दशमं मण्डलम् - सूक्तम् 127

8 ऋचः

ऋषिः: कुशिकः सौभरो रात्रिर्वा भारद्वाजी देवता: रात्रिः छन्दः: गायत्री

सूक्तम् 10.127 - सम्पूर्णम्

1 / 8
ऋक्: 10.127.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (8)
10.127.1
रात्री॒ व्य᳚ख्यदाय॒ती पु᳚रु॒त्रा दे॒व्य१॒᳚क्षभि᳚ः ।
विश्वा॒ अधि॒ श्रियो᳚॑धित ॥
▶ पदपाठः (Word-by-word)
रात्री᳚ । वि । अ॒ख्य॒त् । आ॒॑य॒ती । पु॒रु॒॑त्रा । दे॒वी । अ॒क्ष॑भिः᳚ ।
विश्वाः᳚ । अधि᳚ । श्रियः᳚ । अ॒धि॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

रात्रीत्यष्टर्चं पञ्चदशम् सूक्तं सोभरिपुत्रस्य कुशिकस्यार्षम् । यद्वा। भारद्वाजस्य सुता तात्र्याख्यास्य सूक्तस्यर्षिका। गायत्रं रात्रिदेवताकम्। तथा चानुक्रान्तम्। रात्री कुशिकः सौभरो रात्रिर्वा भारद्वाजी रात्रिस्तवं गायत्रमिति। दुःस्वप्न दर्शन उपॊषितेन कत्र्त्रा पायसेन होतव्यम्। तत्रैतत्सूक्तं करणत्वेन विनियुक्तम्। तथा चारण्यके श्रूयते। स यद्येतेषां किञ्चित्पश्येदुपोष्य पायसं स्थालीपाकं श्रपयित्वा रात्रीसूक्तेन प्रत्युचं हुत्वा। ऐ. आ. ३-२-४। इति॥

अयत्यागच्छन्ती। अङ्पूर्वादेतेः शतर्यदादित्वाच्छपो लुक्। इणो यण्णीति यणादेशः। उगितश्चेति ङीप्। शतरनुम इति नद्या उदात्तत्वम्। अक्शभिरक्षिस्थानीयैः प्रकाशमानैर्नक्षत्रैः। छन्दस्यपि दृश्यत इत्यक्षिशब्दस्यानङादेशः। यद्वा। अक्षभिरञ्जकैस्तेजोभिः। पुरुत्रा बहुषु देशेषु देवी देवनशीला। देवमनुष्यपुरुषपुरुमर्त्येभ्य इत्यादिना पुरुशब्दात्सप्तम्यर्थे त्राप्रत्ययः। रात्रीयं रात्रिदेवता व्यख्यत्। विचष्टे। विशेषेण पश्यति। रात्रेश्चाजसाविति ङीप्। ख्यातेश्छान्दसे लुङ्यस्यतिवक्तीत्यादिना च्लेरङादेशः। अपि चैषा विश्वाः सर्वाः श्रियः शोभा अध्यधित। अधिधारयति। दधातेर्लुङि स्थाघ्वोरिच्चेतीत्वम्। सिचः कित्वम्। ह्रस्वादङ्गादिति सिचो लोपः॥१॥

10.127.2
ओर्व᳚प्रा॒ अम᳚र्त्या नि॒वतो᳚ दे॒व्यु१॒᳚द्वतः᳚ ।
ज्योति᳚षा बाधते॒ तमः᳚ ॥
▶ पदपाठः (Word-by-word)
आ । उ॒रु । अ॒प्राः॒ । अम᳚र्त्या । नि॒॑वतः᳚ । दे॒वी । उ॒त्॑वतः᳚ ।
ज्योति᳚षा । बा॒ध॒ते॒ । तमः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अमर्त्या मरन रहिता देवी देवनशीला रात्रिरुरु विस्तीर्णमन्तरिक्षमाप्राः। प्रथमतस्तमसापूरयति। प्रा पूरणे आदादिकः। लङि व्यत्ययेन मध्यमः। तथा निवतो नीचीनाल्लतागुल्मादीनुद्वत उत्थितान्वृक्षादींश्च स्वकीयेन तेजसावृणोति। तदनन्तरं तत्तमोऽन्धकारं ज्योतिषा ग्रहनक्षत्रादिरूपेण तेजसा बाधते। पीडयति॥२॥

10.127.3
निरु॒ स्वसा᳚रमस्कृतो॒षसं᳚ दे॒व्या᳚य॒ती ।
अपेदु᳚ हासते॒ तमः᳚ ॥
▶ पदपाठः (Word-by-word)
निः । ऊं॒ इति᳚ । स्वसा᳚रम् । अ॒कृ॒त॒ । उ॒षस᳚म् । दे॒वी । आ॒॑य॒ती ।
अप᳚ । इत् । ऊं॒ इति᳚ । हा॒स॒ते॒ । तमः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

आयत्यागच्छन्ती देवी देवनशीला रात्रिः स्वसारं भगिनीमुषसं निरकृत। निष्करोति। प्रकाशेन संस्करोति। निवर्तयतीत्यर्थः। तस्यामुषसि जातायां नैशं तमोऽपेद्धासते। अपैव गच्छति। ओहाङ् गतौ। लेट्यडागमः। सिब्बहुलमिति सिप्॥३॥

10.127.4
सा नो᳚ अ॒द्य यस्या᳚ व॒यं नि ते॒ याम॒न्नवि᳚क्ष्महि ।
वृ॒क्षे न व᳚स॒तिं वयः᳚ ॥
▶ पदपाठः (Word-by-word)
सा । नः॒ । अ॒द्य । यस्याः᳚ । व॒यम् । नि । ते॒ । याम᳚न् । अवि᳚क्ष्महि ।
वृ॒क्षे । न । व॒स॒तिम् । वयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अद्यास्मिन्काले नोऽस्माकं सा रात्रिदेवता प्रसीदतु यस्या रत्रेर्यामन्यामनि प्ताप्तौ सत्यां वयं न्यविक्ष्महि निविशामहे सुखेन गृह आस्महे। निशेर्लङि नेर्विशः। पा. १-३-१७। इत्यात्मनेपदम्। छान्दसः शपो लुक्। तत्र दृष्टान्तः। वयः पक्शिणो व्रुक्षे न यथा वृक्षे नीडाश्रये वसतिं रातौ निवासं कुर्वन्ति तथा निवसाम इत्यर्थः॥४॥

10.127.5
नि ग्रामा᳚सो अविक्षत॒ नि प॒द्वन्तो॒ नि प॒क्षिणः᳚ ।
नि श्ये॒नास᳚श्चिद॒र्थिनः᳚ ॥
▶ पदपाठः (Word-by-word)
नि । ग्रामा᳚सः । अ॒वि॒क्ष॒त॒ । नि । प॒त्॑वन्तः᳚ । नि । प॒क्षिणः᳚ ।
नि । श्ये॒नासः᳚ । चि॒त् । अ॒र्थिनः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ग्रामासो ग्रामाः। अत्र गामशब्दो रात्रावागतायां निविशन्ते। शेरते। निपूर्वाद्विशतेश्छान्दसे लुङि पूर्ववदात्मनेपदम्। शल इगुपधादनिटः क्सः। पा. ३-१४-५। क्सस्याचि। पा. ७-३-७२। इत्याकारलोपः। तथा पद्वन्तः पादयुक्ता गवाश्वादयश्च निविशन्ते। तथा पक्षिणः पक्षोपेताश्च निविशन्ते। अर्थिनः। अर्तेरर्थो गमनम्। शीघ्रगमनयुक्ताः श्येनासश्चिच्छ्येना अपि तस्यां रात्र्यां निविशन्ते। एषा रात्रिः सर्वाणि भूतजातान्यहनि सञ्चारेण श्रान्तानि स्वयमागत्य सुखयतीत्यर्थः॥५॥

10.127.6
या॒वया᳚ वृ॒क्यं१॒᳚ वृकं᳚ य॒वय᳚ स्ते॒नमू᳚र्म्ये ।
अथा᳚ नः सु॒तरा᳚ भव ॥
▶ पदपाठः (Word-by-word)
य॒वय᳚ । वृ॒क्य᳚म् । वृक᳚म् । य॒वय᳚ । स्ते॒नम् । ऊ॒र्म्ये॒ ।
अथ᳚ । नः॒ । सु॒॑तरा᳚ । भ॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऊर्म्ये। रात्रिनामैतत्। रात्रे वृक्यं वृकस्य स्त्रियं वृकं चास्मान्ह्ंसन्तं यवय। अस्मत्तः पृथक्कुरु। अस्मान्बाधितुं यथा न प्राप्नोति तथा। स्तेनम् इदं च यवय। अस्मत्तो वियोजय। अथानन्तरं नोऽस्माकं सुतरा सुखेन शरणीया क्षेमकरी भव॥६॥

10.127.7
उप᳚ मा॒ पेपि᳚श॒त्तमः᳚ कृ॒ष्णं व्य᳚क्तमस्थित ।
उष᳚ ऋ॒णेव᳚ यातय ॥
▶ पदपाठः (Word-by-word)
उप᳚ । मा॒ । पेपि᳚शत् । तमः᳚ । कृ॒ष्णम् । वि॑अ᳚क्तम् । अ॒स्थि॒त॒ ।
उषः᳚ । ऋ॒णा॑इ᳚व । या॒त॒य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पेपिशद्भृशं पिंशत् सर्ववस्तुष्वाश्लिष्तम् तमोऽन्धकारं कृष्णं कृष्णवर्णं व्यक्तं विशेषेण स्वभासा सर्वस्याञ्जकं स्पष्टरूपं वा ईद्रुशं नैशं तमो मामुपास्थित। उपागच्छत्। सङ्गतकरण आत्मनेपदम्। हे उष उषोदेवते त्वमृणेवर्णानीव तत्तमो यातय। अपगमय। स्तोतॄणामृणानि यथा धनप्रदानेनापकरोषि तथा तमोऽप्यपसारयेत्यर्थः॥७॥

10.127.8
उप᳚ ते॒ गा इ॒वाक᳚रं वृणी॒ष्व दु᳚हितर्दिवः ।
रात्रि॒ स्तोमं॒ न जि॒ग्युषे᳚ ॥
▶ पदपाठः (Word-by-word)
उप᳚ । ते॒ । गाः॑इ᳚व । आ । अ॒क॒र॒म् । वृ॒णी॒ष्व । दु॒हि॒तः॒ । दि॒वः॒ ।
रात्रि᳚ । स्तोम᳚म् । न । जि॒ग्युषे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे रात्री रात्रिदेवते ते त्वां गा इव पयसो दोग्ध्रीर्धेनूरिवोपेत्याकरम्। स्तुतिभिरभिमुखीकरोमि। करोतेश्छान्दसे लुङि क्रुमृदृरुहिभ्य इति च्लेरङादेशः। दिवो दुहितर्द्योतमानस्य सूर्यस्य पुत्रि यद्वा दिवसस्य तनये। परमपि च्छन्दसि। पा. २-१-२-६। इति परस्य षष्ठ्यन्तस्य पूर्वामन्त्रिताङ्गवद्भावात्पदद्वयसमुदायस्याष्टमिकं सर्वानुदात्तत्वम्। त्वत्प्रसादाज्जिग्युषे शत्रूञ्जिग्युषो मम स्तोमं न स्तोत्रमिव हविरपि वृणीष्व। त्वं भजस्व। जयतेर्लिटः क्वसुः। सन्लिटोर्जेरित्यभ्यासादुत्तरस्य जकारस्य कुत्वम्। षष्थ्यर्थे चतुर्थी वक्तव्येति चतुर्थी। वसोः सम्प्रसारणमिति सम्प्रसारणम्॥८॥