अपे᳚न्द्र द्विष॒तो मनो॑प॒ जिज्या᳚सतो व॒धम् ।
वि म॒न्योः शर्म᳚ यच्छ॒ वरी᳚यो यवया व॒धम् ॥
वि म॒न्योः शर्म᳚ यच्छ॒ वरी᳚यो यवया व॒धम् ॥
पदपाठः (Word-by-word)
अप᳚ । इ॒न्द्र॒ । द्वि॒ष॒तः । मनः᳚ । अप᳚ । जिज्या᳚सतः । व॒धम् ।
वि । म॒न्योः । शर्म᳚ । य॒च्छ॒ । वरी᳚यः । य॒व॒य॒ । व॒धम् ॥
वि । म॒न्योः । शर्म᳚ । य॒च्छ॒ । वरी᳚यः । य॒व॒य॒ । व॒धम् ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र द्विषतो द्वेष्टुह् शत्रोर्मनोऽप जहि। जिज्यासतोऽस्माकं वयोहानिमिच्छतश्च वधं हननसाधनमायुधं चाप जहि। मन्योः शत्रुसम्बन्धिनः क्रोधाच्चास्मान्रक्ष। वरीय उरुतरं शर्म सुखं विशेषेन यच्छा। देहि। वधं शत्रुकृतम् हननं च यवय। अस्मत्तः पृथक्कुरु॥५॥