श्रवणम्

10.65.12
भु॒ज्युमंह᳚सः पिपृथो॒ निर᳚श्विना॒ श्यावं᳚ पु॒त्रं व᳚ध्रिम॒त्या अ᳚जिन्वतम् ।
क॒म॒द्युवं᳚ विम॒दायो᳚हथुर्यु॒वं वि᳚ष्णा॒प्वं१॒᳚ विश्व᳚का॒याव᳚ सृजथः ॥
▶ पदपाठः (Word-by-word)
भु॒ज्युम् । अंह᳚सः । पि॒पृ॒थः॒ । निः । अ॒श्वि॒ना॒ । श्याव᳚म् । पु॒त्रम् । व॒ध्रि॒॑म॒त्याः । अ॒जि॒न्व॒त॒म् ।
क॒म॒॑द्युव᳚म् । वि॒॑म॒दाय᳚ । ऊ॒ह॒थुः॒ । यु॒वम् । वि॒ष्णा॒प्व᳚म् । विश्व᳚काय । अव᳚ । सृ॒ज॒थः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनाश्ववन्तौ सर्वं व्याप्नुवन्तौ वैतन्नामकौ हे देवौ अंहस उपद्रवकारिनः समुद्राद्भुज्यं तुग्रपुत्रमेतन्नामानं निः पिपृथः। निष्पारयथः। नितरां रक्षथः। पॄ पालन पूरणयोः। चौहोत्यादिकः। निष्तौग्र्यं पारयथः समुद्रात्। ऋ. १-११८-६। इति निगमः। तथा श्यावं हिरण्यहस्तनामानं पुत्रं वध्रिमत्या एतन्नामिकाया अजिन्वतम् । अप्रीणयतम् । अदत्तम् । हिरण्यहस्तमश्विना रराना। ऋ. १-११७-२४। इत्यादि निगमः। तथा कमद्युवं कामस्य दीपनीं वेनपुत्रीं जायां विमदायर्षये युवमूहथुः। प्रापयथः। युवं रथेन विमदाय। ऋ. १०-३९-७। इति निगमः। तथा विष्णाप्वमेतन्नामानं विनष्टं पुत्रं विश्वकायर्षय आनीयाव सृजथः। अदत्तम्। पशुं न नष्टमिव दर्शनाय। ऋ. १-११६-२३। इति निगमः॥१२॥