आदिन्द्र᳚ः स॒त्रा तवि᳚षीरपत्यत॒ वरी᳚यो॒ द्यावा᳚पृथि॒वी अ᳚बाधत ।
अवा᳚भरद्धृषि॒तो वज्र᳚माय॒सं शेवं᳚ मि॒त्राय॒ वरु᳚णाय दा॒शुषे᳚ ॥
अवा᳚भरद्धृषि॒तो वज्र᳚माय॒सं शेवं᳚ मि॒त्राय॒ वरु᳚णाय दा॒शुषे᳚ ॥
पदपाठः (Word-by-word)
आत् । इन्द्रः᳚ । स॒त्रा । तवि᳚षीः । अ॒प॒त्य॒त॒ । वरी᳚यः । द्यावा᳚पृथि॒वी इति᳚ । अ॒बा॒ध॒त॒ ।
अव᳚ । अ॒भ॒र॒त् । धृ॒षि॒तः । वज्र᳚म् । आ॒य॒सम् । शेव᳚म् । मि॒त्राय᳚ । वरु᳚णाय । दा॒शुषे᳚ ॥
अव᳚ । अ॒भ॒र॒त् । धृ॒षि॒तः । वज्र᳚म् । आ॒य॒सम् । शेव᳚म् । मि॒त्राय᳚ । वरु᳚णाय । दा॒शुषे᳚ ॥
सायणभाष्यम् (Sayana Commentary)
आदपि च स इन्द्रस्तविषीर्महतीः सेनाः सत्रा सहैवापत्यत। आगच्छत्। पद गतौ दैवादिकः। वर्णव्यत्ययः। यद्वा। पत्यत इत्यैश्वर्यकर्मा। सेनानामीष्टे। तासामीश्वरोऽभवदित्यर्थः। स एव द्यावापृथिवी द्यावापृथिव्यौ वरीयः। तृतीयायाः सुः। उरुतरेण महिम्नाबाधत। तयोरन्तस्थिताञ्शत्रूनवधीदित्यर्थः। धृषितः शत्रुवधे प्रगल्भः सन्नायसमयोमयं वज्रमवाभरत्। अधारयत्। किमर्थम् । मित्राय वरुणाय दाशुषे हविर्दत्तवते यज्वने च शेवं सुखं कर्तुम्॥५॥