आ॒दि॒त्या विष्णु᳚र्म॒रुत॒ः स्व᳚र्बृ॒हत्सोमो᳚ रु॒द्रो अदि᳚ति॒र्ब्रह्म᳚ण॒स्पति᳚ः ॥
पदपाठः (Word-by-word)
आ॒दि॒त्याः । विष्णुः᳚ । म॒रुतः᳚ । स्वः᳚ । बृ॒हत् । सोमः᳚ । रु॒द्रः । अदि᳚तिः । ब्रह्म᳚णः । पतिः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
अग्न्यादय आदित्यादयो बृहद्बृहती स्वर्द्यौश्च सोमादय एते देवाः सजोषसः संहत्य॥१॥