श्रवणम्

10.127.4
सा नो᳚ अ॒द्य यस्या᳚ व॒यं नि ते॒ याम॒न्नवि᳚क्ष्महि ।
वृ॒क्षे न व᳚स॒तिं वयः᳚ ॥
▶ पदपाठः (Word-by-word)
सा । नः॒ । अ॒द्य । यस्याः᳚ । व॒यम् । नि । ते॒ । याम᳚न् । अवि᳚क्ष्महि ।
वृ॒क्षे । न । व॒स॒तिम् । वयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अद्यास्मिन्काले नोऽस्माकं सा रात्रिदेवता प्रसीदतु यस्या रत्रेर्यामन्यामनि प्ताप्तौ सत्यां वयं न्यविक्ष्महि निविशामहे सुखेन गृह आस्महे। निशेर्लङि नेर्विशः। पा. १-३-१७। इत्यात्मनेपदम्। छान्दसः शपो लुक्। तत्र दृष्टान्तः। वयः पक्शिणो व्रुक्षे न यथा वृक्षे नीडाश्रये वसतिं रातौ निवासं कुर्वन्ति तथा निवसाम इत्यर्थः॥४॥