दशमं मण्डलम् - सूक्तम् 188

3 ऋचः

ऋषिः: श्येन आग्नेयः देवता: अग्निर्जातवेदाः छन्दः: गायत्री

सूक्तम् 10.188 - सम्पूर्णम्

1 / 3
ऋक्: 10.188.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (3)
10.188.1
प्र नू॒नं जा॒तवे᳚दस॒मश्वं᳚ हिनोत वा॒जिन᳚म् ।
इ॒दं नो᳚ ब॒र्हिरा॒सदे᳚ ॥
▶ पदपाठः (Word-by-word)
प्र । नू॒नम् । जा॒त॑वे᳚दसम् । अश्व᳚म् । हि॒नो॒त॒ । वा॒जिन᳚म् ।
इ॒दम् । नः॒ । ब॒र्हिः । आ॒॑सदे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्र नूनमिति तृचं सप्तत्रिंशं सूक्तम्। अग्निपुत्रस्य श्येनस्यार्षं गायत्रं जातवेदोगुणकोऽग्निर्देवता। तथा चानुक्रान्तम्। प्र नूनं तृचमाग्नेयः श्येनो जातवेदस्यमिति। प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः॥

जातवेदसं जातानां वेदितारं जातधनादिकं वाश्वं कर्मभिर्व्याप्नुवन्तं वाजिनमन्नवन्तं हे ऋत्विग्यजमानाः नूनमवश्यं प्र हिनोत। प्रवर्धयत। यद्वा। अश्वमिव स्तुतिभिः प्रेरयत। हि गतौ वृद्धौ च। अस्माल्लोटि तशब्दस्य तप्तनप्तनथनाश्चेति तबादेशः। किमर्थम्। नोऽस्माकमिदं बर्हिरास्तीर्णमासद आसत्तुं प्राप्तुम्। बर्हिरासीदत्वित्यर्थः। सदेः कृत्यार्थे तवैकेनिति केन्प्रत्ययः॥१॥

10.188.2
अ॒स्य प्र जा॒तवे᳚दसो॒ विप्र᳚वीरस्य मी॒ळ्हुषः᳚ ।
म॒हीमि᳚यर्मि सुष्टु॒तिम् ॥
▶ पदपाठः (Word-by-word)
अ॒स्य । प्र । जा॒त॑वे᳚दसः । विप्र᳚॑वीरस्य । मी॒ळ्हुषः᳚ ।
म॒हीम् । इ॒य॒र्मि॒ । सु॒॑स्तु॒तिम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

जातवेदसो जातानां वेदितुर्विप्रवीरस्य। विप्रा मेधाविनो यजमानावीराः पुत्रा यस्य। तादृशस्य मीळ्हुषः सेक्तुरस्याग्नेर्महीं महतीं सुष्टुतिं शोभनां स्तुतिं प्रेयर्मि। प्रेरयामि। ऋ गतौ जौहोत्यादिकः। अर्तिपिपर्त्योश्चेत्यभ्यासस्येत्वम् ॥ २ ॥

10.188.3
या रुचो᳚ जा॒तवे᳚दसो देव॒त्रा ह᳚व्य॒वाह᳚नीः ।
ताभि᳚र्नो य॒ज्ञमि᳚न्वतु ॥
▶ पदपाठः (Word-by-word)
याः । रुचः᳚ । जा॒त॑वे᳚दसः । दे॒व॒॑त्रा । ह॒व्य॒॑वाह᳚नीः ।
ताभिः᳚ । नः॒ । य॒ज्ञम् । इ॒न्व॒तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

जातवेदसोऽग्नेर्या रुचो रोचमानाः कालीकरालीप्रभृतयः सप्तजिह्वा देवता देवान्प्रति। देवमनुष्यपुरुषपुरुमर्त्येभ्य इत्यादिना द्वितीयार्थे त्राप्रत्ययः। हव्यवाहनीर्हव्यानां हविषाम् वोढ्र्यः प्रापयित्र्यो भवन्ति। वा छन्दसीति जसि पूर्वसवर्णदीर्घः। ताभिर्जिह्वाभिर्नोऽस्माकं यज्ञं यागसाधनं हविरिन्वतु। देवान्प्रापयतु। इवि व्याप्तौ। इदित्त्वान्नुम्॥३॥