श्रवणम्

10.65.2
इ॒न्द्रा॒ग्नी वृ᳚त्र॒हत्ये᳚षु॒ सत्प᳚ती मि॒थो हि᳚न्वा॒ना त॒न्वा॒३॒᳚ समो᳚कसा ।
अ॒न्तरि᳚क्षं॒ मह्या प᳚प्रु॒रोज᳚सा॒ सोमो᳚ घृत॒श्रीर्म᳚हि॒मान᳚मी॒रय᳚न् ॥
▶ पदपाठः (Word-by-word)
इ॒न्द्रा॒ग्नी इति᳚ । वृ॒त्र॒॑हत्ये᳚षु । सत्प᳚ती॒ इति॒ सत्॑प᳚ती । मि॒थः । हि॒न्वा॒ना । त॒न्वा᳚ । सम्॑ओ᳚कसा ।
अ॒न्तरि᳚क्षम् । महि᳚ । आ । प॒प्रुः॒ । ओज᳚सा । सोमः᳚ । घृ॒त॒॑श्रीः । म॒हि॒मान᳚म् । ई॒रय᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृत्रहत्या युद्धानि। तेशु मिथः परस्परम् तन्वा शरीरेण तत्रस्थेन बलेन शत्रून्हिन्वाना प्रेरयन्तौ सत्पति सताम् पती समोकसा समानस्थानविन्द्राग्नी। घृतश्रीरुदकं वसतीवर्याअख्यं श्रयमानो महिमानमात्मीयमीरयन् सर्वत्रोदीरयन्नुद्गमयन् सोमश्च। एते सर्वे च महि महदन्तरिक्शमोजसा स्वबलेना पप्रुः। आपूरयन्ति। प्रा पुरणे॥२॥