पावी᳚रवी तन्य॒तुरेक᳚पाद॒जो दि॒वो ध॒र्ता सिन्धु॒रापः᳚ समु॒द्रियः᳚ ।
विश्वे᳚ दे॒वासः᳚ शृणव॒न्वचां᳚सि मे॒ सर᳚स्वती स॒ह धी॒भिः पुरं᳚ध्या ॥
विश्वे᳚ दे॒वासः᳚ शृणव॒न्वचां᳚सि मे॒ सर᳚स्वती स॒ह धी॒भिः पुरं᳚ध्या ॥
पदपाठः (Word-by-word)
पावी᳚रवी । त॒न्य॒तुः । एक᳚॑पात् । अ॒जः । दि॒वः । ध॒र्ता । सिन्धुः᳚ । आपः᳚ । स॒मु॒द्रियः᳚ ।
विश्वे᳚ । दे॒वासः᳚ । शृ॒ण॒व॒न् । वचां᳚सि । मे॒ । सर᳚स्वती । स॒ह । धी॒भिः । पुर᳚म्॑ध्या ॥
विश्वे᳚ । दे॒वासः᳚ । शृ॒ण॒व॒न् । वचां᳚सि । मे॒ । सर᳚स्वती । स॒ह । धी॒भिः । पुर᳚म्॑ध्या ॥
सायणभाष्यम् (Sayana Commentary)
पावीरव्यायुधवति तन्यतुः स्तनयित्री वाग्मध्यमिका तथा दिवो द्युलोकस्य धर्ता धारयिताज एकपात् एक एव पद्यते गच्छतीति न जायत इत्येत्संज्ञको देवः सिन्धुश्च समुद्रियः। समुद्रमन्तरिक्षम् । तत्र भवा आपश्च। समुद्राभ्राद्घ इति भावार्थे घप्रत्ययः। विश्वे देवाश्च धीभिः कर्मभिर्युक्ताः पुरन्ध्या बहुविधया प्रज्ञया सहिता सरस्वती च मे मदीयानि वचांसि वक्तव्यानि स्तोत्राणिशृणवन्। शृण्वन्तु। पविः शल्यो भवति यद्विपुनाति कायमित्यादि निरुक्तमनुसन्धेयम्। नि. १२-३०॥१३॥