दशमं मण्डलम् - सूक्तम् 5

7 ऋचः

ऋषिः: त्रित आप्त्यः देवता: अग्निः छन्दः: त्रिष्टुप्

सूक्तम् 10.5 - सम्पूर्णम्

1 / 7
ऋक्: 10.5.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
10.5.1 समानपद
एकः᳚ समु॒द्रो ध॒रुणो᳚ रयी॒णाम॒स्मद्धृ॒दो भूरि᳚जन्मा॒ वि च᳚ष्टे ।
सिष॒क्त्यूध᳚र्नि॒ण्योरु॒पस्थ॒ उत्स᳚स्य॒ मध्ये॒ निहि᳚तं प॒दं वेः ॥
▶ पदपाठः (Word-by-word)
एकः᳚ । स॒मु॒द्रः । ध॒रुणः᳚ । र॒यी॒णाम् । अ॒स्मत् । हृ॒दः । भूरि᳚॑जन्मा । वि । च॒ष्टे॒ ।
सिस᳚क्ति । ऊधः᳚ । नि॒ण्योः । उ॒प॑स्थे᳚ । उत्स᳚स्य । मध्ये᳚ । नि॑हि᳚तम् । प॒दम् । वेरिति॒ वेः ॥
▶ सायणभाष्यम् (Sayana Commentary)

समुद्रः यस्माद्वनान्युदकानि समुद्रवन्तीति तादृशः रयीणां धनानां धरुणोधारयिता एकः असहायः भूरिजन्मा बहुविधजननः नानायज्ञेष्वाहवनीयादिभावेन बहुजननः सोग्निः अस्मात् सुपांसुलुगिति षष्ठ्यालुक् अस्माकं हृदोहृद्यान्यभिलषितानि विचष्टे विपश्यति जानाति । उक्तंच—मनोवैदेवामनुष्यस्यजानन्तीति । किंच निण्योः अन्तर्हितनामैतत् अन्त- र्हितयोर्ज्योतिस्तमोभ्यामाच्छादितयोः प्रातः सायंकालयोः उपस्थे उअप्स्थाने समीपे वर्त- मानमूधोरात्रिं सिषक्ति सेवते उपजीवति । यद्वा निण्योः अन्तर्हितस्यान्तरिक्षस्य समीपे वर्तमानमूधोमेघं सेवते । अथ प्रत्यक्षः हे अग्ने उत्सस्य उदकधारकस्य लोकस्य मध्ये पद- मपां स्थानं निहितं तन्माध्यमिकां वाचं वेः गच्छ । यद्वा उत्सस्य मेघस्य मध्ये निहितं पदं विद्युदाख्यं तत् स्वात्मतया गच्छ । वेः वीगत्यादिषु लङि सिपि रूपं वाक्यभेदाद- निघातः ॥ १ ॥

10.5.2
स॒मा॒नं नी॒ळं वृष᳚णो॒ वसा᳚ना॒ः सं ज᳚ग्मिरे महि॒षा अर्व᳚तीभिः ।
ऋ॒तस्य᳚ प॒दं क॒वयो॒ नि पा᳚न्ति॒ गुहा॒ नामा᳚नि दधिरे॒ परा᳚णि ॥
▶ पदपाठः (Word-by-word)
स॒मा॒नम् । नी॒ळम् । वृष᳚णः । वसा᳚नाः । सम् । ज॒ग्मि॒रे॒ । म॒हि॒षाः । अर्व᳚तीभिः ।
ऋ॒तस्य᳚ । प॒दम् । क॒वयः᳚ । नि । पा॒न्ति॒ । गुहा᳚ । नामा᳚नि । द॒धि॒रे॒ । परा᳚णि ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृषणः आहुतीनां सेक्तारः समानमेकं नीलंस्थानमग्निं वसानाः मंत्रतआच्छाद्यन्तोम- हिशामहान्तोयजमानाः अर्वतीभिर्वडवाभिः संजग्मिरे समगच्छन्त । अश्ववन्तोभूवन् यद्वा अग्निमेव आत्मीययज्ञं प्रत्यागन्तुं रोहिदाख्याभिर्वडवाभिः संयोजितवन्तः तथा कवयोमे- धाविनः ऋतस्योदकस्य पदमावासस्थानमग्निं निपान्ति नितरां रक्षन्ति हविर्भिः स्तुति- भिश्चाराधयंतीत्यर्थः । ततोगुहा गुहायामन्तारिक्षे स्थितानि पराणि दिव्यानि नामानि उदकानि दधिरे धारयन्ति । यद्वा गुहा गूढे संवृते हृदये पराणि प्रधानानि अग्निर्जात- वेदावैश्वानरइत्यादीनि नामानि दधिरे कुर्वन्ति स्तुवन्तीत्यर्थः ॥ २ ॥

10.5.3
ऋ॒ता॒यिनी᳚ मा॒यिनी॒ सं द᳚धाते मि॒त्वा शिशुं᳚ जज्ञतुर्व॒र्धय᳚न्ती ।
विश्व᳚स्य॒ नाभिं॒ चर᳚तो ध्रु॒वस्य᳚ क॒वेश्चि॒त्तन्तुं॒ मन᳚सा वि॒यन्त᳚ः ॥
▶ पदपाठः (Word-by-word)
ऋ॒त॒यिनी॒ इत्यृ᳚त॒॑यिनी᳚ । मा॒यिनी॒ इति᳚ । सम् । द॒धा॒ते॒ इति᳚ । मि॒त्वा । शिशु᳚म् । ज॒ज्ञ॒तुः॒ । व॒र्धय᳚न्ती॒ इति᳚ ।
विश्व᳚स्य । नाभि᳚म् । चर᳚तः । ध्रु॒वस्य᳚ । क॒वेः । चि॒त् । तन्तु᳚म् । मन᳚सा । वि॒॑यन्तः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋतायिनी ऋतवत्यौ सत्यवत्यौ अतएव मायिनी प्रज्ञावत्यौ कर्मयुक्तेवा द्यावापृथि- व्यौ यज्ञसाधनभूते अरणी वा इममग्निं संदधाते सम्यक् धारयतः अग्निसूर्यात्मना केवला- ग्न्यात्मनावा संदधाते । मित्वा कालपरिमाणं कृत्वा यद्वा संपरिच्छिद्यशिशुं शंसनीयं बालमग्निं जज्ञतुः जनयतः वर्धयन्ती वर्धन्त्यौ द्यावापृथिव्यौ लोके यथा परिच्छेदाय पुत्रं पितरौ जनयतः तद्वत् । ततः विश्वस्य सर्वस्य चरतोजंगमस्य ध्रुवस्य स्थावरस्यच जग- तोनाभिं नाभिभूतं मध्यं प्रधानभूतं वा कवेर्मेधाविनोग्नेस्तन्तुं तनितारं वैश्वानराख्यमंशुं चित् मनसा वियन्तोविविधं गच्छन्तोमनुष्याः सुखेन युज्यन्ते इतिशेषः तं वयं यजाम- इतिवा ॥ ३ ॥

10.5.4
ऋ॒तस्य॒ हि व᳚र्त॒नय॒ः सुजा᳚त॒मिषो॒ वाजा᳚य प्र॒दिव॒ः सच᳚न्ते ।
अ॒धी॒वा॒सं रोद᳚सी वावसा॒ने घृ॒तैरन्नै᳚र्वावृधाते॒ मधू᳚नाम् ॥
▶ पदपाठः (Word-by-word)
ऋ॒तस्य᳚ । हि । व॒र्त॒नयः᳚ । सु॑जा᳚तम् । इषः᳚ । वाजा᳚य । प्र॒॑दिवः᳚ । सच᳚न्ते ।
अ॒धी॒वा॒सम् । रोद᳚सी॒ इति᳚ । व॒व॒सा॒ने इति᳚ । घृ॒तैः । अन्नैः᳚ । व॒वृ॒धा॒ते॒ इति᳚ । मधू᳚नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋतस्य यज्ञस्य वर्तनयः प्रवर्तकाइषअभिलषितानीच्छन्तः प्रदिवः पुरातनाऋत्विग्य- जमानाः सुजातमाधानकाले सुष्ठूत्पन्नमग्निं वाजाय बलार्थं अन्नार्थंवा सचन्तेहि सेवन्ते- खलु । अपिच वावसाने सर्वस्य जगतआच्छादयित्र्यौ रोदसी द्यावापृथिव्यौ अधीवासं ओषधिनक्षत्राद्यात्मना निवसन्तं यद्वा अधिरुपर्यर्थे त्रयाणां लोकानामुपरि अग्निविद्युदा- दित्यात्मना निवसन्तमग्निं मधूनामुदकानां जन्यत्वेन संबन्धिभिर्घृतैरन्नैः पुरोडाशादिभिश्च वावृधते वर्धयांचक्रतुः वर्धयतः तस्माद्वयमपि तमग्निमभिष्टुम इत्यभिप्रायः ॥ ४ ॥

10.5.5
स॒प्त स्वसॄ॒ररु᳚षीर्वावशा॒नो वि॒द्वान्मध्व॒ उज्ज᳚भारा दृ॒शे कम् ।
अ॒न्तर्ये᳚मे अ॒न्तरि᳚क्षे पुरा॒जा इ॒च्छन्व॒व्रिम᳚विदत्पूष॒णस्य᳚ ॥
▶ पदपाठः (Word-by-word)
स॒प्त । स्वसॄः᳚ । अरु᳚षीः । वा॒व॒शा॒नः । वि॒द्वान् । मध्वः᳚ । उत् । ज॒भा॒र॒ । दृ॒शे । कम् ।
अ॒न्तः । ये॒मे॒ । अ॒न्तरि᳚क्षे । पु॒रा॒॑जाः । इ॒च्छन् । व॒व्रिम् । अ॒वि॒द॒त् । पू॒ष॒णस्य᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वावशानः कामयमानः वाश्यमानः वेष्ट्यमानः स्तोतृभिः स्तूयमानोवा विद्वान् सर्वं जानानः सोग्निः अरुषीरारोचमानाः सप्त सप्तसंख्याकाः स्वसॄः स्वयंसारिणीः कालीकरा- लीचेत्यादिकाः सप्तजिह्वाः मध्वोमदकराद्यज्ञात् उज्जभार उज्जहार ऊर्ध्वं हृतवान् यज्ञे स्वतेजसा प्रादुर्भूतइत्यर्थः । किमर्थं कं सुखेन दृशे सर्वेषामेव पदार्थानां दर्शनार्थम् । किंच पुराजाः पुराजातः सोग्निः द्यावापृथिव्योरन्तर्मध्ये अन्तरिक्षे तस्मिन् ताजिह्वायेमे निय- मितवान् सर्वत्र तेजोयुक्तोवर्ततेइत्यर्थः । अपिच इच्छन् यजमानान् कामयमानोग्निः पूष- णस्य पूषेति पृथिवीनाम पार्थिवस्य लोकस्य वव्रिं रूपं पृश्निवर्णं अविदत् प्रायद्च्छत् । यद्वा मूर्धाभुवोभ्वतिनक्तमग्निस्ततः सूर्योजायतेप्रातरुद्यन्निति मंत्रान्तरे दर्शनादादित्यात्मना- ग्निः स्तूयते । कामयमानः सूर्यात्मनाग्निः सप्त संख्याकान् स्वसॄः रश्मीन् मध्वः समुद्रोद- कादुद्धृतवान् प्राप्तः अन्तरिक्षे विद्युदात्मना स्थित्वावृष्टिलक्षणं रूपं पृथिव्याः प्रायच्छ- ति ॥ ५ ॥

10.5.6
स॒प्त म॒र्यादा᳚ः क॒वय᳚स्ततक्षु॒स्तासा॒मेका॒मिद॒भ्यं᳚हु॒रो गा᳚त् ।
आ॒योर्ह᳚ स्क॒म्भ उ᳚प॒मस्य᳚ नी॒ळे प॒थां वि᳚स॒र्गे ध॒रुणे᳚षु तस्थौ ॥
▶ पदपाठः (Word-by-word)
स॒प्त । म॒र्यादाः᳚ । क॒वयः᳚ । त॒त॒क्षुः॒ । तासा᳚म् । एका᳚म् । इत् । अ॒भि । अं॒हु॒रः । गा॒त् ।
आ॒योः । ह॒ । स्क॒म्भः । उ॒प॒॑मस्य᳚ । नी॒ळे । प॒थाम् । वि॒॑स॒र्गे । ध॒रुणे᳚षु । त॒स्थौ॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

कवयोमेधाविनऋषयः सप्तमर्यादाः कामजेभ्यः क्रोधजेभ्यश्चोत्थिताः । पानमक्षाःस्त्रियो- मृगया दंडः पारुष्यमन्यदूषणमिति सप्तमर्यादाः । यद्वा स्तेयं गुरुतल्पारोहणं ब्रह्महत्यां सुरापानं दुष्कृतकर्मणः पुनःपुनः सेवां पातकेनृतोद्यमिति निरुक्तेनिर्दिष्टाः । सप्तमर्यादा- अवस्थिताः ततक्षुः तक्षतिः करोतिकर्मा सुष्ठु लंघनीयाश्चक्रुः त्यक्तवन्तइत्यर्थः । तासां मर्यादानां एकामित् एकामेव अंहुरः पापवान् पुरुषः अभिगात् अभिगच्छति यस्त्वेवं करोति सपापवान् भवतीत्यर्थः । किंच आयोः तस्य मनुष्यस्य स्कंभः स्कंभयिता निरो- धकोग्निः उपमस्य समीपभूतस्य आयोर्नीळे स्थाने पथां आदित्यरूपस्य स्वस्य रश्मीनां विसर्गे विसर्जनस्थानेन्तरिक्षमध्ये वर्तमाने धरुणेषूदकेषु तस्थौ विद्युदात्मना तिष्ठति अनेन लोकत्रयवर्तित्वमिति ॥ ६ ॥

10.5.7 समानपद
अस᳚च्च॒ सच्च᳚ पर॒मे व्यो᳚म॒न्दक्ष᳚स्य॒ जन्म॒न्नदि᳚तेरु॒पस्थे᳚ ।
अ॒ग्निर्ह᳚ नः प्रथम॒जा ऋ॒तस्य॒ पूर्व॒ आयु᳚नि वृष॒भश्च᳚ धे॒नुः ॥
▶ पदपाठः (Word-by-word)
अस᳚त् । च॒ । सत् । च॒ । प॒र॒मे । वि॑ओ᳚मन् । दक्ष᳚स्य । जन्म᳚न् । अदि᳚तेः । उ॒प॑स्थे᳚ ।
अ॒ग्निः । ह॒ । नः॒ । प्र॒थ॒म॒॑जाः । ऋ॒तस्य᳚ । पूर्वे᳚ । आयु᳚नि । वृ॒ष॒भः । च॒ । धे॒नुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

असदव्याकृतं सच्चव्याकृतं असदेवेदमग्रआसीत् तत्सदासीत् तत्समभवदिति श्रुतेः । सद- सदात्मकं जगत्सर्वं परमे उत्तमे ज्ञानसहिते व्योमन् व्योमनि कारणात्मनि जातमभूत्तदा अदितेः पृथिव्याउपस्थे उपस्थाने समीपे दक्षस्य प्रजापतेः यद्वा दक्षस्य सत्रेधात्मानं बिभ जतादित्यंतृतीयंवायुंतृतीयमितिश्रुतेः । तृतीयस्य द्युलोकस्याधिष्ठातृत्वादादित्यस्य जन्मन् जन्मनि ततएवं सति मनुष्यस्य सृष्टिक्रमात् पूर्वं अग्निर्ह अग्निरेव ऋतस्य कर्मफलस्य भोक्तॄणां नोस्माकं प्रथमजाः प्रथमजातः समुत्पन्नः तेजोरसोनिरवर्तताग्निरितिश्रवणात् । पश्चात्तत्प्रकरणे ततोमनुष्याअजायन्तेति प्रथमतएव मनुष्यसृष्टेरभिहितत्वात् अनन्तरं पूर्वे उत्तरसृष्टिमपेक्ष्य पूर्वत्वं आयुनि काले अयमग्निरेव वृषभश्चासीत् धेनुश्चाभवत् स्त्रीपुंसवत् स्त्रीपुंसात्मकोभवदित्यर्थः ॥ ७ ॥

वेदार्थस्यप्रकाशॆन तमोहार्दंनिवारयन् । पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सा- यणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक् संहिताभाष्ये सप्तमाष्टके पंचमोध्यायः ॥ ५ ॥