श्रवणम्

10.152.4
वि न᳚ इन्द्र॒ मृधो᳚ जहि नी॒चा य᳚च्छ पृतन्य॒तः ।
यो अ॒स्मा{4} अ᳚भि॒दास॒त्यध᳚रं गमया॒ तमः᳚ ॥
▶ पदपाठः (Word-by-word)
वि । नः॒ । इ॒न्द्र॒ । मृधः᳚ । ज॒हि॒ । नी॒चा । य॒च्छ॒ । पृ॒त॒न्य॒तः ।
यः । अ॒स्मान् । अ॒भि॒॑दास᳚ति । अध᳚रम् । ग॒म॒य॒ । तमः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वि न इन्द्रेति वैमृधस्य हविषोऽनुवाक्या। सूत्रितं च। वि न इन्द्र मृधो जहि मृगो न भीमः कुचरो गिरिष्थाः। आ. २-१०। इति॥

हे इन्द्र नोऽस्माकं मृधः सङ्ग्रामकारिणः शत्रून्वि जहि। विनाशय। तथा पृतन्यतः पृतनाः सेना आत्मन इच्छतो ययत्समानानपि नीचा यच्छ। नीचीनमवाङ्मुखं यच्छ। गमय। यः शत्रुरस्मानभिदासति अभित उपक्षयति तमधरं निकृष्टं तमोऽन्धकारं मरणलक्षणं गमय। प्रापय॥४॥