श्रवणम्

10.127.2
ओर्व᳚प्रा॒ अम᳚र्त्या नि॒वतो᳚ दे॒व्यु१॒᳚द्वतः᳚ ।
ज्योति᳚षा बाधते॒ तमः᳚ ॥
▶ पदपाठः (Word-by-word)
आ । उ॒रु । अ॒प्राः॒ । अम᳚र्त्या । नि॒॑वतः᳚ । दे॒वी । उ॒त्॑वतः᳚ ।
ज्योति᳚षा । बा॒ध॒ते॒ । तमः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अमर्त्या मरन रहिता देवी देवनशीला रात्रिरुरु विस्तीर्णमन्तरिक्षमाप्राः। प्रथमतस्तमसापूरयति। प्रा पूरणे आदादिकः। लङि व्यत्ययेन मध्यमः। तथा निवतो नीचीनाल्लतागुल्मादीनुद्वत उत्थितान्वृक्षादींश्च स्वकीयेन तेजसावृणोति। तदनन्तरं तत्तमोऽन्धकारं ज्योतिषा ग्रहनक्षत्रादिरूपेण तेजसा बाधते। पीडयति॥२॥