श्रवणम्

10.152.3
वि रक्षो॒ वि मृधो᳚ जहि॒ वि वृ॒त्रस्य॒ हनू᳚ रुज ।
वि म॒न्युमि᳚न्द्र वृत्रहन्न॒मित्र᳚स्याभि॒दास᳚तः ॥
▶ पदपाठः (Word-by-word)
वि । रक्षः᳚ । वि । मृधः᳚ । ज॒हि॒ । वि । वृ॒त्रस्य᳚ । हनू॒ इति᳚ । रु॒ज॒ ।
वि । म॒न्युम् । इ॒न्द्र॒ । वृ॒त्र॒॑ह॒न् । अ॒मित्र᳚स्य । अ॒भि॒॑दास᳚तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र रक्षो राक्षसजातं वि जहि। विनाशय। मृधः सङ्ग्रामकारिणः शत्रूंश्च वि जहि। वृत्रस्यावरकस्यासुरस्य हनू कपोलप्रान्तौ वि रुज। विशेषेण भग्नौ कुरु। हे वृत्रहन्निन्द्र अभिदासतोऽस्मानुपक्शयतो मित्रस्य शत्रोर्मन्युं क्रोधमपि विनाशय॥३॥