यर्थः। स चाग्निर्जरिता देवानां सोत्ता मेधिरः। मेधो यज्ञो हविर्वा। तद्वान् कविः क्रान्तप्रज्ञो यज्ञो यश्टव्यश्च भुत्। भवति। कुत्र विदथे यज्ञे। किञ्च सोऽग्निश्चारुश्चरणीयोऽन्तमोऽस्माकमन्तिकमतश्च॥६॥

10.100.7
न वो॒ गुहा᳚ चकृम॒ भूरि᳚ दुष्कृ॒तं नाविष्ट्यं᳚ वसवो देव॒हेळ᳚नम् ।
माकि᳚र्नो देवा॒ अनृ᳚तस्य॒ वर्प᳚स॒ आ स॒र्वता᳚ति॒मदि᳚तिं वृणीमहे ॥
▶ पदपाठः (Word-by-word)
न । वः॒ । गुहा᳚ । च॒कृ॒म॒ । भूरि᳚ । दुः॒॑कृ॒तम् । न । आ॒विः॑त्य᳚म् । व॒स॒वः॒ । दे॒व॒॑हेळ᳚नम् ।
माकिः᳚ । नः॒ । दे॒वाः॒ । अनृ᳚तस्य । वर्प᳚सः । आ । स॒र्व॑ता᳚तिम् । अदि᳚तिम् । वृ॒णी॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देवाः वो युष्माकं गुहा गुहायां प्रच्छन्ने देशे भूरि प्रभूतं दुष्कृतं पापम् । द्रोहमित्यर्थः। न च कृम। तथाविष्ट्यमाविः सम्भुतं देवहेळनं देवानां क्रोधनं तन्निमित्तं द्रोहं न चकृम हे वसवो वासका देवाः। किञ्च हे देवाः नोऽस्माकमनृतस्य वर्पसो रूपस्य प्राप्तिर्माकिः। मा भुत्। इतः परं मानुशं रूपं मा भूदित्यर्थः। शिष्तमुक्तम्॥७॥

10.100.8
अपामी᳚वां सवि॒ता सा᳚विष॒न्न्य१॒᳚ग्वरी᳚य॒ इदप᳚ सेध॒न्त्वद्र᳚यः ।
ग्रावा॒ यत्र᳚ मधु॒षुदु॒च्यते᳚ बृ॒हदा स॒र्वता᳚ति॒मदि᳚तिं वृणीमहे ॥
▶ पदपाठः (Word-by-word)
अप᳚ । अमी᳚वाम् । स॒वि॒ता । सा॒वि॒ष॒त् । न्य᳚क् । वरी᳚यः । इत् । अप᳚ । से॒ध॒न्तु॒ । अद्र᳚यः ।
ग्रावा᳚ । यत्र᳚ । म॒धु॒॑सुत् । उ॒च्यते᳚ । बृ॒हत् । आ । स॒र्व॑ता᳚तिम् । अदि᳚तिम् । वृ॒णी॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सविता सर्वस्य प्रेरकः सवितृतेदतास्माकं सम्बन्धिनममीवां रोगमप साविषत्। अपप्रेरयतु। अपगमयत्वित्यर्थः। तथा वरीय इदुरुतरमपि पापं न्यग्नीचीनमप सेधन्त्वद्रयः पर्वताभिमानिनो देवा अभिशवाश्मानो वा। एतत्सर्वं कुत्र भवत्विति चेत् उच्यते। यत्र यस्मिन्प्रदेशे यस्मिन्यागे वा मधुरस्य सोमस्य सोता ग्रावा बृहत्प्रवृद्धमुच्यते स्तूयते तत्र॥८॥

10.100.9
ऊ॒र्ध्वो ग्रावा᳚ वसवो॑स्तु सो॒तरि॒ विश्वा॒ द्वेषां᳚सि सनु॒तर्यु᳚योत ।
स नो᳚ दे॒वः स᳚वि॒ता पा॒युरीड्य॒ आ स॒र्वता᳚ति॒मदि᳚तिं वृणीमहे ॥
▶ पदपाठः (Word-by-word)
ऊ॒र्ध्वः । ग्रावा᳚ । व॒स॒वः॒ । अ॒स्तु॒ । सो॒तरि᳚ । विश्वा᳚ । द्वेषां᳚सि । स॒नु॒तः । यु॒यो॒त॒ ।
सः । नः॒ । दे॒वः । स॒वि॒ता । पा॒युः । ईड्यः᳚ । आ । स॒र्व॑ता᳚तिम् । अदि᳚तिम् । वृ॒णी॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वसवो देवाह् सोतरि सोमाभिषवकर्तरि मयि ग्रावोर्ध्वौन्नतोऽस्तु तेनोच्छ्रितेन विश्वा द्वेषांसि सर्वानपि द्वेष्टॄन्सनुतर्निगूधान्युयोत। पृथक्कुरुत। स सविता देवो नोऽस्माकं पायुः पालयिता। क्रुवापाजीत्यादिनोण्। प्रत्ययस्वरः। स ईड्यः स्तोतव्यश्च॥९॥

10.100.10
ऊर्जं᳚ गावो॒ यव᳚से॒ पीवो᳚ अत्तन ऋ॒तस्य॒ याः सद᳚ने॒ कोशे᳚ अ॒ङ्ग्ध्वे ।
त॒नूरे॒व त॒न्वो᳚ अस्तु भेष॒जमा स॒र्वता᳚ति॒मदि᳚तिं वृणीमहे ॥
▶ पदपाठः (Word-by-word)
ऊर्ज᳚म् । गा॒वः॒ । यव᳚से । पीवः᳚ । अ॒त्त॒न॒ । ऋ॒तस्य᳚ । याः । सद᳚ने । कोशे᳚ । अ॒ङ्ग्ध्वे ।
त॒नूः । ए॒व । त॒न्वः᳚ । अ॒स्तु॒ । भे॒ष॒जम् । आ । स॒र्व॑ता᳚तिम् । अदि᳚तिम् । वृ॒णी॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे गाव आशिरार्थाः यूयं युवसे त्रुणवति देशे पीवः प्रवृद्धमूर्जं रसमत्तन। अत् या ऋतस्य यज्ञस्य सदने ग्रुहे कोशे गोष्ठे दोहनस्थानेङ् ध्वे व्ब्यञ्जयथ ता अत्तन। तनूरेव। जन्ये जनकशब्दः। तनूरेव क्षीरमेव तन्वः सोमरसस्य भेशजमस्तु। यद्वा। पृथगेव वाक्यम्। अस्माकं तन्वो भेषजमस्तु। किञ्च तनूरेव पशुशरीरमेव। पशुना यागे सति स्वर्गस्य सम्पादयितुं शक्यत्वात्॥१०॥

10.100.11
क्र॒तु॒प्रावा᳚ जरि॒ता शश्व᳚ता॒मव॒ इन्द्र॒ इद्भ॒द्रा प्रम᳚तिः सु॒ताव᳚ताम् ।
पू॒र्णमूध᳚र्दि॒व्यं यस्य᳚ सि॒क्तय॒ आ स॒र्वता᳚ति॒मदि᳚तिं वृणीमहे ॥
▶ पदपाठः (Word-by-word)
क्र॒तु॒॑प्रावा᳚ । ज॒रि॒ता । शश्व᳚ताम् । अवः᳚ । इन्द्रः᳚ । इत् । भ॒द्रा । प्र॑म᳚तिः । सु॒त॑व᳚ताम् ।
पू॒र्णम् । ऊधः᳚ । दि॒व्यम् । यस्य᳚ । सि॒क्तये᳚ । आ । स॒र्व॑ता᳚तिम् । अदि᳚तिम् । वृ॒णी॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

क्रतुप्रावा कर्मणां पुरकः। प्रा पूरने। आतो मनिन्नित्यादिना वनिप्। जरिता स्तोत यजमानं साधु सोमः कृत इति स्तौति। यद्वा शश्वतां सर्वेशां जरियितेन्द्र इदिन्द्र एव सुतावतां सोमवताम् यजमानानामवो रक्शको भद्रा भद्रया स्तुत्या प्रमतिः। यस्येन्द्रस्य सिक्तये सेकाय पानायोधरुद्धततरं द्रोनकलशं पूर्णं सोमेन पूर्णं भवति स एवावः स एव प्रमतिरिति॥११॥

10.100.12 समानपद
चि॒त्रस्ते᳚ भा॒नुः क्र᳚तु॒प्रा अ᳚भि॒ष्टिः सन्ति॒ स्पृधो᳚ जरणि॒प्रा अधृ᳚ष्टाः ।
रजि᳚ष्ठया॒ रज्या᳚ प॒श्व आ गोस्तूतू᳚र्षति॒ पर्यग्रं᳚ दुव॒स्युः ॥
▶ पदपाठः (Word-by-word)
चि॒त्रः । ते॒ । भा॒नुः । क्र॒तु॒॑प्राः । अ॒भि॒ष्टिः । सन्ति᳚ । स्पृधः᳚ । ज॒र॒णि॒॑प्राः । अधृ᳚ष्टाः ।
रजि᳚ष्ठया । रज्या᳚ । प॒श्वः । आ । गोः । तूतू᳚र्षति । परि᳚ । अग्र᳚म् । दु॒व॒स्युः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते भानुः प्रकाशश्चित्र आश्चर्यभुतश्चायनीयो जा। तथा क्रतुप्राः स भानुरस्माकं कर्मणां पूरकोऽभिष्तिरभ्येशणीयः। हे इन्द्र ते जरणित्राः स्तोतृणां धनस्य पूरयित्र्योऽधृष्टा अन्यैरप्रधृष्याः स्पृधः स्पर्धाः सन्ति। यस्मादेवं तस्माद्रजिष्थयर्जुतमया रज्या रज्ज्वा गोः पश्वः पशोरग्रं दुवस्युः परिचरणमिच्छन्नेतन्नामर्षिः परि तूतूर्शति। अभित्वरयति॥१२॥