श्रवणम्

10.113.9
भूरि॒ दक्षे᳚भिर्वच॒नेभि॒रृक्व᳚भिः स॒ख्येभि᳚ः स॒ख्यानि॒ प्र वो᳚चत ।
इन्द्रो॒ धुनिं᳚ च॒ चुमु᳚रिं च द॒म्भय᳚ञ्छ्रद्धामन॒स्या शृ᳚णुते द॒भीत᳚ये ॥
▶ पदपाठः (Word-by-word)
भूरि᳚ । दक्षे᳚भिः । व॒च॒नेभिः᳚ । ऋक्व᳚॑भिः । स॒ख्येभिः᳚ । स॒ख्यानि᳚ । प्र । वो॒च॒त॒ ।
इन्द्रः᳚ । धुनि᳚म् । च॒ । चुमु᳚रिम् । च॒ । द॒म्भय᳚न् । श्र॒द्धा॒॑म॒न॒स्या । शृ॒णु॒ते॒ । द॒भीत᳚ये ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे स्तोतारः दक्षेभिर्वर्धनहेतुभिरृक्वभिः। छन्दसीवनिपाविति वनिप्प्रत्ययः। अयस्मयादित्वेन भत्वाज्जश्त्वाभावः। पदत्वात्कुत्वम्। का. १-४-२०। मन्त्रयुक्तैः सख्येभिः। तदर्हतीत्यर्थे छन्दसि चेति यत्प्रत्ययः। सख्युरिन्द्रस्य योग्यैर्वचनेभिर्वचनैः स्तोत्रैः सख्यानि स्तुत्यस्तोतृलक्षणान्यभिलक्ष्य भूरि बहुवारमिन्द्रं प्रवोचत। प्रब्रूत। अभिष्टुत। इन्द्रस्तु दभीतय एतन्नामकाय राजर्षये धुनिं च चुमुरिं चैतन्नामकौ द्वावसुरौ दम्भयन् हिंसञ्श्रद्धामनस्या। मनः शब्दात्क्यच्। श्रद्धयुक्तया मनस इच्छया शृणुते। युश्माभिः कृतानि स्तोत्राणि शृणोति॥९॥