प॒रि॒क्षिता᳚ पि॒तरा᳚ पूर्व॒जाव᳚री ऋ॒तस्य॒ योना᳚ क्षयत॒ः समो᳚कसा ।
द्यावा᳚पृथि॒वी वरु᳚णाय॒ सव्र᳚ते घृ॒तव॒त्पयो᳚ महि॒षाय᳚ पिन्वतः ॥
द्यावा᳚पृथि॒वी वरु᳚णाय॒ सव्र᳚ते घृ॒तव॒त्पयो᳚ महि॒षाय᳚ पिन्वतः ॥
पदपाठः (Word-by-word)
प॒रि॒॑क्षिता᳚ । पि॒तरा᳚ । पू॒र्व॒जाव᳚री॒ इति᳚ पूर्व॒॑जाव᳚री । ऋ॒तस्य᳚ । योना᳚ । क्ष॒य॒तः॒ । सम्॑ओ᳚कसा ।
द्यावा᳚पृथि॒वी इति᳚ । वरु᳚णाय । सव्र᳚ते॒ इति॒ स॑व्र᳚ते । घृ॒त॑व᳚त् । पयः᳚ । म॒हि॒षाय᳚ । पि॒न्व॒तः॒ ॥
द्यावा᳚पृथि॒वी इति᳚ । वरु᳚णाय । सव्र᳚ते॒ इति॒ स॑व्र᳚ते । घृ॒त॑व᳚त् । पयः᳚ । म॒हि॒षाय᳚ । पि॒न्व॒तः॒ ॥
सायणभाष्यम् (Sayana Commentary)
परिक्षिता परितो निवसन्तौ सर्वत्र व्यापिन्यौ पितरा सर्वेषां मातापितृभूते अत एव पूर्वजावरी पूर्वं जाते समोकसा समाननिवासस्थाने एते द्यावापृथिव्या वृतस्य यज्ञस्य योना योनौ स्थाने क्शयतः। आहुत्यधिकरणत्वेन निवसतः। हविर्धानरूपे वा क्शियतः। किञ्च सव्रते समानकर्मणी ते महिषाय महते पूज्याय वा वरुणाय । तं यष्तुम् । उपलक्षणमेतत्। अन्यान्धेवानपि। घृतवत्क्षरनवत्त् पय उदकं पिन्वतः। सिञ्चतः। उदकेन ह्यन्नं जायते॥८॥