स्व॒स्ति॒दा वि॒शस्पति᳚र्वृत्र॒हा वि᳚मृ॒धो व॒शी ।
वृषेन्द्र᳚ः पु॒र ए᳚तु नः सोम॒पा अ᳚भयंक॒रः ॥
वृषेन्द्र᳚ः पु॒र ए᳚तु नः सोम॒पा अ᳚भयंक॒रः ॥
पदपाठः (Word-by-word)
स्व॒स्ति॒॑दाः । वि॒शः । पतिः᳚ । वृ॒त्र॒॑हा । वि॒॑मृ॒धः । व॒शी ।
वृषा᳚ । इन्द्रः᳚ । पु॒रः । ए॒तु॒ । नः॒ । सो॒म॒॑पाः । अ॒भ॒य॒म्॑क॒रः ॥
वृषा᳚ । इन्द्रः᳚ । पु॒रः । ए॒तु॒ । नः॒ । सो॒म॒॑पाः । अ॒भ॒य॒म्॑क॒रः ॥
सायणभाष्यम् (Sayana Commentary)
स्वस्तिदाः स्वस्तेरविनाशस्य दाता विशस्पतिः सर्वस्याः प्रजायाः पालयिता वृत्रहा वृत्रानां शत्रूणां हन्ता विमृधः सङ्ग्रामकारी वशी वशीकर्ता वृषा वर्षिता कामानां सोमपाः सोमस्य पाता एवं विध इन्द्रोऽभयङ्करोऽभयस्य भयराहित्यस्य कर्ता सन्नोऽस्माकं पुर एतु। पुरतो गच्छातु॥२॥