निरु॒ स्वसा᳚रमस्कृतो॒षसं᳚ दे॒व्या᳚य॒ती ।
अपेदु᳚ हासते॒ तमः᳚ ॥
अपेदु᳚ हासते॒ तमः᳚ ॥
पदपाठः (Word-by-word)
निः । ऊं॒ इति᳚ । स्वसा᳚रम् । अ॒कृ॒त॒ । उ॒षस᳚म् । दे॒वी । आ॒॑य॒ती ।
अप᳚ । इत् । ऊं॒ इति᳚ । हा॒स॒ते॒ । तमः᳚ ॥
अप᳚ । इत् । ऊं॒ इति᳚ । हा॒स॒ते॒ । तमः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
आयत्यागच्छन्ती देवी देवनशीला रात्रिः स्वसारं भगिनीमुषसं निरकृत। निष्करोति। प्रकाशेन संस्करोति। निवर्तयतीत्यर्थः। तस्यामुषसि जातायां नैशं तमोऽपेद्धासते। अपैव गच्छति। ओहाङ् गतौ। लेट्यडागमः। सिब्बहुलमिति सिप्॥३॥