या॒वया᳚ वृ॒क्यं१॒᳚ वृकं᳚ य॒वय᳚ स्ते॒नमू᳚र्म्ये ।
अथा᳚ नः सु॒तरा᳚ भव ॥
अथा᳚ नः सु॒तरा᳚ भव ॥
पदपाठः (Word-by-word)
य॒वय᳚ । वृ॒क्य᳚म् । वृक᳚म् । य॒वय᳚ । स्ते॒नम् । ऊ॒र्म्ये॒ ।
अथ᳚ । नः॒ । सु॒॑तरा᳚ । भ॒व॒ ॥
अथ᳚ । नः॒ । सु॒॑तरा᳚ । भ॒व॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे ऊर्म्ये। रात्रिनामैतत्। रात्रे वृक्यं वृकस्य स्त्रियं वृकं चास्मान्ह्ंसन्तं यवय। अस्मत्तः पृथक्कुरु। अस्मान्बाधितुं यथा न प्राप्नोति तथा। स्तेनम् इदं च यवय। अस्मत्तो वियोजय। अथानन्तरं नोऽस्माकं सुतरा सुखेन शरणीया क्षेमकरी भव॥६॥