दशमं मण्डलम् - सूक्तम् 37

12 ऋचः

ऋषिः: अभितपाः सौर्यः देवता: सूर्यः छन्दः: जगती

सूक्तम् 10.37 - सम्पूर्णम्

1 / 12
ऋक्: 10.37.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (12)
10.37.1
नमो᳚ मि॒त्रस्य॒ वरु᳚णस्य॒ चक्ष᳚से म॒हो दे॒वाय॒ तदृ॒तं स᳚पर्यत ।
दू॒रे॒दृशे᳚ दे॒वजा᳚ताय के॒तवे᳚ दि॒वस्पु॒त्राय॒ सूर्या᳚य शंसत ॥
▶ पदपाठः (Word-by-word)
नमः᳚ । मि॒त्रस्य᳚ । वरु᳚णस्य । चक्ष᳚से । म॒हः । दे॒वाय᳚ । तत् । ऋ॒तम् । स॒प॒र्य॒त॒ ।
दू॒रे॒॑दृशे᳚ । दे॒व॑जा᳚ताय । के॒तवे᳚ । दि॒वः । पु॒त्राय᳚ । सूर्या᳚य । शं॒स॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋत्विजोयूयं मित्रस्य वरुणस्य मित्रावरुणयोश्चक्षसे द्रष्ट्रे महोमहते देवाय द्योतमा- नाय दूरेदृशे दूरेसंतमपि पश्यते देवजाताय देवेषु जाताय देवार्थं उत्पन्नाय केतवे विश्वस्य प्रज्ञापकाथ दिवः पुत्राय पुत्रभूताय दिविजायमानत्वात् तत्पुत्रत्वव्यपदेशः सूर्याय सूर्यार्थं नमः कृत्वा तद्विहितं ऋतं यागादिलक्षणं कर्म सपर्यत पूजयत शंसत स्तुतिमपि कुरुत ॥ १ ॥

10.37.2 समानपद
सा मा᳚ स॒त्योक्ति॒ः परि᳚ पातु वि॒श्वतो॒ द्यावा᳚ च॒ यत्र᳚ त॒तन॒न्नहा᳚नि च ।
विश्व᳚म॒न्यन्नि वि᳚शते॒ यदेज᳚ति वि॒श्वाहापो᳚ वि॒श्वाहोदे᳚ति॒ सूर्य᳚ः ॥
▶ पदपाठः (Word-by-word)
सा । मा॒ । स॒त्य॑उ᳚क्तिः । परि᳚ । पा॒तु॒ । वि॒श्वतः᳚ । द्यावा᳚ । च॒ । यत्र᳚ । त॒तन᳚न् । अहा᳚नि । च॒ ।
विश्व᳚म् । अ॒न्यत् । नि । वि॒श॒ते॒ । यत् । एज᳚ति । वि॒श्वाहा᳚ । आपः᳚ । वि॒श्वाहा᳚ । उत् । ए॒ति॒ । सूर्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सा सत्योक्तिः तत्सत्यवचनं मा मां विश्वतः सर्वतः परिपातु परिरक्षतु । यया सत्यो क्त्या यत्र यस्मिन् देशे द्यावाच द्यावापृथिव्यावहानि रात्रयश्च ततनन् अतन्वन् तत्र वि- श्वं सर्वमन्यत् भूतजातं निविशते विश्राम्यति यदेतद्भूतजातमेजति कंपते विश्वाहा सर्वदा आपश्च स्यंदते विश्वाहा सर्वदा सूर्यश्चोदेति सा सत्योक्तिर्मा परिपात्वित्यर्थः ॥ २ ॥

10.37.3 समानपद
न ते॒ अदे᳚वः प्र॒दिवो॒ नि वा᳚सते॒ यदे᳚त॒शेभि᳚ः पत॒रै र᳚थ॒र्यसि᳚ ।
प्रा॒चीन᳚म॒न्यदनु᳚ वर्तते॒ रज॒ उद॒न्येन॒ ज्योति᳚षा यासि सूर्य ॥
▶ पदपाठः (Word-by-word)
न । ते॒ । अदे᳚वः । प्र॒॑दिवः᳚ । नि । वा॒स॒ते॒ । यत् । ए॒त॒शेभिः᳚ । प॒त॒रैः । र॒थ॒र्यसि᳚ ।
प्रा॒चीन᳚म् । अ॒न्यत् । अनु᳚ । व॒र्त॒ते॒ । रजः᳚ । उत् । अ॒न्येन᳚ । ज्योति᳚षा । या॒सि॒ । सू॒र्य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सूर्य ते तव समीपे प्रदिवः प्रत्नः पुरातनः कश्चिददेवोसुरोराक्षसोवा न निवासते न निवसति । कदेत्यतआह यद्यदा त्वं पतरैर्गमनशीलैरेतशेभिः अश्वैः रथर्यसि रथं कामयसे योक्तुम् । किंच प्राचीनमन्यत् त्वदीयं ज्योतिः रजउदकमनुवर्तते उन्येन तेन ज्योतिषा उद्या सि उदेषि । यद्वा प्राचीनमन्यद्रजश्चंद्राख्यं ज्योतिस्त्वामनुवर्तते ततस्त्वमन्येन ज्योतिषा स- होदेषीत्यर्थः ॥ ३ ॥

10.37.4 समानपद
येन᳚ सूर्य॒ ज्योति᳚षा॒ बाध᳚से॒ तमो॒ जग᳚च्च॒ विश्व᳚मुदि॒यर्षि᳚ भा॒नुना᳚ ।
तेना॒स्मद्विश्वा॒मनि᳚रा॒मना᳚हुति॒मपामी᳚वा॒मप᳚ दु॒ष्ष्वप्न्यं᳚ सुव ॥
▶ पदपाठः (Word-by-word)
येन᳚ । सू॒र्य॒ । ज्योति᳚षा । बाध᳚से । तमः᳚ । जग᳚त् । च॒ । विश्व᳚म् । उ॒त्॑इ॒यर्षि᳚ । भा॒नुना᳚ ।
तेन᳚ । अ॒स्मत् । विश्वा᳚म् । अनि᳚राम् । अना᳚हुतिम् । अप᳚ । अमी᳚वाम् । अप᳚ । दुः॒॑स्वप्न्य᳚म् । सु॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सूर्य त्वं येन ज्योतिषा तेजसा तमोधकारं बाधसे निवारयसि येन च भानुना ते- जसा विश्वं सर्वं जगज्जंगमनुदियर्षि उद्गमयसि तेन ज्योतिषास्म्दस्मत्तोविश्वां सर्वामनिरां अन्नाभावं अनाहुतिं अहोमं चामीवां रोगजातं चापसुव अपगमय दूःस्वप्न्यं दुःस्वप्नप्रभव- मरिष्टं चापसुव ॥ ४ ॥

10.37.5
विश्व᳚स्य॒ हि प्रेषि᳚तो॒ रक्ष᳚सि व्र॒तमहे᳚ळयन्नु॒च्चर᳚सि स्व॒धा अनु᳚ ।
यद॒द्य त्वा᳚ सूर्योप॒ब्रवा᳚महै॒ तं नो᳚ दे॒वा अनु᳚ मंसीरत॒ क्रतु᳚म् ॥
▶ पदपाठः (Word-by-word)
विश्व᳚स्य । हि । प्र॑इ᳚षितः । रक्ष᳚सि । व्र॒तम् । अहे᳚ळयन् । उ॒त्॑चर᳚सि । स्व॒धाः । अनु᳚ ।
यत् । अ॒द्य । त्वा॒ । सू॒र्य॒ । उ॒प॒॑ब्रवा᳚महै । तत् । नः॒ । दे॒वाः । अनु᳚ । मं॒सी॒र॒त॒ । क्रतु᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सूर्य प्रेषितः प्रेरितः त्वमहेळयन् अक्रुध्यन् विश्वस्य सर्वस्य यजमानस्य व्रतं कर्म रक्षसि हि यज्ञविध्वंसकेभ्योराक्षसेभ्यः पालयसि । स्वधाहवींष्यनु उच्चरसि उद्गच्छसिच प्रातहोमे निवृत्ते सति पश्चादुद्गच्छसीत्यर्थः । तथाच यद्यदाद्यास्मिन्नहनि त्वा त्वां उपब्र- वामहै उपब्रूमः तदानोस्माकं तं क्रतुं तत्कर्म देवाइंद्रादयोनुमंसीरत अनुमन्यंतां ॥ ५ ॥

10.37.6
तं नो॒ द्यावा᳚पृथि॒वी तन्न॒ आप॒ इन्द्र᳚ः शृण्वन्तु म॒रुतो॒ हवं॒ वचः᳚ ।
मा शूने᳚ भूम॒ सूर्य᳚स्य सं॒दृशि᳚ भ॒द्रं जीव᳚न्तो जर॒णाम᳚शीमहि ॥
▶ पदपाठः (Word-by-word)
तम् । नः॒ । द्यावा᳚पृथि॒वी इति᳚ । तत् । नः॒ । आपः᳚ । इन्द्रः᳚ । शृ॒ण्व॒न्तु॒ । म॒रुतः᳚ । हव᳚म् । वचः᳚ ।
मा । शूने᳚ । भू॒म॒ । सूर्य᳚स्य । स॒म्॑दृशि᳚ । भ॒द्रम् । जीव᳚न्तः । ज॒र॒णाम् । अ॒शी॒म॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

द्यावापृथिवी द्यावापृथिव्यौ आपश्च इंद्रश्च मरुतश्च नोस्माकं तं हवमाह्वानं नोस्माकं तद्वचः स्तुतिरूपं वाक्यं च नइतिद्विरुक्तिरादरार्था शृण्वंतु । किंच वयं सूर्यस्य संदृशि संद र्शने शूने प्रवृद्धाय दुःखाय माभूम मैव भवेम किंतु जीवंतः चिरं प्राणान् धारयंतोवयं भद्रं कल्याणं जरणां वृद्धत्वममरत्वं चाशीमहि प्राप्नुयाम ॥ ६ ॥

10.37.7
वि॒श्वाहा᳚ त्वा सु॒मन᳚सः सु॒चक्ष᳚सः प्र॒जाव᳚न्तो अनमी॒वा अना᳚गसः ।
उ॒द्यन्तं᳚ त्वा मित्रमहो दि॒वेदि᳚वे॒ ज्योग्जी॒वाः प्रति᳚ पश्येम सूर्य ॥
▶ पदपाठः (Word-by-word)
वि॒श्वाहा᳚ । त्वा॒ । सु॒॑मन᳚सः । सु॒॑चक्ष᳚सः । प्र॒जा॑व᳚न्तः । अ॒न॒मी॒वाः । अना᳚गसः ।
उ॒त्॑यन्त᳚म् । त्वा॒ । मि॒त्र॒॑म॒हः॒ । दि॒वे॑दि᳚वे । ज्योक् । जी॒वाः । प्रति᳚ । प॒श्ये॒म॒ । सू॒र्य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सूर्य त्वा त्वां सुमनसः प्रीतियुक्तमनस्काः सुचक्षसः सुदर्शनाः प्रजावंतः पुत्राद्युपेताः अनमीवाः रोगरहिताः अनागसः अपराधवर्जिताश्च वयं विश्वाहा सर्वदा यजेमेति शॆषः । किंच हे मित्रमहः मित्राणां पूजयितः सूर्य दिवेदिवे प्रतिदिनं अद्यंतमुदयं प्राप्नुवंतं त्वा त्वां ज्योक् चिरं जीवा जीवंतोवयं प्रतिपश्येम ॥ ७ ॥

10.37.8
महि॒ ज्योति॒र्बिभ्र᳚तं त्वा विचक्षण॒ भास्व᳚न्तं॒ चक्षु᳚षेचक्षुषे॒ मयः᳚ ।
आ॒रोह᳚न्तं बृह॒तः पाज᳚स॒स्परि᳚ व॒यं जी॒वाः प्रति᳚ पश्येम सूर्य ॥
▶ पदपाठः (Word-by-word)
महि᳚ । ज्योतिः᳚ । बिभ्र᳚तम् । त्वा॒ । वि॒॑च॒क्ष॒ण॒ । भास्व᳚न्तम् । चक्षु᳚षे॑चक्षुषे । मयः᳚ ।
आ॒॑रोह᳚न्तम् । बृ॒ह॒तः । पाज᳚सः । परि᳚ । व॒यम् । जी॒वाः । प्रति᳚ । प॒श्ये॒म॒ । सू॒र्य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे विचक्षण विद्रष्टः सूर्य महि महत् ज्योतिस्तेजोबिभ्रतं धारयंतं भास्वंतं दीप्तिमंतं चक्षुषेचक्षुषे सर्वेषां द्रष्टृणां चक्षुषे मयः सुखकरं बृहतोमहतः पाजसोबलवतः परि महतो बलवतः सामुद्रस्योदकस्योपरीत्यर्थः । आरोहंतं त्वा त्वां जीवाश्चिरं जीवंतोवयं प्रति प्रति दिनं पश्येम ॥ ८ ॥

10.37.9
यस्य᳚ ते॒ विश्वा॒ भुव᳚नानि के॒तुना॒ प्र चेर᳚ते॒ नि च᳚ वि॒शन्ते᳚ अ॒क्तुभि᳚ः ।
अ॒ना॒गा॒स्त्वेन᳚ हरिकेश सू॒र्याह्ना᳚ह्ना नो॒ वस्य᳚सावस्य॒सोदि᳚हि ॥
▶ पदपाठः (Word-by-word)
यस्य᳚ । ते॒ । विश्वा᳚ । भुव᳚नानि । के॒तुना᳚ । प्र । च॒ । ईर᳚ते । नि । च॒ । वि॒शन्ते᳚ । अ॒क्तु॑भिः᳚ ।
अ॒ना॒गाः॒॑त्वेन᳚ । ह॒रि॒॑के॒श॒ । सू॒र्य॒ । अह्ना᳚॑अह्ना । नः॒ । वस्य᳚सा॑वस्यसा । उत् । इ॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे हरिकेश हरितवर्णकेश सूर्य यस्य ते तव केतुना प्रज्ञानेन विश्वा विश्वानि भुवना- नि भूतजातानि प्रचेरते प्रकर्षेण गच्छंति अक्तुभिः रात्रिभिः निविशंते च विश्राम्यंति च स्वपंतीत्यर्थः । सत्वं नोस्माकं अनागास्त्वेन अपराधवर्जितत्वेन वस्यसावस्यसा अत्यंतश्रेय स्करेण वसुमत्तरेण वा अह्नाह्ना तेनतेन दिवसेनोदिहि उद्गच्छ ॥ ९ ॥

10.37.10
शं नो᳚ भव॒ चक्ष᳚सा॒ शं नो॒ अह्ना॒ शं भा॒नुना॒ शं हि॒मा शं घृ॒णेन᳚ ।
यथा॒ शमध्व॒ञ्छमस᳚द्दुरो॒णे तत्सू᳚र्य॒ द्रवि᳚णं धेहि चि॒त्रम् ॥
▶ पदपाठः (Word-by-word)
शम् । नः॒ । भ॒व॒ । चक्ष᳚सा । सम् । नः॒ । अह्ना᳚ । शम् । भा॒नुना᳚ । शम् । हि॒माः । शम् । घृ॒णेन᳚ ।
यथा᳚ । शम् । अध्व᳚न् । शम् । अस᳚त् । दु॒रो॒णे । तत् । सू॒र्य॒ । द्रवि᳚णम् । धे॒हि॒ । चि॒त्रम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सूर्य त्वं चक्षसा तेजसा नोस्माकं शं सुखकरोभव अह्ना दिवमेश शं सुखकरोनो- स्माकं भव भानुना रश्मिना च शं भवास्माकं सुखकरोभव । हिमा शैत्येन च शं भव घृणेन औष्णयेन च शंकरोभव । यथा यादृशेन नोस्माकमध्वन् अध्वनि मार्गे शं भवति दुरोणे गृहे च शं सुखमसद्भवति तच्चित्रं पूजनीयं द्रविणं धनं धेह्यस्मभ्यं प्रयच्छ ॥ १० ॥

10.37.11
अ॒स्माकं᳚ देवा उ॒भया᳚य॒ जन्म᳚ने॒ शर्म᳚ यच्छत द्वि॒पदे॒ चतु᳚ष्पदे ।
अ॒दत्पिब᳚दू॒र्जय᳚मान॒माशि᳚तं॒ तद॒स्मे शं योर᳚र॒पो द᳚धातन ॥
▶ पदपाठः (Word-by-word)
अ॒स्माक᳚म् । दे॒वाः॒ । उ॒भया᳚य । जन्म᳚ने । शर्म᳚ । य॒च्छ॒त॒ । द्वि॒॑पदे᳚ । चतुः᳚॑पदे ।
अ॒दत् । पिब᳚त् । ऊ॒र्जय᳚मानम् । आशि᳚तम् । तत् । अ॒स्मे इति᳚ । शम् । योः । अ॒र॒पः । द॒धा॒त॒न॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देवाः सूर्येणाभ्यनुज्ञातायूयमस्माकं द्विपदे मनुष्यात्मकाय चतुष्पदे पश्वात्मकाय चो भयाय उभयविधाय जन्मने भूतजाताय शर्मं सुखं यच्छत दत्त । किञ्च यथास्मत्पुत्रादिकं अदत् भक्षणीयं भक्षयत् पिबत् पानीयं पिबच्च ऊर्जयमानं बलवंतमिवात्मानमाचरदाशितं सुहितं च भवति तथा अस्मे अस्माकं तत् शं रोगशांतिनिमित्तकं सुखं योर्विषययोगज- नितं सुखं च अरपः अपापं च दधातन प्रयच्छत ॥ ११ ॥

10.37.12
यद्वो᳚ देवाश्चकृ॒म जि॒ह्वया᳚ गु॒रु मन᳚सो वा॒ प्रयु᳚ती देव॒हेळ᳚नम् ।
अरा᳚वा॒ यो नो᳚ अ॒भि दु᳚च्छुना॒यते॒ तस्मि॒न्तदेनो᳚ वसवो॒ नि धे᳚तन ॥
▶ पदपाठः (Word-by-word)
यत् । वः॒ । दे॒वाः॒ । च॒कृ॒म । जि॒ह्वया᳚ । गु॒रु । मन᳚सः । वा॒ । प्र॑यु᳚ती । दे॒व॒॑हेळ᳚नम् ।
अरा᳚वा । यः । नः॒ । अ॒भि । दु॒च्छु॒न॒॑यते᳚ । तस्मि᳚न् । तत् । एनः᳚ । व॒स॒वः॒ । नि । धे॒त॒न॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वसवोवासयितारोदेवाः वोयुष्माकं वयं जिह्वया वाचा मनसः प्रयुती प्रयुत्या प्र- योगेण उरु महद्देवहेळनं देवक्रोधनं च यदेनश्चकृम अकार्ष्म योस्मच्छत्रुर्नोस्मानभिप्रति अरावा गमनवान् भूत्वादुच्छुनायते पापान्याचरति अस्मानुद्वेजयति वा तस्मिन्नस्मच्छत्रौ तदेनोस्माभिः कृतं पापं निधेतन सूर्यस्याज्ञया निधत्त स्थापयतेत्यर्थः ॥ १२ ॥

अस्मिन्नइति पञ्चर्चं नवमं सूक्तं जागतमैंद्रं मुष्कविशिष्टइंद्राख्यऋषिः । तथाचानुक्रांतं- अस्मिन्नः पञ्चमुष्कवानिंद्रइति । गतोविनियोगः । अपरे तु तांड्यशाट्यायनकाअस्य सूक्तस्य मुष्कवानिंद्रोदेवता लुशऋषिरितिवर्णयंति ।