श्रवणम्

10.65.7
दि॒वक्ष᳚सो अग्निजि॒ह्वा ऋ᳚ता॒वृध᳚ ऋ॒तस्य॒ योनिं᳚ विमृ॒शन्त᳚ आसते ।
द्यां स्क᳚भि॒त्व्य१॒᳚प आ च᳚क्रु॒रोज᳚सा य॒ज्ञं ज᳚नि॒त्वी त॒न्वी॒३॒᳚ नि मा᳚मृजुः ॥
▶ पदपाठः (Word-by-word)
दि॒वक्ष᳚सः । अ॒ग्नि॒॑जि॒ह्वाः । ऋ॒त॒॑वृधः᳚ । ऋ॒तस्य᳚ । योनि᳚म् । वि॒॑मृ॒शन्तः᳚ । आ॒स॒ते॒ ।
द्याम् । स्क॒भि॒त्वी । अ॒पः । आ । च॒क्रुः॒ । ओज᳚सा । य॒ज्ञम् । ज॒नि॒त्वी । त॒न्वि᳚ । नि । म॒मृ॒जुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

दिवक्षसः स्वतेजसा दिवं व्याप्नुवन्तः। अक्षु व्याप्तौ। असुनि रूपम्। यद्वा। दिवो वोढारह् अग्निजिह्वा अग्न्यास्याः। अग्निना हवींषि लिहंत्यास्वादयन्तीति तन्मुखाः। ऋतावृधो यज्ञवृद्धा यज्ञस्य वर्धयितारो देवा वर्तस्य सत्यभुतस्य यज्ञस्य योनिम् स्थानं विमृशन्तो विचारयन्तः प्रतिक्षमाणाः सन्त आसते। सर्वत्त्र तिष्ठन्ति। त इमे द्यां द्युलोकं स्कभित्वी स्कभित्वा तां धारयित्वौजसा स्वबलेनापोऽपेक्षितान्युदकान्या चक्रुः। आकुर्वन्ति। ततो यज्ञं यजनीयं हविश्च जनित्वी जनयित्वा तन्वि स्वशरीरे नि मामृजुः। न्मृजन्ति। नितरामलङ्ग्कुर्वन्ति। हविर्भक्षयन्तीत्यर्थः॥७॥