प॒र्जन्या॒वाता᳚ वृष॒भा पु᳚री॒षिणे᳚न्द्रवा॒यू वरु᳚णो मि॒त्रो अ᳚र्य॒मा ।
दे॒वा{4} आ᳚दि॒त्या{4} अदि᳚तिं हवामहे॒ ये पार्थि᳚वासो दि॒व्यासो᳚ अ॒प्सु ये ॥
दे॒वा{4} आ᳚दि॒त्या{4} अदि᳚तिं हवामहे॒ ये पार्थि᳚वासो दि॒व्यासो᳚ अ॒प्सु ये ॥
पदपाठः (Word-by-word)
प॒र्जन्या॒वाता᳚ । वृ॒ष॒भा । पु॒री॒षिणा᳚ । इ॒न्द्र॒वा॒यू इति᳚ । वरु᳚णः । मि॒त्रः । अ॒र्य॒मा ।
दे॒वान् । आ॒दि॒त्यान् । अदि᳚तिम् । ह॒वा॒म॒हे॒ । ये । पार्थि᳚वासः । दि॒व्यासः᳚ । अ॒प्॑सु । ये ॥
दे॒वान् । आ॒दि॒त्यान् । अदि᳚तिम् । ह॒वा॒म॒हे॒ । ये । पार्थि᳚वासः । दि॒व्यासः᳚ । अ॒प्॑सु । ये ॥
सायणभाष्यम् (Sayana Commentary)
पर्जन्यावाता पर्जन्यावातौ पर्जन्यावायू वृशभावृशभौ कामानां सेक्तारौ पुरीषिणा पुरीषिणौ। पुरीशमुदकम्। कर्तृत्वेन तद्वन्तौ ताविन्द्रवायू वरुणादयश्च एते स्वमहिम्ना सर्वत्र वर्तन्ते। वायोः पर्जन्येनेन्द्रेण च तत्कार्यापेक्षया सहोपादानम्। एतानादित्यान्देवानदितिं तेषां मातरं च हवामहे। अस्मिन्यज्ञे वयमाह्वयामः। किञ्च ये देवाः पार्थिवासः पार्थिवाः पृथिव्यां भवा ये च दिव्या दिवि जाता ये चाप्स्वन्तरिक्शे समुत्पन्नाः तानाह्वयामहे॥९॥