ब्रह्म॒ गामश्वं᳚ ज॒नय᳚न्त॒ ओष᳚धी॒र्वन॒स्पती᳚न्पृथि॒वीं पर्व᳚ता{4} अ॒पः ।
सूर्यं᳚ दि॒वि रो॒हय᳚न्तः सु॒दान᳚व॒ आर्या᳚ व्र॒ता वि᳚सृ॒जन्तो॒ अधि॒ क्षमि᳚ ॥
सूर्यं᳚ दि॒वि रो॒हय᳚न्तः सु॒दान᳚व॒ आर्या᳚ व्र॒ता वि᳚सृ॒जन्तो॒ अधि॒ क्षमि᳚ ॥
पदपाठः (Word-by-word)
ब्रह्म᳚ । गाम् । अश्व᳚म् । ज॒नय᳚न्तः । ओष᳚धीः । वन॒स्पती᳚न् । पृ॒थि॒वीम् । पर्व᳚तान् । अ॒पः ।
सूर्य᳚ । दि॒वि । रो॒हय᳚न्तः । सु॒॑दान᳚वः । आर्या᳚ । व्र॒ता । वि॒॑सृ॒जन्तः᳚ । अधि᳚ । क्षमि᳚ ॥
सूर्य᳚ । दि॒वि । रो॒हय᳚न्तः । सु॒॑दान᳚वः । आर्या᳚ । व्र॒ता । वि॒॑सृ॒जन्तः᳚ । अधि᳚ । क्षमि᳚ ॥
सायणभाष्यम् (Sayana Commentary)
ब्रह्मवर्धनसाधनमन्नम् । अन्नेन हि सर्वाः प्रजाः वर्धन्ते। गामश्वमेतत्प्रभृतीन्पशून् तथौशधीर्वनस्पतींश्च तथा पृथिवीं विस्त्रीर्णां भूमिं पर्वताञ्शेलोच्चायान् वृष्त्या जगदापुरकान्मेघान्वा अप उदकान्यन्तरिक्षं वा एताञ्जनयन्त उत्पादयन्तः किञ्च दिवि द्युलोके सूर्यमादित्यं रोहयन्तः सुदानवः शोभनदानास्तेऽमी देवा अधि क्षमि। अत इति योगविभागात्। पा. ६-४-१४०। अकार लोपः। क्शमायां पृथिव्यामार्या श्रेष्थानि कल्याणानि व्रतानि कर्माणि यागादीनि विसृजन्तः प्रसारयन्तः सर्वत्र वर्तन्ते। तान्वयम् धनं याचामह इति शेशः॥११॥