श्रवणम्

10.65.1
अ॒ग्निरिन्द्रो॒ वरु᳚णो मि॒त्रो अ᳚र्य॒मा वा॒युः पू॒षा सर᳚स्वती स॒जोष᳚सः ।
आ॒दि॒त्या विष्णु᳚र्म॒रुत॒ः स्व᳚र्बृ॒हत्सोमो᳚ रु॒द्रो अदि᳚ति॒र्ब्रह्म᳚ण॒स्पति᳚ः ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निः । इन्द्रः᳚ । वरु᳚णः । मि॒त्रः । अ॒र्य॒मा । वा॒युः । पू॒षा । सर᳚स्वती । स॒॑जोष᳚सः ।
आ॒दि॒त्याः । विष्णुः᳚ । म॒रुतः᳚ । स्वः᳚ । बृ॒हत् । सोमः᳚ । रु॒द्रः । अदि᳚तिः । ब्रह्म᳚णः । पतिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्न्यादय आदित्यादयो बृहद्बृहती स्वर्द्यौश्च सोमादय एते देवाः सजोषसः संहत्य॥१॥