न यस्य᳚ ह॒न्यते॒ सखा॒ न जीय᳚ते॒ कदा᳚ च॒न ॥
पदपाठः (Word-by-word)
न । यस्य᳚ । ह॒न्यते᳚ । सखा᳚ । न । जीय᳚ते । कदा᳚ । च॒न ॥
सायणभाष्यम् (Sayana Commentary)
द्वादशेऽनुवाके चत्वारिंशत्सूक्तानि। तत्र शास इत्थेति पञ्चर्चं प्रथमं सूक्तं शासनाम्न आर्षमानुष्टुभमैन्द्रम्। अनुक्रान्तं च। शासह् शासो भारद्वाज इति। युद्धाय सन्नद्धं राजानमनेनेक्षेत। तथा च सूत्रितम्। अथैनमन्वीक्षेताप्रतिरथशाससौपर्णैः। आ. गृ. ३-१२-१३। इति॥
शासस्तत्संज्ञोऽहमित्थमनेन वक्श्यमाण् प्रकारेणेन्द्रं स्त्ॐईति शेषः। हे इन्द्र त्वं महा असि। सर्वेभ्योऽधिको भवसि। अमित्रखादोऽमित्राणां शत्रूणां खादिता विनाशयिता अत एवाद्भुत आश्चर्यभुतश्च भवसीति यस्येन्द्रस्य सखामित्रभूतः पुरुषः कदा चन कदाचिदपि न हन्यते न हिंस्यते न जीयते न च शत्रुभिः पराजितो भवति स त्वं महा असीत्यन्वयः॥१॥