दशमं मण्डलम् - सूक्तम् 113

10 ऋचः

ऋषिः: शतप्रभेदनो वैरूपः देवता: इंद्रः छन्दः: जगती

सूक्तम् 10.113 - सम्पूर्णम्

1 / 10
ऋक्: 10.113.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
10.113.1 समानपद
तम᳚स्य॒ द्यावा᳚पृथि॒वी सचे᳚तसा॒ विश्वे᳚भिर्दे॒वैरनु॒ शुष्म᳚मावताम् ।
यदैत्कृ᳚ण्वा॒नो म᳚हि॒मान᳚मिन्द्रि॒यं पी॒त्वी सोम᳚स्य॒ क्रतु᳚मा{4} अवर्धत ॥
▶ पदपाठः (Word-by-word)
तम् । अ॒स्य॒ । द्यावा᳚पृथि॒वी इति᳚ । स॑चे᳚तसा । विश्वे᳚भिः । दे॒वैः । अनु᳚ । शुष्म᳚म् । आ॒व॒ता॒म् ।
यत् । ऐत् । कृ॒ण्वा॒नः । म॒हि॒मान᳚म् । इ॒न्द्रि॒यम् । पी॒त्वी । सोम᳚स्य । क्रतु᳚॑मान् । अ॒व॒र्ध॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

दशमेऽनुवाके षोडश सुक्तानि । तत्र तमस्येति दशर्चम् प्रथमं सूक्तमैन्द्रम् । शतप्रभेदनो नाम वैरूप ऋषिः। अन्त्या त्रिष्टुप् शिष्टा जगत्यः। तथा चानुक्रान्तम्। तमस्य शतप्रभेदनस्त्रिष्टुबन्तमिति। दशरात्रस्याष्टमेऽहनि मरुत्वतीय एतत्सूक्तम्। सूत्रितं च। तमस्य द्यावापृथिवी महा इन्द्रो नृवदिति मरुत्वतीयम्। आ. ८-७। इति॥

सचेतसा सह चेत्ययन्त्यौ द्यावापृथिवी द्यावापृथिव्यौ विश्वेभिः सर्वेभिः सर्वैर्देवैः सहास्य। अन्वादेशेऽशादेशोऽनुदात्तः। पा. २-४-३२। एतस्येन्द्रस्य तं शुष्मं शत्रूणां शोषकं बलमन्वावताम्। रक्शताम्। तस्य बलं पूर्वमस्मान्रक्षतु पश्चादेते अपि रक्शतामिति भावः। अवतेर्लुङ्। क्रुण्वानो व्रुत्रवधादिकं कुर्वाणह् स महिमानमिन्द्रस्यात्मनह् पर्याप्तम् वीर्यं च यद्यदैत् प्राप्नोत्। इण् गतौ आदादिकः। आडजादीनामित्याडागमः। तदा क्रतुमान्कर्मवान् स सोमस्य पीत्वी सोमं ईत्वावर्धत। क्रियाग्रहनं कर्तव्यमिति कर्मणः सम्प्रदानसंज्ञा। चतुर्थ्यर्थे बहुलं चन्दसीति षष्ठी। पीत्वी। स्नात्व्यादयश्चेति निपातितः॥१॥

10.113.2
तम᳚स्य॒ विष्णु᳚र्महि॒मान॒मोज᳚सां॒शुं द᳚ध॒न्वान्मधु᳚नो॒ वि र᳚प्शते ।
दे॒वेभि॒रिन्द्रो᳚ म॒घवा᳚ स॒याव᳚भिर्वृ॒त्रं ज᳚घ॒न्वा{4} अ᳚भव॒द्वरे᳚ण्यः ॥
▶ पदपाठः (Word-by-word)
तम् । अ॒स्य॒ । विष्णुः᳚ । म॒हि॒मान᳚म् । ओज᳚सा । अं॒शुम् । द॒ध॒न्वान् । मधु᳚नः । वि । र॒प्श॒ते॒ ।
दे॒वेभिः᳚ । इन्द्रः᳚ । म॒घ॑वा᳚ । स॒याव᳚॑भिः । वृ॒त्रम् । ज॒घ॒न्वान् । अ॒भ॒व॒त् । वरे᳚ण्यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

विष्णुरेतन्नामकः। व्याप्तो यज्ञो वा। मधुनो मदकरस्य सोमस्यांशुं लताखण्डं दधन्वान् प्रेरयन्। धवेर्गत्यर्थस्य क्वसाविदित्त्वान्नुमागमे कृते वलि लोपः। ओजसा स्ववीर्येण सञ्जातमस्येन्द्रस्य तं महिमानं वि रप्यते। विविधं शब्दयति। स्तौति। मघवा धनवान् सयावभिः। यातेरातो मनिन्निति क्वनिप्। सहगन्तृभिर्देवेभिर्देवैर्मरुद्भिश्च व्रुत्रम् जघन्वान् हतवानिन्द्रो वरेण्यः सर्वैर्वरणियः सम्भजनीयोऽभवत्॥२॥

10.113.3
वृ॒त्रेण॒ यदहि᳚ना॒ बिभ्र॒दायु᳚धा स॒मस्थि᳚था यु॒धये॒ शंस᳚मा॒विदे᳚ ।
विश्वे᳚ ते॒ अत्र᳚ म॒रुतः᳚ स॒ह त्मनाव᳚र्धन्नुग्र महि॒मान᳚मिन्द्रि॒यम् ॥
▶ पदपाठः (Word-by-word)
वृ॒त्रेण᳚ । यत् । अहि᳚ना । बिभ्र᳚त् । आयु᳚धा । स॒म्॑अस्थि᳚थाः । यु॒धये᳚ । शंस᳚म् । आ॒॑विदे᳚ ।
विश्वे᳚ । ते॒ । अत्र᳚ । म॒रुतः᳚ । स॒ह । त्मना᳚ । अव᳚र्धन् । उ॒ग्र॒ । म॒हि॒मान᳚म् । इ॒न्द्रि॒यम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

युधये योधनायायुधायुधानि वज्रादीनि बिभ्रद्धारयन्निन्द्रस्त्वम् यद्यदानिनाहन्तव्येन वृत्रेण समस्थिथाः सहस्थाः। तिष्ठतेर्लुङि समवप्रविभ्यह् स्थ इत्यात्मनेपदम्। स्थाघ्वोरिच्चेति सिचः कित्त्वमिकारश्चान्तादेशः। ह्रस्वादङ्गादिति सिचो लोपः। यद्योगादनिघातः। तिङि चोदात्तवतीति गतेर्निघातः। तदाविदे। क्रुत्यार्थे केन्प्रत्ययः। तव वृत्रवधादिकं वीर्यं प्रज्ञापयितुं शंसम्। अशंसम् । शस्त्रैरहं स्तौ मि। शन्सु स्तुतौ। लङ्। वाक्यभेदादनिघातः। किञ्च हे उग्रोद्गूर्णबल आत्रास्मिन्काल एव तेत्वदीयम् महिमानमिन्द्रियं वीर्यं च विश्वे सर्वे मरुतस्त्मना सहैवावर्धन्। वर्नलोपश्छान्दसः। अवर्धयन्। मरुतो हीन्द्रस्य वीर्यं भवति॥३॥

10.113.4
ज॒ज्ञा॒न ए॒व व्य᳚बाधत॒ स्पृध॒ः प्राप᳚श्यद्वी॒रो अ॒भि पौंस्यं॒ रण᳚म् ।
अवृ᳚श्च॒दद्रि॒मव᳚ स॒स्यदः᳚ सृज॒दस्त᳚भ्ना॒न्नाकं᳚ स्वप॒स्यया᳚ पृ॒थुम् ॥
▶ पदपाठः (Word-by-word)
ज॒ज्ञा॒नः । ए॒व । वि । अ॒बा॒ध॒त॒ । स्पृधः᳚ । प्र । अ॒प॒श्य॒त् । वी॒रः । अ॒भि । पौंस्य᳚म् । रण᳚म् ।
अवृ᳚श्चत् । अद्रि᳚म् । अव᳚ । स॒॑स्यदः᳚ । सृ॒ज॒त् । अस्त᳚भ्नात् । नाक᳚म् । सु॒॑अ॒प॒स्यया᳚ । पृ॒थुम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

स इन्द्रो जज्ञान एव। जनी प्रादुर्भावे। छान्दसस्य लिटः कानच्। जायमान एव स्पृधः शत्रून्व्यबाध अत्यर्थमपीडयत्। स्पृधः। स्पर्ध सङ्ग्जर्षे। क्विप्। अपस्पृधेथामिति निपातनेनैकत्र सम्प्रसारणदर्शनादत्रापि भवति। अत एव वीरः समर्थः स रणं सङ्ग्राममभिलक्ष्य पौंस्यमात्मीयम् बलं प्रापश्यत्। अस्यैतावद्बलमिति प्रकर्षेण पश्यति। जानाति। किञ्चाद्रिं मेघमवृश्चत्। वर्षनार्थमच्छिनत्। अनन्तरं सस्यदः। स्यन्दू प्रस्रवणे। क्विप्। शसि न लोपः। सह स्यन्दमाना आपोऽवसृजत्। अवाङ्मुखमस्रुजत्। निरगमयत्। तथा स पृथुं महान्तं नाकं द्युलोकं स्वपस्यया। सुप आत्मनः क्यच्। अप्रत्ययादिति स्त्रियामप्रत्ययः। शोभनकर्मच्छयास्तभ्नात्। निरुद्धमकरोत्। स्तम्भिः सौत्रौ धातुः॥४॥

10.113.5
आदिन्द्र᳚ः स॒त्रा तवि᳚षीरपत्यत॒ वरी᳚यो॒ द्यावा᳚पृथि॒वी अ᳚बाधत ।
अवा᳚भरद्धृषि॒तो वज्र᳚माय॒सं शेवं᳚ मि॒त्राय॒ वरु᳚णाय दा॒शुषे᳚ ॥
▶ पदपाठः (Word-by-word)
आत् । इन्द्रः᳚ । स॒त्रा । तवि᳚षीः । अ॒प॒त्य॒त॒ । वरी᳚यः । द्यावा᳚पृथि॒वी इति᳚ । अ॒बा॒ध॒त॒ ।
अव᳚ । अ॒भ॒र॒त् । धृ॒षि॒तः । वज्र᳚म् । आ॒य॒सम् । शेव᳚म् । मि॒त्राय᳚ । वरु᳚णाय । दा॒शुषे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

आदपि च स इन्द्रस्तविषीर्महतीः सेनाः सत्रा सहैवापत्यत। आगच्छत्। पद गतौ दैवादिकः। वर्णव्यत्ययः। यद्वा। पत्यत इत्यैश्वर्यकर्मा। सेनानामीष्टे। तासामीश्वरोऽभवदित्यर्थः। स एव द्यावापृथिवी द्यावापृथिव्यौ वरीयः। तृतीयायाः सुः। उरुतरेण महिम्नाबाधत। तयोरन्तस्थिताञ्शत्रूनवधीदित्यर्थः। धृषितः शत्रुवधे प्रगल्भः सन्नायसमयोमयं वज्रमवाभरत्। अधारयत्। किमर्थम् । मित्राय वरुणाय दाशुषे हविर्दत्तवते यज्वने च शेवं सुखं कर्तुम्॥५॥

10.113.6
इन्द्र॒स्यात्र॒ तवि᳚षीभ्यो विर॒प्शिन᳚ ऋघाय॒तो अ᳚रंहयन्त म॒न्यवे᳚ ।
वृ॒त्रं यदु॒ग्रो व्यवृ᳚श्च॒दोज᳚सा॒पो बिभ्र᳚तं॒ तम᳚सा॒ परी᳚वृतम् ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚स्य । अत्र᳚ । तवि᳚षीभ्यः । वि॒॑र॒प्शिनः᳚ । ऋ॒घा॒य॒तः । अ॒रं॒ह॒य॒न्त॒ । म॒न्यवे᳚ ।
वृ॒त्रम् । यत् । उ॒ग्रः । वि । अवृ᳚श्चत् । ओज᳚सा । अ॒पः । बिभ्र᳚तम् । तम᳚सा । परि᳚॑वृतम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्रास्मिन्काल एव विरप्शिनो महतो विविधं शब्दायमानस्य वर्धायतः शत्रून्हिंसत इन्द्रस्य तविषीभ्यः। षष्ठ्यर्थे चतुर्थी। बलानां मन्यवे प्रख्यापनायारहयन्त। आपो निरगच्छन्। रहिर्गत्यर्थः। उग्र उद्गूर्णः सोऽप उदकानि बिभ्रतं धारयन्तं तमसा परीवृतं परितो वेष्टितम्। वृणोतेः कर्मणि क्तः। गतिरनन्तर इति स्वरः। संहितायामुपसर्गस्य घञि। पा. ६-२-१२२। इति दीर्घः। तं वृत्रं यद्यस्मिन्काल ओजसा स्ववीर्येण व्यवृष्चत् अत्यर्थमवधीत्॥६॥

10.113.7
या वी॒र्या᳚णि प्रथ॒मानि॒ कर्त्वा᳚ महि॒त्वेभि॒र्यत᳚मानौ समी॒यतु᳚ः ।
ध्वा॒न्तं तमो॑व᳚ दध्वसे ह॒त इन्द्रो᳚ म॒ह्ना पू॒र्वहू᳚तावपत्यत ॥
▶ पदपाठः (Word-by-word)
या । वी॒र्या᳚णि । प्र॒थ॒मानि᳚ । कर्त्वा᳚ । म॒हि॒॑त्वेभिः᳚ । यत᳚मानौ । स॒म्॑ई॒यतुः᳚ ।
ध्वा॒न्तम् । तमः᳚ । अव᳚ । द॒ध्व॒से॒ । ह॒तः । इन्द्रः᳚ । म॒ह्ना । पू॒र्व॑हू᳚तौ । अ॒प॒त्य॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

महित्वेभिर्महंहनीयैः स्वबलैर्यतमानौ युद्धाय प्रयत्नं कुर्वन्ताविन्द्रवृत्रौ प्रथमानि पूर्वभावीनि कर्त्वा। कृत्यार्थे त्वन्प्रत्ययः। कर्तव्यानि यानि वीर्याणि समीयतुः संयोजयामासतुः। इण् गतौ। लिटि दीर्घ इणः कितिति दीर्घः। तयोर्मध्य इन्द्रेण वृत्रे हते सति ध्वान्तमतिनिबिडं तमोऽव दढ्वसे। अवध्वस्तं विनष्टमभुत्। ध्वंसेर्लिट्। कित्त्वान्नलोपः। इन्द्रस्तु मह्ना स्वमहिम्ना पूर्वहूतौ प्रथमाह्वानेऽपश्यत। आगच्छत्। शूराणां मध्येऽयमेव प्रथममाहूयमानोऽभवदित्यर्थः॥७॥

10.113.8
विश्वे᳚ दे॒वासो॒ अध॒ वृष्ण्या᳚नि॒ ते॑व᳚र्धय॒न्त्सोम᳚वत्या वच॒स्यया᳚ ।
र॒द्धं वृ॒त्रमहि॒मिन्द्र᳚स्य॒ हन्म᳚ना॒ग्निर्न जम्भै᳚स्तृ॒ष्वन्न᳚मावयत् ॥
▶ पदपाठः (Word-by-word)
विश्वे᳚ । दे॒वासः᳚ । अध᳚ । वृष्ण्या᳚नि । ते॒ । अव᳚र्धयन् । सोम᳚॑वत्या । व॒च॒स्यया᳚ ।
र॒द्धम् । वृ॒त्रम् । अहि᳚म् । इन्द्र᳚स्य । हन्म᳚ना । अ॒ग्निः । न । जम्भैः᳚ । तृ॒षु । अन्न᳚म् । आ॒व॒य॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र अध वृत्रहननानन्तरं विश्वे देवासो देवा ऋत्विजः सोमवत्या सोमयुक्तया वचस्यया स्तुतीच्छया ते त्वदीयानि वृष्ण्यानि बलान्यवर्धयन्। वर्धयन्ति। इन्द्रस्य हन्मना हननसाधनेन वज्रेन रद्धम्। रध हिंसासंराद्ध्योः। हिंसितमहिं वृत्रमपामावरकं मेघं तृषु शीघ्रमन्नमावयत्। अभक्षयत्। तज्जन्येनोदकेन सम्पादितमन्नं जनोऽभक्षयदित्यर्थः। आवयतिरत्तिकर्मा। तत्र दृष्टान्तः। अग्निर्न यथाग्निर्जम्भैरात्मीयैर्दन्तैरन्नं भक्षयति तद्वत्॥८॥

10.113.9
भूरि॒ दक्षे᳚भिर्वच॒नेभि॒रृक्व᳚भिः स॒ख्येभि᳚ः स॒ख्यानि॒ प्र वो᳚चत ।
इन्द्रो॒ धुनिं᳚ च॒ चुमु᳚रिं च द॒म्भय᳚ञ्छ्रद्धामन॒स्या शृ᳚णुते द॒भीत᳚ये ॥
▶ पदपाठः (Word-by-word)
भूरि᳚ । दक्षे᳚भिः । व॒च॒नेभिः᳚ । ऋक्व᳚॑भिः । स॒ख्येभिः᳚ । स॒ख्यानि᳚ । प्र । वो॒च॒त॒ ।
इन्द्रः᳚ । धुनि᳚म् । च॒ । चुमु᳚रिम् । च॒ । द॒म्भय᳚न् । श्र॒द्धा॒॑म॒न॒स्या । शृ॒णु॒ते॒ । द॒भीत᳚ये ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे स्तोतारः दक्षेभिर्वर्धनहेतुभिरृक्वभिः। छन्दसीवनिपाविति वनिप्प्रत्ययः। अयस्मयादित्वेन भत्वाज्जश्त्वाभावः। पदत्वात्कुत्वम्। का. १-४-२०। मन्त्रयुक्तैः सख्येभिः। तदर्हतीत्यर्थे छन्दसि चेति यत्प्रत्ययः। सख्युरिन्द्रस्य योग्यैर्वचनेभिर्वचनैः स्तोत्रैः सख्यानि स्तुत्यस्तोतृलक्षणान्यभिलक्ष्य भूरि बहुवारमिन्द्रं प्रवोचत। प्रब्रूत। अभिष्टुत। इन्द्रस्तु दभीतय एतन्नामकाय राजर्षये धुनिं च चुमुरिं चैतन्नामकौ द्वावसुरौ दम्भयन् हिंसञ्श्रद्धामनस्या। मनः शब्दात्क्यच्। श्रद्धयुक्तया मनस इच्छया शृणुते। युश्माभिः कृतानि स्तोत्राणि शृणोति॥९॥

10.113.10
त्वं पु॒रूण्या भ᳚रा॒ स्वश्व्या॒ येभि॒र्मंसै᳚ नि॒वच᳚नानि॒ शंस᳚न् ।
सु॒गेभि॒र्विश्वा᳚ दुरि॒ता त᳚रेम वि॒दो षु ण᳚ उर्वि॒या गा॒धम॒द्य ॥
▶ पदपाठः (Word-by-word)
त्वम् । पु॒रूणि᳚ । आ । भ॒र॒ । सु॒॑अश्व्या᳚ । येभिः᳚ । मंसै᳚ । नि॒॑वच᳚नानि । शंस᳚न् ।
सु॒॑गेभिः᳚ । विश्वा᳚ । दुः॒॑इ॒ता । त॒रे॒म॒ । वि॒दो इति᳚ । सु । नः॒ । उ॒र्वि॒या । गा॒धम् । अ॒द्य ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं स्वश्व्या स्वश्व्यानि शोभनाश्वयुक्तानि पुरूणि बहूनि धनानि मह्यमा भर। आहर। प्रयच्छ। निवचनानि नितरां वक्तव्यानि स्तोत्राणि शंसन्नहं येभिर्धनैरम्ंसै। मन्यतिरर्चतिकर्मा। देवान्पूजयानि तानि देहि। मन्यतेर्लेटि बहुलं छन्दसीति विकरणस्य लुक्। सिप्यडागमः। सिपः पित्त्वेनानुदात्तत्वाद्धातुस्वरः। सुगेभिः सुष्थु गन्तव्यस्तैर्धनैः स्तोत्रैर्वा विश्वा सर्वाणि दुरिता दुरितानि पापानि तरेम। हे इन्द्र अद्यास्मिन्कर्मणि गाधं ग्रथ्यमानं क्रियमाणं नोऽस्मदीयं स्तोत्रमुर्वियोरुत्वेन बहुमानेन सु सुष्ठु विदो। विद उ। जानीह्येव॥१०॥