दशमं मण्डलम् - सूक्तम् 159

6 ऋचः

ऋषिः: शची पौलोमी देवता: शची पौलोमी छन्दः: अनुष्टुप्

सूक्तम् 10.159 - सम्पूर्णम्

1 / 6
ऋक्: 10.159.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
10.159.1
उद॒सौ सूर्यो᳚ अगा॒दुद॒यं मा᳚म॒को भगः᳚ ।
अ॒हं तद्वि᳚द्व॒ला पति᳚म॒भ्य᳚साक्षि विषास॒हिः ॥
▶ पदपाठः (Word-by-word)
उत् । अ॒सौ । सूर्यः᳚ । अ॒गा॒त् । उत् । अ॒यम् । मा॒म॒कः । भगः᳚ ।
अ॒हम् । तत् । वि॒द्व॒ला । पति᳚म् । अ॒भि । अ॒सा॒क्षि॒ । वि॒॑स॒स॒हिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

उदासाविति षडृचमष्टमं सूक्तमानुष्टुभम्। पुलोमतनया शची स्वात्मानमनेनास्तौत्। अतः सैवर्षिः सैव देवता। तथा चानुक्रान्तम्। उदसौ षट् पौलोमी शच्यात्मानं तुष्टावानुष्तुभमिति। विनियोगो लिङ्गादवगन्तव्यः। आपस्तम्बस्तु सपत्नीनाशने सूर्योपस्थान इदं सूक्तं विनियुक्तवान्। सूत्र्यते हि। एतेनैव कामेनोत्तरेणानुवाकेन सदादित्यमुपतिष्ठते। आप. गृ. ९-९। इति। अत्रैतेनेति प्रकृतं सपत्नीबाधनं परामृश्यते॥

असौ द्युलोकस्थः सूर्य उदगात्। उदयं प्राप्तवान्। मामको मदीयो भगो भजनीयोऽयमिन्द्रश्च सूर्यात्मनोदगात्। यद्वा। मामको भगो मदीयमिदं सौफाग्यमुदगात्। तदुद्यतं सूर्यस्य तेजो विद्वला ज्ञातवती यद्वा पतिं भर्तारं विद्वला लब्धवत्यहं विषासहिर्विशेषेणाभिभवित्री सत्यभ्यसाक्षि। अभ्यभूवम्। सपत्नीरिति शेषः। सहतेरभिभवार्थस्य लुङ्येतद्रूपम्। यद्वा। विषासहिः सपत्नीनामभिभवित्री सति पतिमभ्यसाक्षि। भर्तारमप्यभूवम्। यथा मय्येव वशीकृतश्चिरं वर्तते तथाकार्षमित्यर्थः॥१॥

10.159.2 समानपद
अ॒हं के॒तुर॒हं मू॒र्धाहमु॒ग्रा वि॒वाच᳚नी ।
ममेदनु॒ क्रतुं॒ पति᳚ः सेहा॒नाया᳚ उ॒पाच᳚रेत् ॥
▶ पदपाठः (Word-by-word)
अ॒हम् । के॒तुः । अ॒हम् । मू॒र्धा । अ॒हम् । उ॒ग्रा । वि॒॑वाच᳚नी ।
मम᳚ । इत् । अनु᳚ । क्रतु᳚म् । पतिः᳚ । से॒हा॒नायाः᳚ । उ॒प॒॑आच᳚रेत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अहम् केतुः केतयित्री सर्वस्य ज्ञात्री भवामि। अहं मूर्धा सर्वेष्ववयवेषु शिर इव प्रधानभूता च भवामि। अहमुग्रोद्गूणा सती विवाचनी विशेषेन पतिं वाचयित्री भवामि। क्रोधाविष्टमपि पतिं मयि सर्वदा प्रियवचनयुक्तं करोमीत्यर्थः। सेहानायाः सपत्नीनामभिभवित्र्या ममेन्ममैव क्रतुम् कर्म बुद्धिं वानुलक्ष्य पतिः पालयिता भर्तोपाचरेत्। उपागच्छेत्। नान्यासां पत्नीनाम्॥२॥

10.159.3
मम᳚ पु॒त्राः श᳚त्रु॒हणो॑थो᳚ मे दुहि॒ता वि॒राट् ।
उ॒ताहम᳚स्मि संज॒या पत्यौ᳚ मे॒ श्लोक᳚ उत्त॒मः ॥
▶ पदपाठः (Word-by-word)
मम᳚ । पु॒त्राः । श॒त्रु॒॑हनः᳚ । अथो॒ इति᳚ । मे॒ । दु॒हि॒ता । वि॒राट् ।
उ॒त । अ॒हम् । अ॒स्मि॒ । स॒म्॑ज॒या । पत्यौ᳚ । मे॒ । श्लोकः᳚ । उ॒त्॑त॒मः ॥
▶ सायणभाष्यम् (Sayana Commentary)

ममैव पुत्रास्तनयाः शत्रुहनः शत्रूणां सपत्नानां हन्तारो भवन्ति। अथो अपि च मे मदीया दुहिता पुत्री विराड्विशेशेण राजमाना भवति। उतापि चाहं सञ्जया सम्यग्जेत्री सपत्नीनामस्मि। ता अभिभवामि। अतो हेतोः पतौ भर्तरीन्द्रे मे मम श्लोक उपश्लोकनीयं यश उत्तम उद्गततममतिशयेनोत्कृष्टं विद्यते॥३॥

10.159.4 समानपद
येनेन्द्रो᳚ ह॒विषा᳚ कृ॒त्व्यभ᳚वद्द्यु॒म्न्यु᳚त्त॒मः ।
इ॒दं तद᳚क्रि देवा असप॒त्ना किला᳚भुवम् ॥
▶ पदपाठः (Word-by-word)
येन᳚ । इन्द्रः᳚ । ह॒विषा᳚ । कृ॒त्वी । अभ᳚वत् । द्यु॒म्नी । उ॒त्॑त॒मः ।
इ॒दम् । तत् । अ॒क्रि॒ । दे॒वाः॒ । अ॒स॒प॒त्ना । किल᳚ । अ॒भु॒व॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

येन हविषेन्द्रो मम भर्ता कृत्वी कर्मणां कर्ताभवत् भवति। तथा द्युम्नी। द्युम्नं द्योतमानं यशोऽन्नंवा। तद्वानुत्तम उत्कृष्टतमश्च येन हविषा भवति। हे देवाः स्तोतार ऋत्विजः तदिदम् हविरक्रि। अकारि। जयाथिर्भर्भिवद्भिः क्रियताम्। यद्वा। हे यष्टव्या देवाः तदिदं हविरक्र्यहमपि। करोतेर्लुङीट मन्त्रे घसेति च्लेर्लुक्। अत एव कारणादहमसपत्ना किल शत्रुरहिता खल्वभुवम्। अभूवम्। छान्दसो ह्रस्वः॥४॥

10.159.5
अ॒स॒प॒त्ना स᳚पत्न॒घ्नी जय᳚न्त्यभि॒भूव᳚री ।
आवृ᳚क्षम॒न्यासां॒ वर्चो॒ राधो॒ अस्थे᳚यसामिव ॥
▶ पदपाठः (Word-by-word)
अ॒स॒प॒त्ना । स॒प॒त्न॒॑घ्नी । जय᳚न्ती । अ॒भि॒॑भूव᳚री ।
आ । अ॒वृ॒क्ष॒म् । अ॒न्यासा᳚म् । वर्चः᳚ । राधः᳚ । अस्थे᳚यसाम्॑इव ॥
▶ सायणभाष्यम् (Sayana Commentary)

असपत्नाशत्रुका भवामि। कुत इत्यत आह। सपत्नघ्नी शत्रूणां हन्त्री अत एव जयन्ती जयं प्राप्नुवत्यभिभूवर्यभिभवित्री। भवतेरन्येभ्योऽपि द्रुश्यन्त इति क्वनिप्। वनो र चेति ङीब्रेफौ। ईदृश्यहमन्यासाम् सपत्नीनां वर्चस्तेजो राधो धनं चावृक्षम्। अवृश्चिषम्। अच्छिदम्। व्रश्चेर्लुङ्यूदित्त्वादिडभावे स्स्ंयोगादिलोपे छान्दसं सम्प्रसारनम्। तत्र दृष्टान्तः। अस्थेयसामिवास्थिरतरानां शत्रूणां यथा धनमप्रयत्नेन व्रुश्च्यते तथेत्यर्थः। स्थिरशब्दादीयसुनिप्रियस्थिरेत्यादिना स्थादेशः॥५॥

10.159.6
सम᳚जैषमि॒मा अ॒हं स॒पत्नी᳚रभि॒भूव᳚री ।
यथा॒हम॒स्य वी॒रस्य᳚ वि॒राजा᳚नि॒ जन᳚स्य च ॥
▶ पदपाठः (Word-by-word)
सम् । अ॒जै॒ष॒म् । इ॒माः । अ॒हम् । स॒॑पत्नीः᳚ । अ॒भि॒॑भूव᳚री ।
यथा᳚ । अ॒हम् । अ॒स्य । वी॒रस्य᳚ । वि॒॑राजा᳚नि । जन᳚स्य । च॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अबिभूवर्यभिभवित्र्यहमिमाः सपत्नीः समजैषम्। सम्यगभ्यभूवम्। यथा येन प्रकारेनाहमस्य वीरस्येन्द्रस्य तदीयपरिजनस्य च विराजानि विशेषेन राजमाना भवानि। तथा समजैषमित्यर्थः॥६॥