श्रवणम्

10.127.7
उप᳚ मा॒ पेपि᳚श॒त्तमः᳚ कृ॒ष्णं व्य᳚क्तमस्थित ।
उष᳚ ऋ॒णेव᳚ यातय ॥
▶ पदपाठः (Word-by-word)
उप᳚ । मा॒ । पेपि᳚शत् । तमः᳚ । कृ॒ष्णम् । वि॑अ᳚क्तम् । अ॒स्थि॒त॒ ।
उषः᳚ । ऋ॒णा॑इ᳚व । या॒त॒य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पेपिशद्भृशं पिंशत् सर्ववस्तुष्वाश्लिष्तम् तमोऽन्धकारं कृष्णं कृष्णवर्णं व्यक्तं विशेषेण स्वभासा सर्वस्याञ्जकं स्पष्टरूपं वा ईद्रुशं नैशं तमो मामुपास्थित। उपागच्छत्। सङ्गतकरण आत्मनेपदम्। हे उष उषोदेवते त्वमृणेवर्णानीव तत्तमो यातय। अपगमय। स्तोतॄणामृणानि यथा धनप्रदानेनापकरोषि तथा तमोऽप्यपसारयेत्यर्थः॥७॥